२९६ विषहृन्मन्त्रौषधं

{अथ षन्नवत्यधिकद्विशततमो ऽध्यायः}

विषहृन्मन्त्रौषधं

अग्निर् उवाच । ॐ नमो भगवते रुद्राय छिन्द २ विषं
ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं
उत्थपय २ दष्टकं कम्पय २ जल्पय २ सर्पदष्टमुत्थापय लल २
बन्ध २ गोचय २ वररुद्र गच्छ २ बध २ त्रुट २ भीषय २ मुष्टिना
संहर विषं ठ ठ

:न्

[[९९]]

पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात्

ॐ नमो भगवते रुद्र नाशय विषं स्थावरजङ्गमं
कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं
दष्टकविषं नाशय धम २ दम २ वम २
मेघान्धकारधाराकर्षनिर्विषयीभव संहर २ गच्छ २

विश्वास-प्रस्तुतिः

आवेशय २ विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ॐ
क्षिप ॐ क्षिप स्वाहा

ॐ ह्रीं खीं सः ठन्द्रौं ह्रीं ठः
जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ॥१॥

मूलम्

आवेशय २ विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ॐ
क्षिप ॐ क्षिप स्वाहा

ॐ ह्रीं खीं सः ठन्द्रौं ह्रीं ठः
जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ॥१॥

विश्वास-प्रस्तुतिः

एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः ।
गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ॥००२॥

मूलम्

एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः ।
गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ॥००२॥

ॐ नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व २1 गर्ज २ भ्रामय २
मुञ्च २ मुह्य २ कट २ आविश २ सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ

विश्वास-प्रस्तुतिः

पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः ।
दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ॥००३॥

मूलम्

पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः ।
दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ॥००३॥

विश्वास-प्रस्तुतिः

विषशान्त्यै देहाद्दंशं ज्वालकोकनदादिना2
शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ॥००४॥

मूलम्

विषशान्त्यै देहाद्दंशं ज्वालकोकनदादिना2
शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ॥००४॥

विश्वास-प्रस्तुतिः

विषं विनाशयेत् पानलेपनेनाञ्जनादिना ।
शिरीषपुश्पस्य रसभावितं मरिचं सितं ॥००५॥

मूलम्

विषं विनाशयेत् पानलेपनेनाञ्जनादिना ।
शिरीषपुश्पस्य रसभावितं मरिचं सितं ॥००५॥

विश्वास-प्रस्तुतिः

पाननस्याञ्जनाद्यैश् च विषं हन्यान्न संशयः ।
कोषातकीवचाहिङ्गुशिरीशार्कपयोयुतं ॥००६॥

मूलम्

पाननस्याञ्जनाद्यैश् च विषं हन्यान्न संशयः ।
कोषातकीवचाहिङ्गुशिरीशार्कपयोयुतं ॥००६॥

:न्

[[१००]]

विश्वास-प्रस्तुतिः

कुटुत्रयं समेषाम्भो हरेन्नस्यादिना विषं ।
रामठेक्ष्वाकुसर्वाङ्गचूर्णं नस्याद्विषापहं ॥००७॥

मूलम्

कुटुत्रयं समेषाम्भो हरेन्नस्यादिना विषं ।
रामठेक्ष्वाकुसर्वाङ्गचूर्णं नस्याद्विषापहं ॥००७॥

विश्वास-प्रस्तुतिः

इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा ।
तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्ययिषापहं ।००८।
पञ्चाङ्गं कृष्णपञ्चभ्यां शिरीषस्य विषापहं ॥००८॥

मूलम्

इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा ।
तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्ययिषापहं ।००८।
पञ्चाङ्गं कृष्णपञ्चभ्यां शिरीषस्य विषापहं ॥००८॥

{इत्य् आग्नेये महापुरणे विषहृन्मन्त्रौषधं नाम षन्नवत्यधिकद्विशततमो ऽध्यायः }


  1. ॐ ह्रां ह्रीं ह्रूमिति ञ॥ ↩︎

  2. ॐ हौं हं इति ज॥ ↩︎ ↩︎