{अथ त्रयोदशाधिकत्रिशततमो ऽध्यायः}
त्वरिताज्ञानम्
अग्निर् उवाच
विश्वास-प्रस्तुतिः
ॐ ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट्
त्वरितायैनमः
त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां ।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ॥००१॥
मूलम्

पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।
हुङ्कारां खेचरीं चण्डां छेदनीं क्षेपणीं
स्त्रियाः ॥००२॥

हुङ्कारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् ।
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ॥००३॥

लिलैहीमैश् च सर्वाप्त्यै नामव्याहृतिभिस् तथा ।
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ॥००४॥

स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।
तक्षकाय वषन्नित्यं महापद्माय वै नमः ॥००५॥

स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः ।
लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर् नरः ॥००६॥

वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च ।
मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च ॥००७॥

ॐ ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान्
कालरात्रिकां
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।
कालीनारवमाली कालीनामाक्षमालिनी ॥००८॥
मूलम्
ॐ ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान्
कालरात्रिकां
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।
कालीनारवमाली कालीनामाक्षमालिनी ॥००८॥
[[१५०]]
विश्वास-प्रस्तुतिः
मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।
यमपाटटयामय मटमो टट मोटमा ॥००९॥
मूलम्
मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।
यमपाटटयामय मटमो टट मोटमा ॥००९॥
विश्वास-प्रस्तुतिः
वामो भूरिविभूमेया टट रीश्व श्वरी टट ।
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं ॥०१०॥

कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् ।
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ॥०११॥

निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।
विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम् ॥०१२॥

लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्जके ।
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ॥०१३॥

भुवि भित्तौ पूर्वदले1 नाम मध्यमकोष्ठके ।
खण्डे तु वारिमध्यस्थं ॐ हंसो वापि पट्टिशम् ॥०१४॥

लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् ।
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ॥०१५॥

माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया ।
यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः ॥०१६॥

पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं ।
शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् ॥०१७॥

रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् ।
ओमाद्याह्रूम्फडन्ता च आदिवर्णमथानुतः ॥०१८॥

:न्
[[१५१]]
विश्वास-प्रस्तुतिः
अधस्थात् प्रत्यङ्गिरैषा सर्वकामार्थसाधिका ॥०१९॥

एकाशीतिपदे सर्वामादिवर्णक्रमेण तु ।
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ॥०२०॥

एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी ।
निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर् लिखेत् ॥०२१॥

अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः ।
फट्काराद्यां पत्रगतां त्रिह्रीङ्कारेण वेष्टयेत् ॥०२२॥

कुम्भववद्धारिता सर्वशत्रुहृत् सर्वदायिका ।
विषन्नश्येत् कर्णजपादक्षराद्यैश् च दण्डकैः ॥०२३॥

{इत्य् आग्नेये महापुराणे त्वरिताज्ञानं नाम त्रयोदशाधिकत्रिशततमो ऽध्यायः }