{अथोननवत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अश्वशान्तिः
शालिहोत्र उवाच
अश्वशान्तिं प्रवक्ष्यामि वजिरोगविमर्दनीं ।
नित्यां नैमित्तकीं कम्यां त्रिविधां शृणु सुश्रुत ॥००१॥
मूलम्

शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश् च तं ।
हयराजं समभ्यर्च्य सावित्रैर् जुजुयाद्घृतं ॥००२॥

द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस् तथा भवेत् ।
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ॥००३॥

वहिः कुर्याद्विशेषेण नासत्यौ वरुणं यजेत् ।
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ॥००४॥

घतान्सर्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् ।
यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश् च साश्विनान् ॥००५॥

[[७६]]
विश्वास-प्रस्तुतिः
विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः शृणु ।
मकरादौ हयानाञ्च पद्मैर् विष्णुं श्रियं यजेत् ॥००६॥

ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।
रेवन्तमुच्चैःश्रवसन्दिक्पालांश् च दलेष्वपि ॥००७॥

प्रत्येकं पूर्णकुम्भैश् च वेद्यान्तत्सौम्यतः स्थले ।
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।००८।
उपोषितेन कर्तव्यं कर्म चास्वरुजापहं ॥००८॥

{इत्य् आग्नेये महापुराणे अश्वशान्तिर्नामोननवत्यधिकद्विशततमो ऽध्यायः ॥ }