{अथैकाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानामन्त्राः
अग्निर् उवाच
वाक्कर्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः ।
हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती ॥००१॥
मूलम्

:न्
[[११४]]
विश्वास-प्रस्तुतिः
अक्षाराशी वर्णलक्षं जपेत् समतिमान् भवेत् ।
अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः ॥००२॥

वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् ।
नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् ॥००३॥

नृपादिर्भ्रष्टरज्यादीन्राज्यपुत्रादिमाप्नुयात् ।
हृल्लेखा शक्तिदेवाख्या दोषाग्निर्दण्डिदण्डवान् ॥००४॥

शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्दशीं ।
चक्रपाशाङ्कुशधरां साभयां वरदायिकां ॥००५॥

होमादिना च सौभाग्यं कवित्वं पुरवान् भवेत् ।
ॐ ह्रीं ॐ नमः कामाय सर्वजनहिताय सर्वजनमोहनाय
प्रज्वलिताय सर्वजनहृदयं ममात्मगतं कुरु २ ॐ
एतज्जपादिना मन्त्रओ वशयेत् सकलं जगत् ॥००६॥

ॐ ह्रीं चामुण्डे अमुकन्दह २ पच २ मम वशमानय २ ठ
विश्वास-प्रस्तुतिः
वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्तितः ।
फलत्रयकषायेण वराङ्गं क्षालयेद्वशे ॥००७॥

अश्वगन्धायवैः स्त्री तु निशाकर्पूरकादिना ।
पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः ॥००८॥

वृहतीरसलेपश् च वशे स्यान्मरणान्तिकं ।
कटीरमूलत्रिकटुक्षौद्रलेपस् तथा भवेत् ॥००९॥

हिमं कपित्थकरभं मागधी मधुकं मधु ।
तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ॥०१०॥

सशर्करयोनिलेपात् कदम्बरसको मधु ।
सहदेवी महालक्ष्मीः पुत्रजीवी कृताञ्जलिः ॥०११॥

[[११५]]
विश्वास-प्रस्तुतिः
एतच्चूर्णं शिरःक्षिप्तं लिकस्य वशमुत्तमम् ।
त्रिफलाचन्दनक्वाथप्रस्था द्विकुडवम् पृथक् ॥०१२॥

भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु ।
घृतैः पक्वा निशा छाया शुष्का लिप्या तु रञ्जनी ॥०१३॥

विदारीं सोच्चटामाषचूर्णीभ्ह्तां सशर्करां ।
गथितां यः विपेत् क्षीरैर् नित्यं स्त्रीशतकं व्रजेत् ॥०१४॥

गुल्ममाषतिलव्रीहिचूर्णक्षीरसितान्वितं ।
अश्वत्थवंशदर्भाणां मूलं वै वैष्णवीश्नियोः ॥०१५॥

मूलं दूर्वाश्वगन्धोत्थं पिवेत् क्षीरैः सुतार्थिनी ।
कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोघ्नं वटाङ्कुरम् ॥०१६॥

आज्यक्षीरमृतौ पेयं पुत्रार्थं त्रिदिवं स्त्रिया ।
पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं सवटाङ्कुरम् ॥०१७॥

श्रीवडाङ्कुरदेवीनां रसं नस्ये विपेच्च सा ।
श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक् ॥०१८॥

तरलं पयसा युक्तं कार्पासफलपल्ल्वं ।
अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः ॥०१९॥

पुत्रार्थञ्चार्धषट्शाकैर् योगाश् चत्वार ईरिताः ।
शर्करोत्पलपुष्पाक्षलोध्रचन्दनसारिवाः ॥०२०॥

स्रवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा ।
लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत् ॥०२१॥

अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् ।
नाभेरधः समालिप्य प्रसूते प्रमदा सुखम् ॥०२२॥

[[११६]]
विश्वास-प्रस्तुतिः
केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम् ॥०२३॥

साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् ।
शीर्यमाणेषु केशेषु स्थापनञ्च भवेदिदम् ॥०२४॥

धात्रीभृङ्गरसप्रस्थतैलञ्च क्षिरमाढकम् ।
ॐ नमो भगवते त्र्यम्बकाय उपशमय २ चुलु २ मिलि २ भिद २ गोमानिनि
चक्रिणि ह्रूं फट् ॥
अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु २ शान्तिं कुरु २ ॥०२५॥

घण्डाकर्णो महासेनो वीरः प्रोक्तो महाबलः ॥०२५॥

मारीनिर्नाशनकरः स मां पातु जगत्पतिः ।
श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक् ॥०२६॥

{इत्य् आग्नेये महापुराणे नानामन्त्रा नामैकाधिकत्रिशततमो ऽध्यायः ॥ }