{अथ दशाधिकत्रिशततमो ऽध्यायः}
त्वरितामूलमन्त्रादिः
विश्वास-प्रस्तुतिः
अग्निर् उवाच
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुले ऽब्जके ।
हे २ हुति वज्रदन्त पुरु २ लुलु २ गर्ज २ इह सिंहासनाय नमः
तिर्यगूर्ध्वगता रेखाश् चत्वारश् चत्वारश् चतुरो भवेत् ॥००१॥
मूलम्

नवभागविभागेन कोष्ठकान् कारयेद्बुधः ।
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ॥००२॥

वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् ।
वाह्यकोष्ठस्य वाह्ये तु मध्ये यावत् समानयेत् ॥००३॥

वज्रस्य मध्यमं शृङ्गं वाह्यरेखा द्विधार्धतः ।
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ॥००४॥

[[१४०]]
विश्वास-प्रस्तुतिः
मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् ।
कृष्णेन रजसा लिख्य कुलिशासिशितोर्धता ॥००५॥

वाह्यतश् चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् ।
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ॥००६॥

पद्मनाम भवेद्वामवीथी चैव समा भवेत् ।
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ॥००७॥

जयेच्च परराष्ट्राणि क्षिप्रं राज्यमवाप्नुयात् ।
मूर्तिं प्रणवसन्दीप्तां हूङ्कारेण नियोजयेत् ॥००८॥

मूलविद्यां समुच्चार्य मरुद्व्योमगतां द्विज ।
प्रथमेन पुनश् चैव कर्णिकायां प्रपूजयेत् ॥००९॥

एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः ।
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैरृतम्1 ॥०१०॥

मध्ये नेत्रं दिशास्त्रञ्च गुह्यकाङ्गे तु रक्षणम् ।
हुतयः केशरस्थास्तु वामदक्षिणपार्श्वतः ॥०११॥

पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर् मन्त्रैः प्रपूजयेत् ।
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ॥०१२॥

वर्णान्तमग्निमारूटं षष्ठस्वरविभेदितं2 ।
पञ्चदशेन चाक्रान्तं स्वैः स्वैर् नामभि योजयेत्3 ॥०१३॥
:न्
[[१४१]]
विश्वास-प्रस्तुतिः
अष्टाभिर् वेष्टयेत् कुम्मैर्(?) मन्त्राष्टशतमन्त्रितैः ॥०१४॥

मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् ।
तोमं कुर्यादग्निकुण्डे वह्निमन्त्रेण चालयेत् ॥०१५॥

निक्षिपेद् हृदयेनाग्निं शक्तिं मध्ये ऽग्निगां स्मरेत् ।
गर्भाधानं पुंसवनं जातकर्म च होमयेत् ॥०१६॥

हृदयेन शतं ह्य् एकं गुह्येकं गुह्याङ्गे जनयेच्छिखिम् ।
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलितो भवेत् ॥०१७॥

होमयेम्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः ।
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ॥०१८॥

अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् ।
विद्याङ्गैश् चैव सन्नद्धं विद्याङ्गेषु नियोजयेत् ॥०१९॥

पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् ।
यवैर् द्वान्यैस्तिलैर् आज्यैर् मूलविद्याशतं हुनेत् ॥०२०॥

स्थावरत्वं पुरा होमं सरीसृपमतः परं ।
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ॥०२१॥

विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् ।
एकया चैव ह्य् आह्त्या शिष्यः स्याद्दीक्षितो भवेत् ॥०२२॥

अधिकारो भवेदेवं शृणु मोक्षमतः परम् ।
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ॥०२३॥

परे च होमयेत् स्वस्थो ऽकर्मकर्मशतान् दश ।
पूर्णाहुत्या तु तद्योगी धर्माधर्मैर् न लिप्यते ॥०२४॥

मोक्षं याति परंस्थानं यद्गत्वा न निवर्तते ।
यथा जले जलं क्षिप्तं जलं देही शिरस् तथा ॥०२५॥

[[१४२]]
विश्वास-प्रस्तुतिः
कुम्भैः कुर्याच्चाभिषेकं जयराज्यादिसर्वभाक् ।
कुमारी ब्राह्मणी पूज्या गुर्वादेर्दक्षिणां ददेत् ॥०२६॥

यजेत् सहस्रमेकन्तु पूजां कृत्वा दिने दिने ।
तिलाज्यपुरहोमेन1 देवी श्रीः कामदा भवेत् ॥०२७॥

ददाति विपुलान् भोगान् यदन्यच्च समीहते ।
जप्त्वा ह्य् अक्षरलक्षन्तु निधानाधिपतिर्भवेत् ॥०२८॥

द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी ।
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ॥०२९॥

षड्गुणेन महासिद्धिर् लक्षेणैकेन पापहा ।
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ॥०३०॥

पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् ।
शतं सहस्रमयुतं जपे होमे प्रकीर्तितम् ॥०३१॥

एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् ।
महिषाजमेषमांसेन नरजेन पुरेण2 वा ॥०३२॥

तिलैर् यवैस् तथा लाजैर् व्रीहिगोधूमकाम्रकैः ।
श्रीफलैर् आज्यसंयुक्तैर् होमयित्वा व्रतञ्चरेत् ॥०३३॥

अर्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् ।
एकवासा विचित्रेण रक्तपीतासितेन वा ॥०३४॥

नीलेन वाथ वस्त्रेण देवीं तैर् एव चार्चयेत् ।
व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ॥०३५॥

[[१४३]]
विश्वास-प्रस्तुतिः
दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके ।
एवञ्च सर्वकामाप्तिर्भुङ्क्ते सर्वां महीं नृपः ॥०३६॥

{इत्य् आग्नेये महापुराणे त्वरितामूलमन्त्रो नाम दशाधिकत्रिशततमो ऽध्यायः }