{अथ षष्ठाधिकत्रिशततमो ऽध्यायः}
त्रैलोक्यमोहनमन्त्राः
अग्निर् उवाच
वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलिक्यमोहनम् ।
ॐ श्रीं ह्रीं ह्रूं ॐ नमः पुरुशोत्तमः
पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण
सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर
सुरमनुजसुन्दरोजनमनांसि तापय २ दोपय २ शोडय २ मारय २
स्तम्भय २ द्रावय २ आकर्षय २ परमसुभग सर्वसौमाग्यकर
कामप्रद अमुकं हन २ चक्रेण गदया खड्गेण सर्व-[!!!]
[[१२७]]
वाणैर्भिद २ पाशेन हट्ट २ अङ्कुशेन ताड्य २ तुरु २
किन्तिष्ठसियावत्तावत् समीहितं मे सिद्धं भवति हूं फट्
नमः
ॐ पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फट् हृदयाय
नमः कर्षय महाबल हूं फट् अस्त्राय त्रिभुवनेश्वर
सर्वजनमनांसि हन २ दारय २ मम वशमानय २ हूं फट्
नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप
सर्वस्त्रीहृदयाकर्षण आगच्छ २ नमः ॥
सङ्गाक्षिण्यायकेन न्यासं मूलवदीरितं ॥००१॥
इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च ।
कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत् ॥००२॥
पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं ।
द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् ॥००३॥
यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं ।
हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं ॥००४॥
सम्भोज्य विप्रानाचार्यं तोषयेत्सिध्यते मनुः ।
स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं ॥००५॥
गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः ।
रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् ॥००६॥
पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।
अशेषं कल्मषं देहात् विश्लेषयदनुस्मरेत् ॥००७॥
रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् ।
उर्ध्वाधस्तिर्यगाभिस्तु मूर्ध्नि सम्प्लावयेद्वपुः ॥००८॥
ध्यात्वामृतैर् वहिश्चान्तःसुषुम्नामार्गगामिभिः ।
एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा ॥००९॥
[[१२८]]
विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः ।
गुह्ये गले दिक्षु हृदि कक्षौ देहे च सर्वतः ॥०१०॥
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।
तारेण सम्परात्मानं स्मरेत्तं सर्वलक्षणं ॥०११॥
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः
प्रचोदयात्
आत्मार्चनात् क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं ।
कृत्वात्मपूजां विधिना स्थण्डिले तं समर्चयेत् ॥०१२॥
कर्मादिकल्पिते पीठे पद्मस्थं गरुडोपरि ।
मर्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं ॥०१३॥
मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं ।
दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं ॥०१४॥
विष्णुं नानाविधानेकपरिवारपरिच्छदम् ।
लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं ॥०१५॥
पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् ।
देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् ॥०१६॥
चक्रं शङ्खं धनुः खड्गं गदां
मुषलमङ्कुशं ।
पाशञ्च विभ्रतं चार्चेदावाहादिविसर्गतः ॥०१७॥
श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं ।
साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ॥०१८॥
मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् ।
ॐ सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद २ छिन्द २
विदारय २ परममन्त्रान् ग्रस २ भक्षय २ भूतानि चाशप २
हूं
[[१२९]]
फट् ॐ जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द २ खड्गाय
नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय
विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्तक श्वसन
पोथय २ हूं फट् स्वाहा । पाश बन्ध २ आकर्षय २ हूं फट् । अङ्कुशेन कट्ट हूं फट्
क्रमाद्भुजेषु मन्त्रैः स्वैर् एभिरस्त्राणि पूजयेत् ॥०१९॥
ॐ पक्षिराजाय ह्रूं फट्
तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि ।
शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ॥०२०॥
शक्तयो ऽन्ते प्रयोज्यादौ सुरेशाद्याश् च दण्डिना ।
पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः ॥०२१॥
कीर्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते ।
लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ॥०२२॥
ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् ।
ॐ श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे
नमः
एतत्पूजादिना सर्वान् कामानाप्नोति पूर्ववत् ॥०२३॥
तोयैः सम्मोहनी पुष्पैर् नित्यन्तेन च तर्पयेत् ।
ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ॥०२४॥
जप्त्वा त्रिलक्षं हुत्वा च लक्षं बिल्वैश् च साज्यकैः ।
तण्डुलैः फलगन्धाद्यैः1 दूर्वाभिस्त्वायुराप्नुयात् ॥०२५॥
तयाभिषेकहोमादिक्रियातुष्टो ह्य् अभीष्टदः ।
:न्
[[१३०]]
ॐ नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतिद्वं मे
देहि हृदयाय स्वाह
पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ॥०२६॥
{इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनमन्त्रो नाम षष्ठाधिकत्रिशततमो ऽध्यायः ॥ }
-
फलपुष्पाद्यैर् इति ट॥ ↩︎