३०८ त्वरितापूजा

{अथाष्टाधिकत्रिशततमो ऽध्यायः}

त्वरितापूजा

अग्निर् उवाच
त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् ।

ॐ आधारशक्त्यै नमः । ॐ ह्रीं पुरु २ महासिंहाय
नमः ।ॐ पद्माय नमः । ॐ ह्रीं ह्रूं खेचछेक्षः ।
स्त्रीं ॐ ह्रूं क्षैं ह्रूं फट् त्वरितायै नमः । खे च
हृदयाय नमः ।चछे शिरसे नमः ।छेक्षः शिखायै
नमः । क्षस्त्री कवचाय नमः । स्त्रीं ह्रूं नेत्राय नमः । ह्रूं खे अस्त्राय फट् नमः । ॐ त्वरिताविद्यां विद्महे
तूर्णविद्याञ्च धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै
नमः । ह्रूं कारायै नमः । ॐ खेच हृदयाय नमः ।
खेचर्यै नमः । ॐ चण्डायै नमः । छेदन्यै नमः
क्षेपण्यै नमः ।स्त्रियै ह्रूं कार्यै नमः । क्षेमङ्कर्यै
जयायै किङ्कराय रक्ष । ॐ त्वरिताज्ञया स्थिरो भव वषट्
तोतला त्वरिता तूर्णेत्येत्येवं विद्येयमीरिता ॥००१॥
शिरोभ्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके ।
उर्वोश् च जानुजङ्घोरुद्वये चरणयोः क्रमात् ॥००२॥
न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् ।
पार्वती शवरी चेशा वरदाभयहस्तिका ॥००३॥
मयूरबलया पिच्छमौलिः किसलयांशुका ।
सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ॥००४॥
त्रिनेत्रा श्यामला देवी वनमालाविभूषणा ।

[[१३४]]

विप्राहिकण्राभरणा चत्रकेयूरभूषणा ॥००५॥
वैश्यनागकटीबन्धा वृषलाहिकृतनूपुरा ।
एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ॥००६॥
ईशः किरातरूपो ऽभूत् पुरा गौरी च तादृशी ।
जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ॥००७॥
अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।
अङ्गगायत्री प्रणीता हूङ्काराद्या दलाग्रके ॥००८॥
फट्कारी चाग्रतो देव्याः श्रीवीजेनार्चयेदिमाः ।
लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्धरा ॥००९॥
जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके ।
किङ्करा वर्वरी मुण्डी लगुडी च तयोर्वहिः ॥०१०॥
इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् ।
हेमलाभो ऽर्जुनैर् धान्यैर् गोधूमैः पुष्टिसम्पदः ॥०११॥
यवैर् धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् ।
अक्षैर् उन्मत्तता शत्रोः शाल्मलीभिश् च मारणम् ॥०१२॥
जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैर् अपि ।
रक्तात्पलैर् महापुष्टिः कुन्दपुष्पैर् महोदयः ॥०१३॥
मल्लिकाभिः पुरक्षोभः कुमुदैर् जनवर् लभः ।
अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ॥०१४॥
आम्रैर् आयुस्तिलैर् लक्ष्मीर्बिल्वैः श्रीश् चम्पकैर् धनम् ।
इष्टं मधुकपुष्पैश् च बिल्वैः सर्वज्णतां लभेत् ॥०१५॥
त्रिलक्षजप्यात्सर्वाप्तिर्होमाद्ध्यानात्तथेज्यया ।
मण्डले ऽभ्यर्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ॥०१६॥

[[१३५]]

दद्याच्छतत्रयं मूलात् पल्लवैर् दीक्षितो भवेत् ।
पञ्चगव्यं पुरा पीत्वा चरुकं प्राशयेत्सदा ॥०१७॥

{इत्य् आग्नेये महापुराणे त्वरितापूजा नामाष्टाधिकत्रिशततमो ऽध्यायः }