{अथ नवाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
त्वरितामन्त्रादिः
अग्निर् उवाच
अपरां त्वरिताविद्यां वक्ष्ये ऽहं भुक्तिमुक्तिदां ।
पुरे वज्राकुले1 देवीं रजोभिर्लिखिते यजेत् ॥००१॥
मूलम्

पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां ।
द्वारशोभोपशोभाञ्च लिखेच्छ्रीघ्रं स्मरेन्नरः ॥००२॥

अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता ।
दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ॥००३॥

नागभूषां वज्रकुण्डे खड्गं चक्रं गदां करमात् ।
शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ॥००४॥

धनुः पाशं शरं घण्टां तर्जनीं
शङ्खमङ्कुशम् ।
अभयञ्च तथा वर्जं वामपार्श्वे धृतायुधम् ॥००५॥

पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया ।
दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिसिद्धिभाक् ॥००६॥

:न्
[[१३६]]
विश्वास-प्रस्तुतिः
तलेतिसप्तपातालाः कालाग्निभुवनान्तकाः ।
ॐ कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ॥००७॥

ॐ काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः ।
प्रस्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ॥००८॥

तालुर्वर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः ।
चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ॥००९॥

षष्ठो ऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः ।
ऊष्माणः स्याच्छ्वर्गस्तु उद्धरेच्च मनुं ततः ॥०१०॥

षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् ।
तालुवर्गद्वितीयन्तु स्वरैकादशयोजितम् ॥०११॥

जिह्वातालुसमायोगः प्रथमं केवलं भवेत् ।
तदेव च द्वितीयन्तु अधस्ताद्विनियोजयेत् ॥०१२॥

एकादशस्वरैर् युक्तं प्रथमं तालुवर्गतः ।
ऊष्माणस्य1 द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ॥०१३॥

षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।
जिह्वादन्तसमायोगे प्रथमं योजयेदधः ॥०१४॥
मूलम्
षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।
जिह्वादन्तसमायोगे प्रथमं योजयेदधः ॥०१४॥
विश्वास-प्रस्तुतिः
मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु ।
चतुर्थस्वरसम्भिन्नं तालुवर्गादिसंयुतम् ॥०१५॥

ऊष्मणश् च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ॥०१६॥

पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।
द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ॥०१७॥

[[१३७]]
विश्वास-प्रस्तुतिः
प्रथमं पञ्चमे योज्यं स्वरार्धेनोद्धृता इमे ।
ओङ्काराद्या नमोन्ताश् च जपेत् स्वाहाग्निकार्यके ॥०१८॥

ॐ ह्रीं ह्रूं ह्रः हृदयं हां हृश्चेति शिरः ।
ह्रीं ज्वल ज्जलशिखा स्यात् कवचं हनुद्वयम् । ह्रीं श्रीं
विश्वास-प्रस्तुतिः
क्षून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्तितम् क्षौं हः खौं
हूं फडस्त्राय गुह्याङ्गानि पुरा न्यसेत्
त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि शृणुष्व मे ।
आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ॥०१९॥

पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।
तारकन्तु भवेन्नेत्रं नवार्धाक्षरलक्षणं ॥०२०॥

तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।
ख ख हूं दशवीजा स्याद्वज्रतुण्डेन्द्रद्रूतिका ॥०२१॥

खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।
वर्चे शरविभीषणि खखेति च शवर्यपि ॥०२२॥
मूलम्
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।
वर्चे शरविभीषणि खखेति च शवर्यपि ॥०२२॥
विश्वास-प्रस्तुतिः
छे छेदनि करालिनि खखेति च कराल्यपि ।
वक्षःश्रवद्रवप्लवनी ख ख1 दूतीप्लवं ख्यपि ॥०२३॥

स्त्रीबालकारे धुननि शास्त्री वसनवेगिका ।
क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ॥०२४॥

ह्रूं तेजोवति रौद्री च मातङ्गरौद्रिदूतिका ।
पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका ॥०२५॥

वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् ।
हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः ॥०२६॥

[[१३८]]
विश्वास-प्रस्तुतिः
अङ्घ्रिजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः ॥०२७॥

वज्रमण्डलबूर्धे च अघोर्धे चादिवीजतः ।
सोमरूपं ततो गावं धारामृतसुवर्षिणम् ॥०२८॥

विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् ।
मूर्धास्यकण्ठहृन्नाभौ गुह्योरुजानुपादयोः ॥०२९॥

आदिवीजं न्यसेन्मन्त्री तर्जन्यादि पुनः पुनः ।
ऊर्धं सोममधः पद्मं शरीरं वीजविग्रहं ॥०३०॥

यो जानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वरा ।
यजेज्जपेत्तां विन्यस्य ध्यायेद्देवीं शताष्टकम् ॥०३१॥

मुद्रा वक्ष्ये प्रणीताद्याः प्रणीताः पञ्चधा
स्मृताः ।
ग्रथितौ तु करौ कृत्वा मध्ये ऽङ्गुष्ठौ निपातयेत् ॥०३२॥

तर्जनीं मूर्ध्निसंलग्नां विन्यसेत्तां शिरोपरि ।
प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ॥०३३॥

ऊर्धन्तु कन्यसामध्ये सवीजान्तां विदुर्द्विजाः ।
नियोज्य तर्जनीमध्ये ऽनेकलग्नां परस्पराम् ॥०३४॥

ज्येष्टाग्रं निक्षिपेन्मध्ये भेदनी सा प्रकीर्तिता ।
नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठावुत्क्षिपेत्ततः ॥०३५॥

कराली तु महामुद्रा हृदये योज्य मन्त्रिणः ।
पुनस्तु पूर्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् ॥०३६॥

वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् ।
उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ॥०३७॥

[[१३९]]
विश्वास-प्रस्तुतिः
दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ॥०३८॥

अङ्गुष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोर्ध्वतो भवेत् ।
एका तु मध्यमोर्ध्वा तु शक्तिरेव विधीयते ॥०३९॥

शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ॥०४०॥
मूलम्
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ॥०४०॥
विश्वास-प्रस्तुतिः
मोहणी मोक्षणी चैव ज्वालिनी चामृताभया ।
प्रणीताः पञ्चमुद्रास्तु पूजाहोमे च योजयेत् ॥०४१॥

{इत्य् आग्नेये महापुराणे त्वरितामन्त्रादिर्नाम नवाधिकत्रिशततमो ऽध्यायः }