{अथ द्वादशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानामन्त्राः
अग्निर् उवाच
ॐ विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् ।
धर्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम् ॥००१॥
मूलम्

:न्
[[१४६]]
विश्वास-प्रस्तुतिः
केशरं त्रिगुनं पद्मं तीव्रञ्च ज्वलिनीं यजेत् ।
नन्दाञ्च सुयशाञ्चोग्रां तेजोवतीं विन्ध्यवासिनीं1 ॥००२॥

गणमूर्तिं गणपत्तिं हृदयं स्याद्गणं जयः ।
एकदन्तोत्कटशिरःशिखायाचलकर्णिने ॥००३॥

गजवक्त्राय कवचं हूं फडन्तं तथाष्टकं ।
महोदरो दण्डहस्तः पूर्वादौ मध्यतो यजेत् ॥००४॥

जयो गणाधिपो गणनायको ऽथ गणेश्वरः ।
वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ॥००५॥
मूलम्
जयो गणाधिपो गणनायको ऽथ गणेश्वरः ।
वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ॥००५॥
विश्वास-प्रस्तुतिः
वक्त्रो विकटाननो ऽथ हूं पूर्वो विघ्ननाशनः ।
धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूजनम् ॥००६॥

त्रिपुरापूजनं2 वक्ष्ये असिताङ्गो रुरुस् तथा ।
चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् ॥००७॥

संहारो भैरवो ब्राह्मीर्मुख्या ह्रस्वास्तु भैरबाः ।
ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् ॥००८॥

समयपुत्रो वटुको योगिनीपुत्रकस् तथा ।
सिद्धपुत्रश् च वटुकः कुलपुत्रश् चतुर्थकः ॥००९॥

हेतुकः क्षेत्रपालश् च त्रिपुरान्तो द्वितीयकः ।
अग्निवेतालो ऽग्निजिह्वः कराली काललोचनः ॥०१०॥

एकपादश् च भीमाक्ष ऐं क्षें प्रेतस्तयासनं ।
ऐं ह्रीं द्वौश् च त्रिपुरा पद्मासनसमास्थिता ॥०११॥

[[१४७]]
विश्वास-प्रस्तुतिः
मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् ॥०१२॥

गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः ।
श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् ॥०१३॥

चिताङ्गारपिष्टकेन मूर्तिं ध्यात्वा तु तस्य च ।
क्षिप्त्वोदरे नीलसूत्रैर् वेष्ट्य चोच्चाठनं भवेत् ॥०१४॥

ॐ नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा
युद्धेगच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् ।
ॐ श्रीं ह्रीं क्लीं श्रियै नमः
उत्तरादौ च घृणिनी सूर्या पुज्या चतुर्दले ॥०१५॥

आदित्या प्रभावती च हेमाद्रिमधुराश्रयः ।
ॐ ह्रीं गौर्यै नमः
गौरीमन्त्रः सर्वकरः होमाद्ध्यानाज्जपार्चनात् ॥०१६॥

रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे ।
अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान् ॥०१७॥

जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् ।
क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः ॥०१८॥

अञ्जनं तिलकं वश्ये जिह्वाग्रे कविता भवेत् ।
तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणम् ॥०१९॥

स्पर्शाद्वशी तिलहोमात्सर्वञ्चैव तु सिध्यति ।
सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा ॥०२०॥

अर्धनारीशरूपो ऽयं लक्ष्म्यादिवैष्णवादिकः ।
अनङ्गरूपा शक्तिश् च द्वितीया मदनातुरा ॥०२१॥

[[१४८]]
विश्वास-प्रस्तुतिः
अनङ्गमदनानङ्गमेखलान्ताञ्चपेच्छ्रिये ॥०२२॥

पद्ममध्यदलेषु ह्रीं स्वरान् कादींस्तितः स्त्रियाः ।
षट्कोणे वा घटे वाथ लिखित्वा स्याद्वशीकरं ॥०२३॥

ॐ ह्रीं छं नित्यक्लिन्ने मदद्रवे ॐ ॐ
मूलमन्त्रः षडङ्गओयं रक्तवर्णे त्रिकोणके ।
द्रवणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका ॥०२४॥

ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा ।
कपालकल्पकतरुं वीणा रक्ता च तद्वती ॥०२५॥

नित्याभया मङ्गला च नववीरा च मङ्गला ।
दुर्भगा मनोन्मनी पूज्या द्रावा पूर्वादितः स्थिता ॥०२६॥

ॐ ह्रीं अनङ्गाय नमः ॐ ह्रीं ह्रीं स्मराय
नमः
मन्मथाय च माराय कामायैवञ्च पञ्चधा ।
कामाः पाशाङ्कुशौ चापवाणाः ध्येयाश् च विभ्रतः ॥०२७॥

ॐ छं नित्यक्लिन्ने मदद्रवे ॐ ॐ । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ
विश्वास-प्रस्तुतिः
ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त
थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ॐ छं
नित्यक्लिन्ने मदद्रवे स्वाहा
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु ॥०२८॥

ॐ ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट् स्वाहा
{इत्य् आग्नेये महापुराणे नानामन्त्रा नाम द्वादशाधिकत्रिशततमो ऽध्यायः ॥ }
[[१४९]]