{अथ पञ्चाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नारसिंहादिमन्त्राः
अग्निर् उवाच
स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे ।
व्याधिश्चेति स्मृतं क्षुत्रं तन्मोक्षो वक्ष्यते शृणु ॥००१॥
मूलम्

ॐ नमो भगवते उन्मत्तरुद्राय भ्रम २ भ्रामय २ अमुकं वित्रासय
उद्भ्रामय २ रौद्रेण रूपेण हूं फठ् ठ २
श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् ।
चिताग्नौ धूर्तसमिदुभिर्भ्राम्यते सततं रिपुः ॥००२॥

हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः ।
जप्त्वा विध्येच्च तत्कण्ठे हृदि वा मियते रिपुः ॥००३॥

खरबालचिताभस्म ब्रह्मदण्डी च मर्कटी ।
गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत क्षिपेत् ॥००४॥

भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश् च वर्म फट् ।
एवं सहस्रारे हूं फट् आचक्राय स्वाहा हृदयं विचक्राय
शिवः
शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् ॥००५॥

[[१२५]]
विश्वास-प्रस्तुतिः
सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् ।
शार्ङ्गं सुदर्शनं क्षुद्रग्रहहृत् सर्वसाधनम् ॥००६॥

मूर्धाक्षिमुखहृद्गुह्यपादे ह्य् अस्याक्षरान्न्यसेत् ।
चक्राब्जासनमग्न्याभं दंष्ट्रणञ्च चतुर्भुजम् ॥००७॥

शङ्खचक्रगदापद्मशलाकाङ्कुशपाणिनम् ।
चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं ॥००८॥

नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः ।
पीतञ्चक्रं गदा रक्ताः स्वराः श्याममवान्तरं ॥००९॥

नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी ।
मध्येतरेमरे वर्णानेवं चक्रद्वयं1 लिखेत् ॥०१०॥

आदावानीय कुम्भोदं गोचरे सन्निधाय च ।
दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात् ॥०११॥

आज्यापामार्गसमिधो ह्य् अक्षतं तिलसर्षपौ ।
पायसं गव्यमाज्यञ्च सहस्राष्टकसङ्ख्यया ॥०१२॥

हुतशेषं क्षिप्तेत् कुम्भे प्रतिद्रव्यं विधानवित् ।
प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् ॥०१३॥

विष्णादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे ।
नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु
शान्तये नमः
दद्यादनेन मन्त्रेण हुतशेषाम्भसा बलिं ॥०१४॥

फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः ।
गव्यपूर्णे निवेश्यैव दिक्ष्वेवं होमयेद्द्विजैः ॥०१५॥

:न्
[[१२६]]
विश्वास-प्रस्तुतिः
गव्याक्तपत्रलिखितैर् निष्पर्णैः क्षुद्रमुद्धृतम् ॥०१६॥

दूर्वाभिरायुषे पद्मैः श्रिये पुत्रा उडुग्बरैः ।
गोसिद्ध्यै सर्पिषा गोष्ठे मेधायै सर्वशाखिना ॥०१७॥

ॐ क्षौं नमो भगवते नारसिंहाय ज्वालामालिने
दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय
सर्वभूतविनाशाय सर्वज्वरविनाशाय दह २ पच २ रक्ष २ हूं
विश्वास-प्रस्तुतिः
फट्
मन्त्रोयं नारसिंहस्य मकलाघ्निवारणः ।
जप्यादिना हरेत् क्षुद्रग्रहमारीविषामयान् ।०१८।
चूर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत् ॥०१८॥

{इत्य् आग्नेये महापुराणे नारसिंहादिमन्त्रा नाम पञ्चाधिकत्रिशततमो ऽध्यायः }