२९७ गोनसादिचिकित्सा

{अथ सप्तनवत्यधिकद्विशततमो ऽध्यायः}

गोनसादिचिकित्सा

विश्वास-प्रस्तुतिः

अग्निरुचाच
गोनसादिचिकित्साञ्च वशिष्ठ शृणु वच्मि ते ।

ह्रीं ह्रीं अमलपक्षि स्वाहा
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥००१॥

मूलम्

अग्निरुचाच
गोनसादिचिकित्साञ्च वशिष्ठ शृणु वच्मि ते ।

ह्रीं ह्रीं अमलपक्षि स्वाहा
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥००१॥

विश्वास-प्रस्तुतिः

लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे ।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाहिजे विषे ॥००२॥

मूलम्

लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे ।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाहिजे विषे ॥००२॥

विश्वास-प्रस्तुतिः

अथ राजिलदष्टे च पेया कृष्णा समैन्धवा ।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥००३॥

मूलम्

अथ राजिलदष्टे च पेया कृष्णा समैन्धवा ।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥००३॥

विश्वास-प्रस्तुतिः

सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥००४॥

मूलम्

सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥००४॥

चूर्णितैर् मेषदुग्धाक्तैर् धूपः सर्वविषापहः ।

[[१०१]]

विश्वास-प्रस्तुतिः

रोमनिर्गुण्डिकाकोकवर्णैर् वा लशुनं समं ॥००५॥

मूलम्

रोमनिर्गुण्डिकाकोकवर्णैर् वा लशुनं समं ॥००५॥

विश्वास-प्रस्तुतिः

मुनिपत्रैः कृतस्वेदं दष्टं काञ्चिकपाचितैः ।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत् ॥००६॥

मूलम्

मुनिपत्रैः कृतस्वेदं दष्टं काञ्चिकपाचितैः ।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत् ॥००६॥

विश्वास-प्रस्तुतिः

सतैलं मूषिकार्तिघ्नं फलिनीकुसुमन्तथा ।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥००७॥

मूलम्

सतैलं मूषिकार्तिघ्नं फलिनीकुसुमन्तथा ।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥००७॥

विश्वास-प्रस्तुतिः

चिकित्सा विंषतिर्भूता लूताविषहरो गणः ।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥००८॥

मूलम्

चिकित्सा विंषतिर्भूता लूताविषहरो गणः ।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥००८॥

विश्वास-प्रस्तुतिः

निर्गुण्डी शारिवा शेलु लूतार्तं सेचयेज्जलैः ।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥००९॥

मूलम्

निर्गुण्डी शारिवा शेलु लूतार्तं सेचयेज्जलैः ।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥००९॥

विश्वास-प्रस्तुतिः

करञ्जास्थि च तत्पङ्कैः1 वृश्चिकार्तिहरं शृणु ।
मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं ॥०१०॥

मूलम्

करञ्जास्थि च तत्पङ्कैः1 वृश्चिकार्तिहरं शृणु ।
मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं ॥०१०॥

संयोज्याश् चतुरो योगा लेपादौ वृश्चिकापहाः ।

ॐ नमो भगवते रुद्राय चिवि २2 छिन्द २ किरि २ भिन्द २ खड्गे न छेदय

विश्वास-प्रस्तुतिः

मन्त्रेण मन्त्रितो देयो गर्धभादीन्निकृन्तति ॥०११॥

मूलम्

मन्त्रेण मन्त्रितो देयो गर्धभादीन्निकृन्तति ॥०११॥

विश्वास-प्रस्तुतिः

त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।
अजाक्षीरेण पानादेर्गर्धभादेर्विषं हरेत् ॥०१२॥

मूलम्

त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।
अजाक्षीरेण पानादेर्गर्धभादेर्विषं हरेत् ॥०१२॥

विश्वास-प्रस्तुतिः

हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥०१३॥

मूलम्

हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥०१३॥

व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।

:न्

[[१०२]]

विश्वास-प्रस्तुतिः

क्षारव्योषवचाडिङ्गुविडङ्गं सैन्धवन्नतं ॥०१४॥

मूलम्

क्षारव्योषवचाडिङ्गुविडङ्गं सैन्धवन्नतं ॥०१४॥

विश्वास-प्रस्तुतिः

अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।
यष्टिव्योषगुडक्षीरयोगः1 शूनो विषापहः ॥०१५॥

मूलम्

अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।
यष्टिव्योषगुडक्षीरयोगः1 शूनो विषापहः ॥०१५॥

विश्वास-प्रस्तुतिः

ॐ सुभद्रायै नमः ॐ सुप्रभायै नमः ।
यान्यौषधानि गृह्यन्ते विधानेन विना जनैः ॥०१६॥

मूलम्

ॐ सुभद्रायै नमः ॐ सुप्रभायै नमः ।
यान्यौषधानि गृह्यन्ते विधानेन विना जनैः ॥०१६॥

विश्वास-प्रस्तुतिः

तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्माब्रवीच्च ताम् ।
ताम्प्रणम्यौषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ॥०१७॥

मूलम्

तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्माब्रवीच्च ताम् ।
ताम्प्रणम्यौषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ॥०१७॥

विश्वास-प्रस्तुतिः

दश जप्त्वा मन्त्रमिदं नमस्कुर्यात्तदौषधं ।
त्वामुद्धराम्यूर्ध्वनेत्रामनेनैव च भक्षयेत् ॥०१८॥

मूलम्

दश जप्त्वा मन्त्रमिदं नमस्कुर्यात्तदौषधं ।
त्वामुद्धराम्यूर्ध्वनेत्रामनेनैव च भक्षयेत् ॥०१८॥

विश्वास-प्रस्तुतिः

नमः पुरुषसिंहाय नमो गोपालकाय च ।
आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥०१९॥

मूलम्

नमः पुरुषसिंहाय नमो गोपालकाय च ।
आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥०१९॥

विश्वास-प्रस्तुतिः

एतेन सत्यवाक्येन अगदो मे ऽस्तु सिध्यतु ।

नमो वैदूर्यमाते तन्न २ रक्ष मां सर्वविषेभ्यो गौरि गान्धारि
चाण्डालि मातङ्गिनि स्वाहा हरिमाये
औषधादौ प्रयोक्तव्यो मन्त्रो ऽयं स्थावरे विषे ॥०२०॥

भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥०२१॥

मूलम्

भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥०२१॥

{इत्य् आग्नेये महापुराणे गोनसादिचिकित्सा नाम सप्तनवत्यधिकद्विशततमो ऽध्यायः }

:न्

[[१०३]]

  1. तत्पक्षैर् इति ज॥ , ञ॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. शूलेन भेदय २ चक्रेण दारय २ ॐ ह्रूं फट् ↩︎