२९२ मन्त्रपरिभाषा

{अथ द्विनवत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

मन्त्रपरिभाषा

अग्निर् उवाच
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥००१॥

मूलम्

दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसञ्ज्ञिताः ।
वर्धक्ये सिद्धिदा ह्य् एते मालामन्त्रास्तु यौवेन ॥००२॥

पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।
स्त्रीपुन्नपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥००३॥

स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश् च नपुंसकाः ।
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च1 ॥००४॥

क्षुद्रक्रियामयध्वंसे स्त्रियो ऽन्यत्र2 नपुंसकाः ।
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥००५॥

तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥००६॥

:न्

[[८४]]

विश्वास-प्रस्तुतिः

आग्नेयमन्त्रः सौम्यः स्यात्प्रायशो ऽन्ते नमो ऽन्वितः ।
सौम्यमन्त्रस् तथाग्नेयः फट्कारेणान्ततो युतः ॥००७॥

सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।
श्वापकालो महावाहो जागरो दक्षिणावहः ॥००८॥

आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् ।
प्रबोधकालं जानीयादुभयोरुभयोरहः ॥००९॥

दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् ।
राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥०१०॥

गोपालककुटीं प्रायात् पूर्णामित्युदिता लिपिः ।
नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ ॥०११॥

वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः ।
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश् च योजयेत् ॥०१२॥

लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥०१३॥

सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैर् अपि1
सिद्धे सिद्धो जपात् साध्यो जपपूजाहुतादिना2 ॥०१४॥

सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ।
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः ॥०१५॥

प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।
श्रुत्वा तन्त्रं गुरोर् लब्धं साधयेदीप्सितं मनुम् ॥०१६॥

धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।

:न्

[[८५]]

विश्वास-प्रस्तुतिः

सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥०१७॥

निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् ॥०१८॥

कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः ।
स तूपदेश्यः पुत्रश् च विनयी वसुदस् तथा ॥०१९॥

मन्त्रन्दद्यात् सुसिद्धौ तु सहस्रं देशिकं जपेत् ।
यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ॥०२०॥

पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् ।
मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः ॥०२१॥

क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ।
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ॥०२२॥

बहुमन्त्रवतः पुंसः का कथा शिव एव सः ।
दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति ॥०२३॥

वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् ।
वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ॥०२४॥

सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।
जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः ॥०२५॥

द्रव्यानुक्तौ घृतं होमे जपो ऽशक्तस्य सर्वतः ।
मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् ॥०२६॥

जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ।
साधकस्य भवेत् तृप्ता ध्यानहोमार्चनादिना ॥०२७॥

उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ॥०२८॥

[[८६]]

विश्वास-प्रस्तुतिः

प्राङ्मुखो ऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् ।
प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः ॥०२९॥

आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् ।
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥०३०॥

सिद्धौ यवागूपूपैर् वा पयो भक्ष्यं हविष्यकम् ।
मन्त्रस्य देवता तावत्1 तिथिवारेषु वै जपेत् ॥०३१॥

कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ।
दस्रो यमो ऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥०३२॥

सर्पाः पितरो ऽथ भगो ऽर्यमा शोतेतरद्युतिः ।
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निरृतिर्जलम् ॥०३३॥

विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।
अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः ॥०३४॥

अग्निदस्रावुमा निघ्नो नागश् चन्द्रो दिवाकरः ।
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥०३५॥

पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ॥०३६॥

एते सुर्यादिवारेशा लिपिन्यासो ऽथ कथ्यते ।
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥०३७॥

नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ।
वर्णान् पञ्चसुवर्गानां2 बाहुचरणसन्धिषु ॥०३८॥

पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ।

:न्

[[८७]]

विश्वास-प्रस्तुतिः

यादींश् च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥०३९॥

त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥०४०॥

श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अग्नीशो भावभूतिश् च तिथीशः स्थानुको हरः ॥०४१॥

दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश् च महासेनः शरण्या देवता अमूः ॥०४२॥

ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ ।
तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः ॥०४३॥

अजेशः शर्मसोनेशौ तथा लाङ्गलिदारुकौ ।
अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥०४४॥

अत्रिर्मोनश् च मेषश् च लोहितश् च शिखी तथा ।
छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ ॥०४५॥

भुजङ्गश् च पिनाकी च खड्गीशश् च वकः पुनः ।
श्वेतो भृगुर्लगुडीशाक्षश् च सम्बर्तकः स्मृतः ॥०४६॥

रुद्रात्मशक्तान् लिख्यादीन् नमोन्तान् विन्यसेत् क्रमात् ।
अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥०४७॥

हृल्लेखाव्योमसपूर्वाण्येतान्यङ्गानि विन्यसेत् ।
हृदादीन्यङ्गमन्त्रान्तैर् यो जपेद्धृदये नमः ॥०४८॥

स्वाहा शिरस्यथ वषट्शिखायां कवचे च् हूं ।
वौषत् नेत्रे ऽस्त्राय फटस्यात् पञ्चाङ्गं नेत्रवर्जितम् ॥०४९॥

निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥०५०॥

[[८८]]

विश्वास-प्रस्तुतिः

लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।
कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ।०५१।
निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्ति मातृभिः ॥०५१॥

{इत्य् आग्नेये महापुराणे मन्त्रपरिभाषा नाम द्विनवत्यधिकद्विशततमो ऽध्यायः }

  1. बन्धोच्चाटवशेषु चेति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. स्त्रियो नात्रेति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎