{अथ द्व्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अङ्गाक्षरार्चनम्
अग्निर् उवाच
यदा जन्मर्क्षगश् चन्द्रो भानुः सप्तसराशिगः ।
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ॥००१॥
मूलम्

कण्टोष्ठौ चलतःस्थानाद्यस्य वक्रा च नासिका ।
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ॥००२॥

तारो मेषो विषं दन्ती नरो दीर्घो वणा रसः ।
क्रूद्धोल्काय महोल्काय वीरोल्काय शिखा भवेत् ॥००३॥

[[११७]]
विश्वास-प्रस्तुतिः
ह्यल्काय राहसोल्काय वैष्णवोष्टाक्षरो मनुः ।
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ॥००४॥

ज्येष्ठाग्रेण क्रमात्तावन् मूर्धन्यष्टाक्षरं न्यसेत् ।
तर्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ॥००५॥

तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रयः ॥००६॥

एवं रूपानिमान् वर्णान् भावबुद्धान्न्यसेत् क्रमात् ।
हृदास्यनेत्रमूर्धाङ्घ्रितालुगुह्यकरादिषु1 ॥००७॥

अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।
यथात्मनि तथा देवे न्यासः कार्यः करं विना ॥००८॥

हृदादिस्थानगान् वर्णान् गन्धपुष्पै समर्चयेत् ।
धर्माद्यग्न्याद्यधर्मादि गात्रे पीठे ऽम्बुजे न्यसेत् ॥००९॥

यत्र केशरकिञ्जल्कव्यापिसूर्येन्दुदाहिनां ।
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ॥०१०॥

गुणाश् च तन्त्रसत्वाद्याः केशरस्थाश् च शक्तयः ।
विमलोत्कर्षणीज्ञानक्रियायोगाश् च वै क्रमात् ॥०११॥

प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।
योगपीठं समभ्यर्च्य समावह्य हरिं यजेत् ॥०१२॥

पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।
एतत् पञ्चोपचारञ्च सर्वं मूलेन दीयते ॥०१३॥

वासुदेवादयः पूज्याश् चत्वारो दिक्षु मूर्तयः ।
विदिक्षु श्रीसरस्वत्यै रतिशान्त्यै च पूजयेत् ॥०१४॥

:न्
[[११८]]
विश्वास-प्रस्तुतिः
शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ॥०१५॥

अभ्यर्च्य च वहिस्तार्क्ष्यं देवस्य पुरतो ऽर्चयेत् ।
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः1 ।०१६।
इन्द्रादिपरिचारेण पूज्य सर्वमवाप्नुयात् ॥०१६॥

{इत्य् आग्नेये महापुराणे अङ्गाक्षरार्चनं नाम द्व्यधिकत्रिशततमो ऽध्यायः ॥ }