२९८ बालग्रहहरबालतन्त्रं

{अथाष्टनवत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

बलग्रहहरबालतन्त्रम्

अग्निर् उवाच
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्दनं ।
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ॥००१॥

मूलम्

गात्रोद्वेगो निराहारो नानाग्रीवाविवर्तनं ।
तच्चेष्टितमिदं तस्यान्मातॄणाञ्च बलं हरेत् ॥००२॥

सत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ॥००३॥

महिषाक्षेण धूपश् च द्विरात्रे भौषणी ग्रही ।
तच्चेष्टा कासनिश्वासौ गात्रसङ्कोचनं मुहुः ॥००४॥

आजमूत्रैर् लिपेत् कृष्णासेव्यापामार्गचन्दनैः ।
गोशृङ्गदन्तकेशैश् च धूपयेत् पूर्ववद्बलिः ॥००५॥

ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ॥००६॥

केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।
नखराजीबिल्वदलैर् धूपयेच्च बलिं हरेत् ॥००७॥

ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।
फेनोद्गारो दिशो दृष्टिः कुल्माषैः सासवैर् बलिः ॥००८॥

गजदन्ताहिनिर्मोकवाजिमूत्रप्रलेपनं ।
सराजीनिम्बपत्रेण धूतकेशेन छूपयेत् ॥००९॥

मूलम्

गजदन्ताहिनिर्मोकवाजिमूत्रप्रलेपनं ।
सराजीनिम्बपत्रेण धूतकेशेन छूपयेत् ॥००९॥

हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोर्धधारिणी ।

[[१०४]]

विश्वास-प्रस्तुतिः

मुष्टिबन्धश् च तच्चेष्टा बलिं मत्स्यादिना हरेत् ॥०१०॥

मेषशृङ्गबलालोध्रशिलातालैः शिशुं लिपेत् ।
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ॥०११॥

निराहारो ऽङ्गविक्षेपो हरेन्मत्स्यादिना बलिं ।
राजीगुग्गुलुकुष्ठेभदन्ताद्यैर् धूपलेपनैः ॥०१२॥

सप्तमे मुक्तकेश्यार्तः पूतिगन्धो विजृम्भणं ।
सादः प्ररोदनङ्कासो धूपो व्याघ्रनखैर् लिपेत् ॥०१३॥

वचागोमयगोमूत्रैः श्रीदण्डी चाष्टमे ग्रही ।
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ॥०१४॥

बलिः पूर्वैव मत्स्याद्यैर् धूपलेपे च1 हिङ्गुला ।
वचासिद्धर्थलशुनैश्चोर्ध्वग्राही महाग्रही ॥०१५॥

उद्वेजनोर्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।
रक्तचन्दनकुष्ठाद्यैर् धूपयेल्लेपयेच्छिशुं ॥०१६॥

कपिरोमनखैर् धूपो दशमी रोदनी ग्रही ।
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ॥०१७॥

धूपो निम्बेन भूतोग्रराजीसर्जरसैर् लिपेत् ।
बलिं वहिर्हरेल्लाजकुल्माषकवकोदनम्2 ॥०१८॥

यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।
गृह्नाति मासिकं वत्सं पूतनासङ्कुली ग्रही ॥०१९॥

काकवद्रोदनं श्वासो मूत्रगन्धो ऽक्षिमीलनं ।
गोमूत्रस्नपनं तस्य गोदन्तेन च धूपनम् ॥०२०॥

:न्

[[१०५]]

विश्वास-प्रस्तुतिः

पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्विधम् ॥०२१॥

करञ्जाधो यमदिशि सप्ताहं तैर् बलिं हरेत् ।
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ॥०२२॥

छर्धिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।
अपूपमोदनं दीपः कृष्णं नीरादि धूपकम् ॥०२३॥

तृतीये गोमुखी निद्रा सविन्मूत्रप्ररोदनम् ।
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ॥०२४॥

क्षीरं पूर्वे ददेन्मध्ये ऽहनि धूपश् च सर्पिषा ।
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्तिहृत् ॥०२५॥

तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ॥०२६॥

अपानः पीतवर्णश् च मत्स्याद्यैर् दक्षिणे बलिः ।
षण्मासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ॥०२७॥

मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।
सप्रमे तु निराहारा पूतिगन्धादिदन्तरुक् ॥०२८॥

पिष्टमांससुरामांसैर् बलिः स्याद्यमुनाष्टमे ।
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ॥०२९॥

नवमे कुम्भकर्ण्यार्तो ज्वरी च्छर्दति पालकम् ।
रोदनं मांसकुल्माषमद्याद्यैर् वैश्वके बलिः ॥०३०॥

दशमे तापसी चेष्टा निराहारोक्षिमीलनम् ।
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ॥०३१॥

राक्षस्येकादशी पीडा नेत्राद्यं न चिकित्सनम् ।

[[१०६]]

विश्वास-प्रस्तुतिः

चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ॥०३२॥

बलिः पूर्वे ऽथ मध्याह्ने कुल्मापाद्यैस्तिलादिभिः ।
यातना तु द्वितीये ऽब्दे यातनं रोदनादिकम् ॥०३३॥

तिलमांसमद्यमांसैर् बलिः स्नानादि पूर्ववत् ।
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ॥०३४॥

गुडौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।
तिलस्नानं पञ्चपत्रैर् धूपो राजफलत्वचा ॥०३५॥

चतुर्थे चटकाशोफो ज्वरः सर्वाङ्गसादनम् ।

मत्स्यमांसतिलाद्यैश् च बलिः स्नानञ्च धूपनम् ॥०३६॥

चञ्चला पञ्चमे ऽब्दे तु ज्वरस्त्रासो ऽङ्गसादनम् ।
मांसौदनाद्यैश् च बलिर्मेषशृङ्गेण धूपनम् ॥०३७॥

पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।
षष्ठे ऽब्दे धावनीशोषो वैरस्यं1 गात्रसादनम् ॥०३८॥

सप्ताहोभिर्बलिः पूर्वैर् धुपस्नानञ्च भङ्गकैः2
सप्तमे यमुनाच्छर्दिरवचोहासरोदनम् ॥०३९॥

मांसपाद्यसमद्याद्यैर् बलिः स्नानञ्च धूपनम् ।
अष्टमे वा जातवेदा निराहारं प्ररोदनम् ॥०४०॥

कृशरापूपदध्याद्यैर् बलिः स्नानञ्च धूपनम् ।
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ॥०४१॥

बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः ।
दशमे ऽब्दे कलहंसी दाहो ऽङ्गकृशता ज्वरः ॥०४२॥

[[१०७]]

विश्वास-प्रस्तुतिः

पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।
निम्बधूपकुष्ठलेप एकादशमके ग्रही ॥०४३॥

देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् ।
बलिका द्वादशे बलिर्लेपादि पूर्ववत् ॥०४४॥

त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।
रक्तान्नगन्धमाल्याद्यैर् बलिः पञ्चदलैः स्नपेत् ॥०४५॥

राजीनिस्वदलैर् धूपो यक्षिणी च चतुर्दशे ।
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर् बलिः ॥०४६॥

स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्तिस्त्रिपञ्चके ।
तच्चेष्टासृक्श्रवः शश्वत्कुर्याम्मातृचिकित्सनम् ॥०४७॥

वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।
पायसाद्यैस्त्रिरात्रञ्च वलिः स्नानादि पूर्ववत् ॥०४८॥

गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।
कुल्माषाद्यैर् बलिः स्नानधूपलेपादि पूर्ववत् ॥०४९॥

दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।

ॐ नमः सर्वमातृभ्यो बालपीडासंयोगं भुञ्ज भुञ्ज
चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण
आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हरे हरे
निर्दोषं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा
सर्वग्रहाणामुपक्रमात्

विश्वास-प्रस्तुतिः

चामुण्डे नमो देव्यै ह्रूं ह्रूं ह्रीं अपसर अपसर
दुष्टग्रहान् ह्रूं तद्यथा गच्छन्तु गृह्यकाः अन्यत्र
पन्थानं रुद्रो ज्ञापयति
सर्वबालग्रहेषु स्यान्मन्त्रो ऽयं सर्वकामिकः ॥०५०॥

ॐ नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा

[[१०८]]

बलिं गृह्ण गृह्ण जय जय वस वस ।
सर्वत्र बलिदाने ऽयं रक्षाकृत् पठ्यते मनुः ।०५१।
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।०५१॥
ब्रह्मा विष्णुः शिवः स्कन्दो गौरो गौरी
लक्ष्मीर्गणादयः ॥०५१घ्

{इत्य् आग्नये महापुराणे बालग्रहहरं बालतन्त्रं नाम अष्टनवत्यधिकद्विषततमो ऽध्यायः }

  1. धूपदीपे चेति ट॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. करकोदनमिति ख॥ ↩︎ ↩︎ ↩︎ ↩︎