{अथ चतुर्दशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
स्तम्भनादिमन्त्राः
अग्निर् उवाच
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।
विषव्याधिमरोगञ्च मारणं शमनं पुनः ॥००१॥
मूलम्

भूर्जे कूर्मं समालिख्य ताडनेन षड्ङ्गुलम् ।
मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः ॥००२॥

चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः ।
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ॥००३॥

[[१५२]]
विश्वास-प्रस्तुतिः
मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् ।
विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत् ॥००४॥

महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् ।
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ॥००५॥

ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ॥००६॥

ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां
विश्वास-प्रस्तुतिः
मुखं स्तम्भय २ मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु २
ॐ हूं फें फेत्कारिणि स्वाहा
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं ।
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ॥००७॥

लिखेन्मन्त्रमघोरस्य सङ्ग्रामे स्तम्भयेदरीन् ।
ॐ नमो भगवत्यै भगमालिनि विस्फुर २ स्पन्द २ नित्यक्लिन्ने द्रव २ हूं
सः क्रीं काराक्षरे स्वाहा ॥
एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् ॥००८॥

ॐ फें हूं फट् फेत्कारिणि ह्रीं ज्वल २ त्रैलोक्यं मोहय २
गुह्यकालिके स्वाहा
अनेन तिलकं कृत्वा राजादीनां वशीकरं ।
गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च ॥००९॥

नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।
गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा ॥०१०॥

[[१५३]]
विश्वास-प्रस्तुतिः
करवीरशिफा पीता ससिद्धार्था च मरणे ॥०११॥
मूलम्
करवीरशिफा पीता ससिद्धार्था च मरणे ॥०११॥
विश्वास-प्रस्तुतिः
व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।
सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम् ॥०१२॥

चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश् च कुष्ठकृत् ।
ॐ नवरहाय सर्वशत्रून् मम साधय २ मारय २ ॐ सों मं
वुं चुं ॐ शं वां कें ॐ स्वहा
अनेनार्कशतैर् अर्च्य श्मशाने तु निधापयेत् ॥०१३॥

ॐ कुञ्जरी ब्रह्माणी । ॐ मञ्जरी माहेश्वरी । ॐ वेताली
विश्वास-प्रस्तुतिः
कौमारी ॐ काली वैष्णवी । ॐ अघोरा वाराहि । ॐ वेताली
इन्त्राणी उर्वशी । ॐ जयानी यक्षिणी । नवमातरो हे मम
शत्रुं गृह्णत २
भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ॥०१४॥

{इत्य् आग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम चतुर्दशाधिकत्रिशततमो ऽध्यायः }