३०३ पञ्चाक्षरादिपूजामन्त्राः

{अथ त्र्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

पञ्चाक्षरादिपूजामन्त्राः

अग्निर् उवाच
मेषः सञ्ज्ञा विषं साद्यमस्ति दीर्घोदकं रसः ।
एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ॥००१॥

मूलम्

तारकादि समभ्यर्च्य देवत्वादि समाप्नुयात् ।
ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ॥००२॥

तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूर्तिभिः ।
मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास् तथा ॥००३॥

प्राणादिवायवः पञ्च ज्ञानकर्मेन्द्रियाणि च ।
सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ॥००४॥

गव्येन प्रक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं ।
तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ॥००५॥

:न्

[[११९]]

विश्वास-प्रस्तुतिः

मूलमूर्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् ।
कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा ॥००६॥

निवेद्यैकं परं हुत्वा सशिष्यो ऽन्यद्भजेद्गुरुः ।
आचम्य सकलीकृत्य दद्याच्च्छिष्याय देशिकः ॥००७॥

दन्तकाष्ठं हृदा जप्तं क्षीरवृक्षादिसम्भवम् ।
संशोध्य दन्तान् सङ्क्षिप्त्वा प्रज्ञाल्यैतत् क्षिपेद्भुवि ॥००८॥

पूर्वेण सौम्यवारीशगतं शुभमतौ शुभम् ।
पुनस्तं शिष्यमायान्तं1 शिश्वाबन्धादिरक्षितं ॥००९॥

कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः ।
सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद्गुरुं ॥०१०॥

शुभैः सिद्धिपदैर् भक्तिस्तैः पुनर्मण्डलार्चनम् ।
मण्डलं भद्रकाद्युक्तं पूजयेत्सर्वसिद्धिदं ॥०११॥

स्नात्वाचम्य मृदा देहं मन्त्रैर् आलिप्य कल्प्यते ।
शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ॥०१२॥

हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः ।
मूलेनाब्जासनं कुर्यात्तेन पूरककुम्भकान् ॥०१३॥

आत्मानं योजयित्वोर्ध्वं शिखान्ते द्वादशाङ्गुले ।
संशोष्य दग्ध्वा स्वतनुं प्लावयेदमृतेन च ॥०१४॥

ध्मात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् ।
कृत्वेवं चात्मशुद्धिः स्याद्विन्यस्यार्चनमारभेत् ॥०१५॥

क्रमात् कृष्णसितश्यामरक्तपीता नगादयः ।
मन्त्रार्णा दण्डिनाङ्गानि तेषु सर्वास्तु मूर्तयः ॥०१६॥

[[१२०]]

विश्वास-प्रस्तुतिः

अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्वतः ।
न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्धसु ॥०१७॥

व्यापकं न्यस्य मूर्धादि मूलमङ्गानि विन्यसेत् ।
रक्तपीतश्यामसितान् पीठपादान् स्वकालजान् ॥०१८॥

स्वाङ्गान्मन्त्रैर् न्यसेद्गात्राण्यधर्मादीनि दिक्षु च ।
तत्र पद्मञ्च सुर्यादिमण्डले त्रितयं गुणान् ॥०१९॥

पूर्वादिपत्रे कामाद्या नवकं कर्णिकोपरि ।
वामा ज्येष्ठा क्रमाद्रौद्रो काली कलविकारिणी ॥०२०॥

बलविकारिणी चार्थ बलप्रमथनी तथा ।
सर्वभूतदमनी च नवमी च मनोन्मनी ॥०२१॥

मूलम्

बलविकारिणी चार्थ बलप्रमथनी तथा ।
सर्वभूतदमनी च नवमी च मनोन्मनी ॥०२१॥

विश्वास-प्रस्तुतिः

श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता ।
कृष्णारुणाश् च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् ॥०२२॥

अनन्तयोगपीठाय आवाह्याथ हृदब्जतः ।
स्फटिकाभं चतुर्वाहुं फलशूलधरं शिवम् ॥०२३॥

साभयं वरदं पञ्चवदन्नञ्च त्रिलोचनम् ।
पत्रेषु मुर्तयः पञ्च स्थाप्यास्तत्पुरुषादयः ॥०२४॥

पूर्वे तत्पुरुषः श्वेतो अघोरो ऽष्टभुजो ऽसिताः ।
चतुर्वाहुमुखः पीताः सद्योजातश् च पश्चिमे ॥०२५॥

वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजो ऽरुणः ।
सौम्ये पञ्चास्य ईशाने ईशानः सर्वदः सितः ॥०२६॥

इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्ममर्चयेत् ।
सिद्धेश्वरं त्वेकनेत्रं पूर्वादौ दिश पूजयेत् ॥०२७॥

एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् ।

[[१२१]]

विश्वास-प्रस्तुतिः

ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः1 ॥०२८॥

श्वेतः पीतः सितो रक्तो धूम्रो रक्तो ऽरुणः शितः ।
शूलाशनिशरेश्वासवाहवश् चतुराननाः ॥०२९॥

उमा वण्डेशनन्दीशौ महाकालो गणेश्वरः ।
वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ॥०३०॥

कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां ।
शूलं चक्रं यजेत् पद्मं पूव्वादौ देवमर्च्य च ॥०३१॥

ततो ऽधिवासितं शिष्यं पाययेद्गव्यपञ्चकम् ।
आचान्तं प्रोक्ष्ये नेत्रान्तैर् नेत्रे नेत्रेण बन्धयेत् ॥०३२॥

द्वारं प्रवेशयेच्छिप्यं मण्डपस्याथ दक्षिणे ।
सासनादिकुशासीनं तत्र संशोधयेद्गुरुः ॥०३३॥

आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् ।
पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ॥०३४॥

न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् ।
पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ॥०३५॥

यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्दिशेत् ।
पार्श्वेयागभुवः खाते कुण्डे सन्नभिमेखले2 ॥०३६॥

शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्चयेत् ।
ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् ॥०३७॥

पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश् च मन्त्रितान् ।
पृथिव्यादीनि तत्त्वानि जुहुयाद्धृदयादिभिः ॥०३८॥

[[१२२]]

विश्वास-प्रस्तुतिः

एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् ।
हुत्वा पूर्णाहुतिं कुर्यादस्त्रेणाष्टाहुतीर्हुनेत् ॥०३९॥

प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् ।
कुम्भं समन्त्रितं प्रार्च्य शिशुं पीठे ऽभिषेचयेत् ॥०४०॥

शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् ।
दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि ॥०४१॥

{इत्य् आग्नेये महापुराणे पञ्चाक्षरादिपूजामन्त्रा नाम त्र्यधिकत्रिशततमो ऽध्यायः ॥ }

  1. मध्येषु तोरणद्वहिरिति ख॥ , ज॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. सन्धादिमेखले इति ख॥ ↩︎ ↩︎