{अथैकादशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
त्वरिताविद्या
अग्निर् उवाच
विद्याप्रस्तावमाख्यास्ये धर्मकामादिसिद्धिदम् ।
नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ॥००१॥
मूलम्

अनुलोमविलोमेन समस्तव्यस्तयोगतः ।
कर्णाविकर्णयोगेन अत ऊर्ध्वं विभागशः ॥००२॥

त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः ।
जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ॥००३॥

शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्लभाः ।
गुरुः स्यात् प्रथमो वर्णः पूर्वेद्युर्न च वर्ण्यते ॥००४॥

प्रस्तावे तत्र चैकार्णा द्व्यर्णास्त्र्यर्णादयो ऽभवन् ।
तिर्यगूर्ध्वगता रेखाश् चतुरश् चतुरो भजेत् ॥००५॥

नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् ।
प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ॥००६॥

प्रस्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति ।
करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ॥००७॥

[[१४४]]
विश्वास-प्रस्तुतिः
त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् ।
कपाले तु समालिख्य शिवतत्त्वं समन्ततः ॥००८॥

श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् ।
तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ॥००९॥

तापयेत्खादिराङ्गारैर् भूर्जमाक्रम्य पादयोः ।
सप्ताहादानयेत् सर्वं त्रेलोक्यं सचराचरम् ॥०१०॥

वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् ।
मध्ये गर्भगतं नाम सदाशिवविदर्भितम् ॥०११॥

कुड्ये1 फलकके वाथ शिलापट्टे हरिद्रया ।
मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ॥०१२॥

विषरक्तेन संलिख्य श्मशाने कर्परे बुधः ।
षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ॥०१३॥

मारयेदचिरादेष श्मशाने निहतं रिपुं ।
छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ॥०१४॥

चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् ।
तार्क्ष्येणैव तु वीजेन खड्गमध्ये तु लेखयेत् ॥०१५॥

विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् ।
सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना ॥०१६॥

भेदने छेदने चैव मारणेषु शिवो भवेत् ।
तारकं नेत्रमुद्दिष्टं शान्तिपुष्टौ नियोजयेत् ॥०१७॥

दहनादिप्रयोगोयं शाकिनीञ्चैव कर्पयेत् ।
मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः2 ॥०१८॥

:न्
[[१४५]]
विश्वास-प्रस्तुतिः
कुष्टाद्या व्याधयो ये तु नाशयेत्तान्न संशयः ।
मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् ॥०१९॥

रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः ।
वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ॥०२०॥

सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे ।
पूर्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ॥०२१॥

भूर्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् ।
क्रमस्थैर् मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ॥०२२॥

वेष्टिता भावहेम्ना च1 रक्षेयं मृत्युनाशिनी ।
विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ॥०२३॥

द्यूते रेणे च जयदा शक्रसैन्ये न संशयः ।
बन्ध्यानां पुत्रदा ह्य् एषा चिन्तामणिरिवापरा ॥०२४॥

साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् ।
फट् स्त्रीं क्षें हूं लक्षजप्याद्यक्षादिर्वशगो भवेत् ॥०२५॥

{इत्य् आग्नेये महापुराणे त्वरिताविद्या नामैकादशाधिकत्रिशततमो ऽध्यायः }