{अथ नवनवत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ग्रहहृन्मन्त्रादिकम्
अग्निर् उवाच
ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् ।
हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् ॥००१॥
मूलम्

गुरुदेवादिकोपाच्च पञ्चोन्मादा भवन्त्य् अथ ।
त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः ॥००२॥

देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।
सरित्सरस्तडागादौ शैलोपवनसेतुषु ॥००३॥
मूलम्
देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।
सरित्सरस्तडागादौ शैलोपवनसेतुषु ॥००३॥
विश्वास-प्रस्तुतिः
नदीसङ्गे शून्यगृहे विलद्वार्येकवृक्षके ।
ग्रहा गृह्णन्ति पुंसश् च श्रियः1 सुप्ताञ्च गर्भिणीम् ॥००४॥

आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या ।
अवमानं नृणां वैरं विघ्नं भाग्यविपर्ययः ॥००५॥

:न्
[[१०९]]
विश्वास-प्रस्तुतिः
पतनं शैलवृक्षादेर्विधुन्वन्मूर्धजं मुहुः ॥००६॥

रुदन्नृत्यति रक्ताक्षो हूंरूपो ऽनुग्रही नरः ।
उद्विग्नः शूलदाहार्तः क्षुत्तृष्णार्तः शिरोर्तिमान् ॥००७॥

देहि दहीति याचेत बलिकामग्रही नरः ।
स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः ॥००८॥

महासुदर्शनो व्योमव्यापी विटपनासिकः1 ।
पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः ॥००९॥

पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् ।
पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ॥०१०॥
मूलम्
पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् ।
पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ॥०१०॥
विश्वास-प्रस्तुतिः
खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् ।
अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले ॥०११॥

आदित्यादियुतं प्रार्च्य उदितेर्के ऽर्घ्यकं ददेत् ।
श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः ॥०१२॥

अर्काय भूर्भुवःस्वश् च ज्वालिनीं कुलमुद्गरम् ।
पद्मासनो ऽरुणो रक्तवस्त्रसद्युतिविश्वकः ॥०१३॥

उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्वाङ्गभूषितः ।
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ॥०१४॥

विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्यो ऽरुणः कुजः ।
बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश् चरः ॥०१५॥

कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः ।
वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा ॥०१६॥

[[११०]]
विश्वास-प्रस्तुतिः
अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् ॥०१७॥

मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् ।
प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य वारिणा ॥०१८॥

गन्धपुष्पाक्षतं न्यस्य दूर्वामर्घ्यञ्च मन्त्रयेत् ।
आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् ॥०१९॥

प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।
पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ॥०२०॥

पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च ।
पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः ॥०२१॥

वां दीप्तां वीं तथा सुक्ष्मां वुञ्जयां वूञ्च
भाद्रिकां ।
वें विभूतीं वैं विमलां वोमसिघातविद्युताम् ॥०२२॥

वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् ।
आवाह्य दद्यात् पाद्यादि हृत्षडङ्गेन सुव्रत ॥०२३॥

खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता ।
मांसदीर्घा जरद्वायुहृदैतत् सर्वदं रवेः ॥०२४॥

वह्नीशरक्षो मरुताम् किक्षु पूज्या हृदादयः ।
स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् ॥०२५॥

पूर्वादिदिक्षु सम्पूज्याश् चन्द्रज्ञगुरुभार्गवाः ।
नस्याञ्जनादि कुर्वीत साजमूत्रैर् ग्रहापहैः ॥०२६॥

पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक् फलैः ।
अजाक्षीराढके पक्वसर्पिः सर्वग्रहान् हरेत् ॥०२७॥

वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् ।
अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् ॥०२८॥

[[१११]]
विश्वास-प्रस्तुतिः
विदारीकुशकाशेक्षुक्वाथजं पाययेत् पयः ।
द्रोणे सयष्टिकुष्माण्डरसे सर्पिश् च संस्कृतौ ॥०२९॥

पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु ।
ॐ भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः
प्रचोदयात्
कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् ॥०३०॥

श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा ।
पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् ॥०३१॥

धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी ।
पिवरश्चेति हिक्काघ्नं तत् त्रयं मधुना लिहेत् ॥०३२॥

कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् ।
व्योषपद्मकत्रिफलाकिडङ्गदेवदारवः ।०३३।
रास्नाचूर्णं समं खण्डैर् जग्ध्वा कासहरं ध्रुवम् ॥०३३॥

{इत्य् आग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम नवनवत्यधिकद्विशततमो ऽध्यायः ॥ }