३१५ नानामन्त्राः

{अथ पञ्चदशाधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नानामन्त्राः

अग्निर् उवाच
आदौ हूङ्कारसंयुक्ता खेचछे पदभूषिता ।
वर्गातीतविसर्गेण ह्रीं हूङ्क्षेपफडन्तका ॥००१॥

मूलम्

नानामन्त्राः

अग्निर् उवाच
आदौ हूङ्कारसंयुक्ता खेचछे पदभूषिता ।
वर्गातीतविसर्गेण ह्रीं हूङ्क्षेपफडन्तका ॥००१॥

सर्वकर्मकरी विद्या विषसन्धादिमर्दनी ।

[[१५४]]

विश्वास-प्रस्तुतिः

ॐ क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने ॥००२॥

मूलम्

ॐ क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने ॥००२॥

विश्वास-प्रस्तुतिः

ॐ हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥००३॥

मूलम्

ॐ हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥००३॥

विश्वास-प्रस्तुतिः

खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्[^१] ।
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः ॥००४॥

मूलम्

खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्[^१] ।
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः ॥००४॥

खे स्त्रीं खे च प्रयोगो ऽयं वशाय विजयाय च ।

ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ॐ

विश्वास-प्रस्तुतिः

भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा
स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या
सर्वकरा स्मृता
भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे ॥००५॥

मूलम्

भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा
स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या
सर्वकरा स्मृता
भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे ॥००५॥

{इत्य् आग्नेये महापुराणे नानामन्त्रा नाम पञ्चदशाधिकत्रिशततमो ऽध्यायः }