{अथ त्रिनवत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नागलक्षणानि
अग्निरुचाच
नागादयो ऽथ भावादिदशस्थानानि कर्म च ।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ॥००१॥
मूलम्

शेषवासुकितक्षाख्याः कर्कटो ऽब्जो महाम्बुजः ।
शङ्खपालश् च कुलिक इत्य् अष्टौनागवर्यकाः ॥००२॥

दशाष्टपञ्चत्रिगुणशतमूर्धान्वितौ क्रमात् ।
विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्तितौ ॥००३॥

तदन्वयाः पञ्चशतं तेभ्यो जाता असङ्ख्यकाः ।
फणिमण्डलिराजीलवातपित्तकफात्मकाः ॥००४॥

व्यन्तरा दोषमिश्रास्ते सर्पां दर्वीकराः स्मृताः ।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः1 ॥००५॥

:न्
[[८९]]
विश्वास-प्रस्तुतिः
राजिलाश्चित्रिताः स्निग्धास्तिर्यगूर्ध्वञ्च वाजिभिः ॥००६॥

व्यन्तरा मिश्रचिह्नाश् च भूवर्षाग्नेयवायवः ।
चतुर्विधास्ते षड्विंशभेदाः षोडश गोनसाः ॥००७॥

त्रयोदश च राजीला व्यन्तरा एकविंशतिः ।
ये ऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ॥००८॥

आषाढादित्रिमासैः स्याद्गर्भो माषचतुष्टये ।
अण्ड्कानां शते द्वे च चत्वारिंशत् प्रसूयते ॥००९॥

सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।
उन्मीलते ऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ॥०१०॥

द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्यदर्शनात् ।
द्वात्रिंशद्दिनविंशत्या चतस्रस्तेषु दंष्त्रिकाः ॥०११॥

कराली मकरी कालरात्री च यमदूतिका ।
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ॥०१२॥

षन्मासान्मुच्यते कृत्तिं जोवेत्सष्टिसमाद्वयं ।
नागाः सूर्यादिवारेशाः सप्त उक्ता दिवा निशि ॥०१३॥

स्वेषां षट् प्रतिवारेषु कुलिकः सर्वसन्धिषु ।
शङ्खेन वा महाब्जेन सह तस्योदयो ऽथवा ॥०१४॥

द्वयीर्वा नाडिकामन्त्रमन्त्रकं1 कुलिकोदयः ।
दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः2 ॥०१५॥
विश्वास-प्रस्तुतिः
कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्वनी ।
विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी ॥०१६॥

[[९०]]
विश्वास-प्रस्तुतिः
षष्ठी रैक्ता शिवा निन्द्या पञ्चमी च चतुर्दशी ॥०१७॥

सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश् च राशयः ।
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ॥०१८॥

अदंशमवगुप्तं1 स्याद्दंशमेवं चतुर्विधम् ।
त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा ॥०१९॥

नक्तन्त्वेकाङ्घ्रिकूर्माभा दंशाश् च यमचोदिताः ।
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः2 ॥०२०॥

सतोदो रन्थितो दंशः सविषो न्यस्तनिर्विषः ।
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ॥०२१॥

रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।
द्वीपे चतुष्पथे सौधे गृहे ऽब्जे पर्वताग्रतः ॥०२२॥

विलहद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरेणेषु च ॥०२३॥

वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि ।
तालौ शङ्खे गले मूर्ध्नि चिवुके नाभिपादयोः ॥०२४॥

दंशो ऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः ।
लिङ्गवर्णसमानश् च शुक्लवस्त्रो ऽमलः शुचिः ॥०२५॥

अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः ।
विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् ॥०२६॥

शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।
आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः ॥०२७॥

[[९१]]
विश्वास-प्रस्तुतिः
केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ॥०२८॥

इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः ।
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ॥०२९॥

दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् ।
दूताङ्घ्रिचलनं दुष्ठमुत्थितिर्निश् चला शुभा ॥०३०॥

जीवपार्श्वे शुभो दूतो दुष्टो ऽन्यत्र सम्मागतः ।
जीवो गतागतैर् दुष्टः शुभो दूतनिवेदने ॥०३१॥

दूतस्य वाक् प्रदुष्टा सा पूर्वामजार्धनिन्दिता ।
विभक्तैस्तस्य वाक्यान्तैर्विषर्निर्विषकालता(?) ॥०३२॥

आद्यैः स्वरैश् च काद्यश् च वर्गैर् भिन्नलिपिर्द्विधा ।
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ॥०३३॥

वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ॥०३४॥

दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ॥०३५॥

प्रस्थाने मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः ।
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ॥०३६॥

शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ॥०३७॥

वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुरजध्वजौ ।
क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः ॥०३८॥

तण्डुला हेम रुप्यञ्च सिद्धये ऽभिमुखा अमी ।
सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत् ॥०३९॥

[[९२]]
विश्वास-प्रस्तुतिः
गलस्थटङ्गो गोमायुगृध्रोलूककपर्दिकाः ।
तैलं कपालकार्पासा निषेधे भस्म नष्टये ॥०४०॥

विषरोगाश् च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।
विषदंशो ललाटं यात्यतोनेत्रं ततौ सुखम् ।०४१।
आस्याच्च वचनीनाड्यौ धातून प्राप्नोति हि क्रमात् ॥०४१॥

{इत्य् आग्नेये महापुराणे नागलक्षणदिर्नाम त्रिनवत्यधिकद्विशततमो ऽध्यायः }