{अथ चतुरधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पञ्चपञ्चाशद्विष्णुनामाणि
अग्निर् उवाच
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ॥००१॥
मूलम्

पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।
राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥००२॥

जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् ॥००३॥

जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥००४॥

[[१२३]]
विश्वास-प्रस्तुतिः
पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥००५॥

वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥००६॥

विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥००७॥

काशीतटे महायोगं विरजायां रिपुञ्जयम् ।
विशाखयूपे ह्य् अजितन्नेपाले लोकभावनम् ॥००८॥

द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥००९॥

पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥०१०॥

उत्पलावर्तके शौरीं नर्मदायां श्रियः पतिं ।
दामोदरं रैवतके नन्दायां जलशायिनं ॥०११॥

गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विटुः ।
सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥०१२॥

सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥०१३॥

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनं ॥०१४॥

नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् ।
वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥०१५॥

नामान्येतानि विष्णीश् च जप्त्वा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥०१६॥

[[१२४]]
विश्वास-प्रस्तुतिः
तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।
यः पठेत् शृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् ॥०१७॥

{इत्य् आग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमो ऽध्यायः ॥ }