{अथ सप्ताधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
त्रैलोक्यमोहनीलक्ष्म्यादिपूजा
अग्निर् उवाच
वक्षः सवह्निर्यामाक्षौ दण्डीः श्रीः सर्वसिद्धिदा ।
महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः ॥००१॥
मूलम्

नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः
स्वाहा स्वाहा श्रीफट् ॥
अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् ।
त्रिलक्षमेकलक्षं वा जप्त्वाक्षाब्जैश् च भूतिदः ॥००२॥

श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् ।
आज्याक्तैस्तण्डुलैर् लक्षं जुहुयात् खादिरानले ॥००३॥

राजा वश्यो भवेद्वृद्धिः श्रीश् च स्यादुत्तरोत्तरं ।
सर्षपाम्भोभिषेकेण नश्यन्ते सकला ग्रहाः ॥००४॥

बिल्वलक्षहुता लक्ष्मीर्वित्तवृद्धिश् च जायते ।
शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ॥००५॥

[[१३१]]
विश्वास-प्रस्तुतिः
बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् ।
ऊर्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ॥००६॥

उर्ध्वीकृतेन हस्तेन रक्तपङ्कजधारिणीं ।
श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिनीम् ॥००७॥

हरितां दोर्द्वयेनोर्धमुद्वहन्तीं सिताम्बुजम् ।
ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ॥००८॥

शाङ्करीमुक्क्तरे द्वारि तन्मध्ये ऽष्टदलपङ्कजं ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥००९॥

ध्येयास्ते पद्मपत्रेषु शङ्खचक्रगदाधराः ।
अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ॥०१०॥

आग्नेयादिषु पत्रेषु गुग्गुलुश् च कुरुण्टकः ।
दमकः सलिलश्चेति हस्तिनी रजतप्रभाः ॥०११॥

हेमकुम्भधराश् चैते कर्णिकायां श्रियं स्मरेत् ।
चतुर्भुजां सुवर्णाभां सपद्मोर्ध्वभुजद्वयां ॥०१२॥

दक्षिणाभयहस्ताभां वामहस्तवरप्रदां ।
श्वेतगन्धांशुकामेकरौम्यमालास्त्रधारिणीं ॥०१३॥

ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् ।
द्रोणाब्जपुष्पश्रीवृक्षपर्णं मूर्ध्नि न धारयेत् ॥०१४॥

लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् ।
पायसाशी जपेत् सूक्तं श्रियस्तेनाभिषेचयेत् ॥०१५॥

आवाहादिविसर्गान्तां मूर्ध्नि ध्यात्वार्चयेत् श्रियम् ।
विल्वाज्याब्जपायसेन पृथक् योगः श्रिये भवेत् ॥०१६॥

[[१३२]]
ॐ ह्रीं महामहिषमर्दिनि ठ ठ मूलमन्त्रं
विश्वास-प्रस्तुतिः
भहिषहिंसके नमः । महिषशत्रुं भ्रामय २ हूं फट्
ठ ठ महिषं हेषय २ हूं महिषं हन२ देवि हूं
महिषनिसूदनि फट्
दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् ॥०१७॥

ॐ ह्रीं दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै
नमः । आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै
सुरूपायै ॥
पत्रस्थाः पूजयेदेता मूर्तीराद्यैः स्वरैः क्रमात् ॥०१८॥

चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय ।
अष्टम्याद्यैर् इमां दुर्गां लोकेशान्तां यजेदिति ।०१९।
दुर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत् ॥०१९॥

समाध्येशानमन्त्रेण तिलहोमो वशीकरः ।
जयः पद्मैस्तु दुर्वाभिः शान्तिः कामः पलाशजैः ॥०२०॥

पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् ।
ब्रह्मक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् ॥०२१॥

ॐ दुर्गे दुर्गे रक्षणि स्वाहा
रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता ।
श्यामां त्रिलिचनां देवीं ध्यात्वात्मानं चतुर्भुजम् ॥०२२॥

शङ्खचक्राब्जशूलादित्रिशूलां रौद्ररूपिणीं ।
युद्धादौ सञ्जयेदेतां यजेत् खड्गादिके जये ॥०२३॥

{इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नाम सप्ताधिकत्रिशततमो ऽध्यायः }
[[१३३]]