{अथैकनवत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शान्त्यायुर्वेदः
धन्वन्तरिर् उवाच
गोविप्रपालनं कर्यं रज्ञा गोशान्तिमावदे ।
गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥००१॥
मूलम्

शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परं ।
गवां कण्डूयनं वारि शृङ्गस्याघौघमर्दनम् ॥००२॥

गोमूत्रं गोमयं क्षीरं दधि सर्पश् च रोचना ।
शडङ्गं परमं पाने दुःस्वप्नाद्यादिवारणं ॥००३॥

रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां ।
यद्गृहे दुःखिता गावः स याति नरकन्नरः ॥००४॥

परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् ।
गोदानात्कीर्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ॥००५॥

गवां श्वासात् पवित्रा भूः स्पर्शनात्किल्विषक्षयः ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥००६॥

एकरात्रोपवासश् च श्वपाकमपि शोधयेत् ।
सर्वाशुभविनाशाय पुराचीरतमीश्वरैः ॥००७॥
मूलम्
एकरात्रोपवासश् च श्वपाकमपि शोधयेत् ।
सर्वाशुभविनाशाय पुराचीरतमीश्वरैः ॥००७॥
विश्वास-प्रस्तुतिः
प्रत्येकञ्च त्र्यहाभ्यन्तं महासान्तपनं स्मृतं ।
सर्वकामप्रदञ्चैतत् सर्वाशुभविमर्दनम् ॥००८॥

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।
निर्मलाः सर्वकामाप्त्या स्युर्गगाः स्पुर् नतोत्तमाः ॥००९॥

[[८०]]
विश्वास-प्रस्तुतिः
त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् ।
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥०१०॥

तप्तकृच्छ्रव्रतं सर्वपापघ्नं ब्रह्मलोकदं ।
शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं ॥०११॥

गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्याच्च गोरसैः ।
गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती ॥०१२॥

मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् ।
विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत् ॥०१३॥

गितैर् नृत्यैर् अप्सरोभिर्विमाने तत्र मोदते ।
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥०१४॥

गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं ।
अन्नमेव परं गावो देवानां हविरुत्तमम् ॥०१५॥

पावनं सर्वभूतानां क्षरन्ति च वदन्ति च ।
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥०१६॥

ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः ।
सर्वेषामेव भूतानां गावः शरणमुत्तमं ॥०१७॥

गावः पवित्रं परमं गावो माङ्गल्यमुत्तमं ।
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ॥०१८॥

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः ॥०१९॥

ब्राह्मणाश् चैव गावश् च कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥०२०॥

[[८१]]
विश्वास-प्रस्तुतिः
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।
धार्यते वै सदा तस्मात् सर्वे पूज्यतमा मताः ॥०२१॥

पिवन्ति यत्र तत्तीर्थं गङ्गाद्या गाव एव हि ।
गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा शृणु ॥०२२॥

शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं ।
शृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं ॥०२३॥

कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।
सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः ॥०२४॥

बिल्वमूलमपामार्गन्धातकी चसपाटला ।
कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं ॥०२५॥

दन्तशूलहरैर् द्रव्यैर् घृतं राम विपाचितं ।
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं ॥०२६॥

शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ।
हृच्छूले वस्तिशूले च वातरोगे क्षये तथा ॥०२७॥

त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते ।
अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् ॥०२८॥

सर्वेषु कोष्ठरोगेषु तथाशाखागदेषु च ।
शृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत् ॥०२९॥

दातव्या भग्नसन्धाने प्रियङ्गुर्लबणान्विता ।
तैलं वातहरं पित्ते मधुयष्टीविपाचितं ॥०३०॥

कफे व्योषञ्च समधु सपुष्टकरजो ऽस्रजे ।
तैलाज्यं हरितालञ्च भग्नक्षतिशृतन्ददेत् ॥०३१॥

[[८२]]
विश्वास-प्रस्तुतिः
एषां पिण्डी सलवणा वत्सानां पुष्टिदात्वियं ॥०३२॥

बलप्रदा विषाणां स्यद्ग्रहनाशाय धूपकः ।
देवदारु वचा मांसी गुग्गुलुर्हिङ्गुसर्षपाः ॥०३३॥

ग्रहादिगदनाशाय एष धूपो गवां हितः ।
घण्ठा चैव गवां कार्या धूपेनानेन भूपिता ॥०३४॥

अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् ।
रसायनञ्च पिन्याकं मत्तो यो धार्यते गृहे ॥०३५॥

भवां पुरीषे पञ्चभ्यां नित्यं शान्त्यै श्रियं यजेत् ।
वासुदेवञ्च गन्धाद्यैर् अपरा शान्तिरुच्यते ॥०३६॥

अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं ।
हरिरुद्रमजं सूर्यं श्रियमग्निं घृतेन च ॥०३७॥

दधि सम्प्राश्य गाः पूज्य कार्यं वाह्निप्रदक्षिणं ।
वृषाणां योजेयेद् युद्धं गीतवाद्यरवैर् वहिः ॥०३८॥

गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा ।
नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया ॥०३९॥

स्थण्डिलेब्जे मध्यगते दिक्षु केशरगान् सुरान् ।
सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः ॥०४०॥

खं विश्वरूपा सिद्धिश् च ऋद्धिः शान्तिश् च रोहिणी ।
दिग्धेनवो हि पूर्वाद्याः कृशरैश् चन्द्र ईश्वरः ॥०४१॥

दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् ।
क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् ॥०४२॥

शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् ।
गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः ॥०४३॥

[[८३]]
विश्वास-प्रस्तुतिः
अग्निर् उवाच
शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् ।
पालकाप्यो ऽङ्गराजाय गजायुर्वेदमब्रवीत् ॥०४४॥

{इत्य् आग्नेये महापुराणे शान्त्यायुर्वेदो नामैकनवत्यधिकद्विशततमो ऽध्यायः }