{अथ पञ्चनवत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पञ्चाङ्गरुद्रविधानं
अग्निर् उवाच
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्वदं परं ।
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ॥००१॥
मूलम्

शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।
शतरुद्रियमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ॥००२॥

पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्तः क्रमात् ।
यज्जाग्रत इति सूक्तं यदृचं मानसं विदुः ॥००३॥

ऋषिः स्याच्छिवमङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं ।
शिवः सहस्रशीर्षेति तस्य नारायणो ऽप्यृषिः ॥००४॥

देवता पुरुषो ऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् ।
अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः1 ॥००५॥

:न्
[[९७]]
विश्वास-प्रस्तुतिः
छन्दस्त्रिष्टुभमन्त्यायाः पुरुषो ऽस्यापि देषता ॥००६॥

आशुरिन्त्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं ।
ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्चके ॥००७॥

पृथक् पृथक् देवताः स्युः पुरुविदङ्गदेवता ।
अवशिष्टदैवतेषु छन्दो ऽनुष्टुवुदाहृतं ॥००८॥

असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः1 ।
पङ्क्तिच्छन्दो ऽथ मर्माणि त्वपलिङ्गोक्तदेवताः ॥००९॥

रौद्राध्याये च सर्वस्मिन्नार्षं स्यात् परमेष्वपि ।
प्रजापतिर्वा देवानां कुत्सस्य तिसृणाम् पुनः ॥०१०॥

मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश् च देवताः ।
आद्योनुवाको ऽथ पूर्व एकरुद्राख्यदैवतः ॥०११॥

छन्दो गायत्र्यमाद्याया अनुष्टुप् तिसृणामृचाम् ।
तिसृणाञ्च तथा पङ्क्तिरनुष्टुवथ संस्मृतम् ॥०१२॥

द्वयोश् च जगतीछन्दो रुद्राणामप्यशीतयः ।
हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च ॥०१३॥

पञ्चर्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाककः2 ।
विंशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता ॥०१४॥

ऋग्द्वितीया त्रिजगती त्रिष्टुवेव च ।
अनुष्टुभो यजुस्तिस्र आर्यादिज्ञः सुसिद्धिभाक् ॥०१५॥

[[९८]]
विश्वास-प्रस्तुतिः
इं श्रीं ह्रीं ह्रौं हूं1 त्रैलोक्यमोहनाय विष्णवे
नमः ।०१६।
अगुष्टुभं नृसिंहेन विषव्याधिविनाशनं ॥०१६॥

ॐ इं इं2 उग्रवीरं मंहाविष्णुं ज्वलन्तं
सर्वतोमुखं ।
नृसिंहं भीषणं मृत्युमृत्युम्नमाम्यहं ॥०१७॥

अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्दनौ ॥०१८॥

कुब्जिका त्रिपुरा गौरी चन्द्रिका3 विषहारिणी ।
प्रसादमन्त्रो विषहृदायुरारोग्यवर्धनः ॥०१९॥

सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ॥०१९॥

{इत्य् आग्नेये महापुराणे पञ्चाङ्गरुद्रविधानन्नाम पञ्चनवत्यधिकद्विशततमो ऽध्यायः ॥ }