{अथ त्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सूर्यार्चनम्
अग्निर् उवाच
शय्या तु दण्डिसाजेशपावकश् चतुराननः ।
सर्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ॥००१॥
मूलम्

स्वयं दीर्घस्वराद्यञ्च वीजेष्वङ्गानि सर्वशः ।
खातं साधु विषञ्चैव सविन्दुं सकलं तथा ॥००२॥

[[११२]]
विश्वास-प्रस्तुतिः
गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्त्राय
महोहरहस्ताय
पञ्चाङ्गं सर्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतेः ॥००३॥

गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय
विश्वास-प्रस्तुतिः
दिग्दले पूजयेन्मूर्तीः पुरावच्चाङ्गपञ्चकम् ।
वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय
विकटाय विघ्नराजाय धूम्रवर्णाय
दिग्विदिक्षु यजेदेताल्लोकांशांश् चैव मुद्रया ॥००४॥

मध्यमातर्जनीमध्यगताङ्गुष्ठौ समुष्टिकौ ।
चतुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ॥००५॥

दन्तभक्षधरं रक्तं साब्जं पाशाड्कुशैर् वृतम् ।
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ॥००६॥

श्वेतार्कमूलेन कृतं सर्वाप्तिः स्यात्तिलैर् घृतैः ।
तण्डुलैर् दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ॥००७॥

घोषासृक्प्राणधात्वर्दी दण्डी गार्तण्डभैरवः ।
धर्मार्थकाममोक्षाणां कर्ता विम्बपुटावृतः ॥००८॥

ह्रस्वाः स्युर्मूर्तर्यः पञ्च दीर्घा अङ्गानि तस्य च ।
सिन्दूरारुणमीशाने वामार्धदयितं रविं ॥००९॥

आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ॥०१०॥

कृतान्तमैशे निर्माल्यं तेजश् चण्डाय दीपितं ।
रोचना कुङ्कुमं वारि रक्तगन्धाक्षताङ्कुराः ॥०११॥

[[११३]]
विश्वास-प्रस्तुतिः
वेणुवीजयवाःशालिश्यामाकतिलराजिकाः ।
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य तत्[^१] ॥०१२॥

जानुभ्यामवनीङ्गत्वा सूर्यायार्घ्यं निवेदयेत् ।
स्वविद्यामन्त्रितैः कुम्भैर् नवभिः प्रार्च्य वै ग्रहान् ॥०१३॥

ग्रहादिशान्तये स्नानं जप्त्वार्कं सर्वमाप्नुयात् ।
सङ्ग्रामविजयं साग्निं वीजदोषं सविन्दुकं ॥०१४॥

न्यस्य मूर्धादिपादान्तं मूलं पूज्य तु मुद्रया ।
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ॥०१५॥

ध्यानञ्च मारणस्तम्भे पीतगाप्यायने सितम् ।
रिपुघातविधौ[^२] कृष्णं मोहयेच्छक्रचापवत् ॥०१६॥

यो ऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी हृजयः श्रीमान् समुद्रादौ जयं लभेत् ॥०१७॥

ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।
न्यस्तुवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतं ॥०१८॥

{इत्य् आग्नेये महापुराणे सूर्यार्चनं नाम त्रिशततमो ऽध्यायः ॥ }