२९० गजशान्तिः

{अथ नवत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गजशान्तिः

शालिहोत्र उवाच
गजशान्तिं प्रवक्ष्यामि गजरोगविमर्दनीम् ।
विष्णुं श्रियञ्च पञ्चम्यां नागम् ऐरावतं यजेत् ॥००१॥

मूलम्

ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्नवणं
यमं ।
चन्द्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं ॥००२॥

शेषं शैलान् कुञ्जरांश् च ये ते ऽष्टौ देवयोनयः ।
विरुपाक्षं महापद्मं भद्रं सुमनसन्तथा ॥००३॥

कुमुदैरावणः पद्मः पुष्पदन्तो ऽथ वामनः ।
सुप्रतीकोञ्जनो नागा अष्टौ होमो ऽथ दक्षिणां ॥००४॥

[[७७]]

विश्वास-प्रस्तुतिः

गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं सृणु ।
गजानाम्मकरादौ च ऐशान्यां नगराद्वहिः ॥००५॥

स्थण्डिले कमले मध्ये विष्णुं लक्ष्मीञ्च केशरे ।
ब्रह्माणं भास्करं पृथ्वीं यजेत् स्कन्दं ह्य् अनन्तकं ॥००६॥

खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् ।
वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां ॥००७॥

शूलं पद्मम्बहिर्वृन्ते चक्रे सूर्यन्तथाश्विनौ ।
वसूनष्ठौ तथा साध्यान् याम्ये ऽथ नैरृते दले ॥००८॥

देवानाङ्गिरसश्चाश्विभृगवो मरुतो ऽनिले1
विश्वेदेवांस् तथा दक्षे रुद्रा शैद्रे ऽथ मण्डले ॥००९॥

ततो वृत्तया रेखया तु देवान् वै वाह्यतो यजेत् ।
सूत्रकारानृषीन् वाणीं पूर्वादौ सरितो गिरीन् ॥०१०॥

महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् ।
पद्मं चक्रं गदां शङ्खं चतुरश्रन्तु मण्डलं ॥०११॥

चतुर्धारं ततः कुम्भाः2 अग्न्यादौ च पताकिकाः3
चत्वारस्तोरणा द्वारि नागान् ऐरवतादिकान् ॥०१२॥

पूर्वादौ चौषधीभिश् च देवानां भाजनं पृथक् ।
पृथक्शताहुतीश्चाज्यैर् गजानर्च्य प्रदक्षिणं ॥०१३॥

नागं वह्निं देवतादीन् वाह्यैर् जग्मुः स्वकं गृहम् ।
द्विजेभ्यो दिक्षिणां दद्यात् हयवैद्यादिकस् तथा ॥०१४॥

करिणीन्तु समारुह्य वदेत् कर्णन्तु कालवित् ।

:न्

[[७८]]

विश्वास-प्रस्तुतिः

नागराजे ऽमृते शान्तिं कृत्वामुस्मिन्1 जपेन्मनुम् ॥०१५॥

श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः ।
प्रभूर्माल्याग्रभक्तैस्त्वां पूजयिष्पति पार्थिवः ॥०१६॥

लोकस्तदाज्ञया पूजां करिष्यति तदा तव ।
पालनीयस्त्वया राजा युद्धे ऽध्वनि तथा गृहे ॥०१७॥

तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ।
देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥०१८॥

ऐरावणसुतः श्रीमानरिष्टो नाम वारणः ।
श्रीगजानान्तु तत् तेजः सर्वमेवोपतिष्ठते ॥०१९॥

तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं ।
उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे ॥०२०॥

इत्येवमभिषिक्तैनमारोहेत शुभे नृपः ।
तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः ॥०२१॥

शालास्वसौ स्थण्डिले ऽब्जे दिकपालादीन् यजेद्वहिः ।
केशरेषु बलं नागं भुवञ्चैच सरस्वतीं ॥०२२॥

मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः ।
हुत्वा देयस्तु कलसो रसपूर्णो द्विजाय च ॥०२३॥

गजाध्यक्षं हस्तिपञ्च गणितज्ञञ्च पूजयेत् ।
गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् ।०२४।
शुभगम्भीरशब्दैः स्याज्जघनस्थो ऽभिवादयेत् ॥०२४॥

{इत्य् आग्नेये महापुराणे गजशान्तिर्नाम नवत्यधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[७९]]

  1. मरुतो ऽनल इति ज ↩︎ ↩︎ ↩︎ ↩︎

  2. चतुःकुम्भा इति ञ॥ ↩︎ ↩︎

  3. पताकिन इति ज॥ ↩︎ ↩︎