{अथ चतुर्नवत्यधिकद्विशततमो ऽध्यायः}
दष्टचिकित्सा
विश्वास-प्रस्तुतिः
अग्निर् उवाच
मन्त्रध्यानौषधैर् दष्टचिकित्सां प्रवदामि ते ।
ॐ नमो भगवते नीलकण्ठायेति ।००१।
जपनाद्विषहानिः स्यदौषधं जीवरक्षणं ॥००१॥
मूलम्

साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते ।
जङ्गमं सर्पभूषादि शृङ्ग्यादि स्थावरं विषं ॥००२॥

शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं1 शिवः ।
वियतेर्नाममन्त्रो ऽयं तार्क्षः शब्दमयः स्मृतः ॥००३॥

:न्
[[९३]]
र्दय विमर्दय कवचाय अप्रतिहतशामनं वं हूं फट् अस्त्राय
उग्ररूपवारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु
कुरु स्वाहा नेत्राय
विश्वास-प्रस्तुतिः
सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं
वह्निराभूतकर्णकं मातृकाम्बुजं
कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् ।
अङ्गष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः1 ॥००४॥

पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं ।
वृत्तार्धमाप्यपद्मार्धं शुक्लं वरूणदैवतं ॥००५॥

त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं ।
वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् ॥००६॥

अङ्गुष्ठाद्यङ्गुलीमध्ये पर्यस्तेषु स्ववेश्मसु ।
सुवर्णनागवाहेन वेष्ठितेषु न्यसेत् क्रमात् ॥००७॥

वियतेश् चतुरो वर्णान् सुमण्डलसमत्विषः ।
अरूपे रवतन्मात्रे2 आकाशेशिवदेवते ॥००८॥
मूलम्
वियतेश् चतुरो वर्णान् सुमण्डलसमत्विषः ।
अरूपे रवतन्मात्रे2 आकाशेशिवदेवते ॥००८॥
विश्वास-प्रस्तुतिः
कनिष्ठामध्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् ।
नागानामादिवर्णांश् च स्वमण्डलगतान्न्यसेत् ॥००९॥

भूतादिवर्णान् विन्यसेदङ्गुष्टाद्यन्तपर्वसु ।
तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः ॥०१०॥

स्पर्शनादेवतार्क्षेण हस्ते हन्याद्विषद्वयं ।
मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ॥०११॥

[[९४]]
विश्वास-प्रस्तुतिः
आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ॥०१२॥

कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं ।
ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ॥०१३॥

नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः ।
एवन्तात्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ॥०१४॥

सुष्टिस्तार्क्षकरस्यान्तःस्थिताङ्गुष्ठविषापहा ।
तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ॥०१५॥

कुर्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया ।
आकाशादेष भूवीजः पञ्चार्णाधिपतिर्मनुः ॥०१६॥

संस्तम्भयेतिविषतो भाषया स्तम्भ्येद्विषम् ।
व्यत्यस्तभूषया वीजो मन्त्रो ऽयं साधुसाधितः ॥०१७॥

सम्प्लवः प्लावय यमः1 शब्दाद्यः संहरेद्विषं ।
दण्डमुत्थापयेदेष सुजप्ताम्भो ऽभिषेकतः ॥०१८॥

सुजप्तशङ्खभेर्यादिनिस्वनश्रवणेन वा ।
सन्दहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ॥०१९॥

भूवायुव्यत्ययान्मन्त्रो विषं सङ्क्रामयत्यसौ ।
अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ॥०२०॥

एतत् कर्म नयेन्मन्त्री गरुडाकृतिविग्रहः ।
तार्क्षवर्णगेहस्थस्तज्जपान्नाशयेद्विषम् ॥०२१॥

जामुदण्डीदमुदितं स्वधाश्रीवीजलाञ्छितं ।
स्नानपानात्सर्वविषं ज्वरातोगापमृत्युजित् ॥०२२॥

[[९५]]
विश्वास-प्रस्तुतिः
पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ॥०२३॥

द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात्
पक्षिराजाय विध्महे पक्षिदेवाय धीमहि तत्रो गरुड
विश्वास-प्रस्तुतिः
प्रचोदयात्
वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ॥
सकालो लाङ्गली चेति नीलकण्ठाद्यमीरितं ।
वक्षःकण्ठशिखाश्वेतं न्यसेत्स्तम्भे सुसंस्कृतौ ॥०२४॥

हर हर हृदयाय नमः कपर्दिने च शिरसे नीलकण्ठाय वै
शिखां कालकूटविषभक्षणाय स्वाहा
विश्वास-प्रस्तुतिः
अथ वर्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैर् आननैर्
युक्तं श्वेतपीतारुणासितैः
अभयं वरदं चापं वासुकिञ्च दधद्भुजैः ।
यस्योपरीतपार्श्वस्थगौरीरुद्रो ऽस्य देवता ॥०२५॥

पादजानुगुहानाभिहृत्कण्ठाननमूर्धसु ।
मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥०२६॥

तर्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर् न्यसेत् ।
ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया ॥०२७॥

कनिष्ठा ज्येष्ठया वद्धा तिश्रो ऽन्याः प्रसृतेर्जवाः ।
विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ॥०२८॥

ॐ नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः
सर्वज्ञकण्ठाय चिः क्षिप ॐ स्वाहा
अमलनीलकण्ठाय नैकसर्वविषापहाय
नमस्ते रुद्रमन्यव इतिसर्मार्जनाद्विषं विनश्यति न सन्देहः
कर्णजाप्या उपानहावा
[[९६]]
विश्वास-प्रस्तुतिः
यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् ।
विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं ॥०२९॥

{इत्य् आग्नेये महापुराणे दष्टचिकित्सा नाम चतुर्णवत्यधिकद्विशततमो ऽध्यायः ॥ }