{अथाष्टाशीत्यधिकद्विशततमो ऽध्यायः}
अश्वचिकित्सा
विश्वास-प्रस्तुतिः
शालिहोत्र उवाच
अश्वानां लक्षणं वक्ष्ये
चिकित्साञ्चैव1सुश्रुत
हीनदन्तो विदन्तश् चकराली कृष्णतालुकः ॥००१॥
मूलम्

कृष्णजिह्वश् च यमजोजातमुष्कश् च यस् तथा ।
द्विशफश् च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः ॥००२॥

खरवर्णो भस्मवर्णो जातवर्णश् च काकुदी ।
श्वित्री च काकसादी च खरसारस्तथैव च ॥००३॥

वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च ।
कृष्णप्रोथश् च शूकश् च यश् च तित्तिरिसन्निभः ॥००४॥

विषमः श्वेतपादश् च ध्रुवावर्तविवर्जितः ।
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥००५॥

रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः ।
प्रयाणे च ललाटे च कण्ठावर्ताः शुभा दश ॥००६॥

मृक्कण्याञ्च ललाटे च कर्णमूले निगालके ।
बाहुमूले गले श्रेष्ठा आवर्तास्त्वशुभाः परे ॥००७॥

शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः ।
सुवर्णवर्णाः स्निग्धाश् च प्रशस्यास्तु सदैव हि ॥००८॥

:न्
[[७१]]
विश्वास-प्रस्तुतिः
राक्षान्तुरङ्गमा यत्र1 विजयं वर्जयेत्ततः ॥००९॥

पालितस्तु हयो दन्ती शुभदो दुःखदो ऽन्यथा ।
श्रियः पुत्रास्तु गन्धर्वा वाजिनो रत्नमुत्तमम् ॥०१०॥

अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते ।
वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ॥०११॥

सिंहा गन्धकारी पिण्डी स्वेदश् च शिरसस् तथा ।
हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ॥०१२॥

पिप्पलीसैन्धवयुतं शूलघ्नं चीष्णवारिणा ।
नागरातिविषा मुस्ता सानन्ता बिल्वमालिका ॥०१३॥

क्वाथमेषां पिवेद्वाजी सर्वातीसारनाशनम् ।
प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं शृतं2 पयः ॥०१४॥

पर्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते ।
द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ॥०१५॥

कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् ।
दाऋइमं त्रिफला व्योषं गुडञ्च समभाविकम् ॥०१६॥

पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् ।
प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः ॥०१७॥

क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते ।
प्रस्कन्धेषु च सर्वेषु श्रेय आदौ विशोधणम् ॥०१८॥

अभ्यङ्गोद्वर्तनैः स्नेहं नस्यवर्तिक्रमः स्मृतः ।
ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः ॥०१९॥

[[७२]]
विश्वास-प्रस्तुतिः
कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः ॥०२०॥

मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् ।
त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् ॥०२१॥

अजापयःशृतमिदं सुशीतं शर्करान्वितं ।
पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते ॥०२२॥

मन्याहनुनिगालस्थशिराशोथो गलग्रहः ।
अभ्यङ्गः कटुतैलेन1 तत्र तेष्वेव शस्यते ॥०२३॥

गलग्रहगदो शोथः प्रायशो गलदेशके ।
प्रत्यक्पुष्पी तथा बह्निः सैन्धवं सौरसो रसः ॥०२४॥

कृष्णाहिङ्गुयुतैर् एभिः कृत्वा नस्यं न सीदति ।
निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु ॥०२५॥

जिह्वास्तम्भे च लेपो ऽयं गुडमूत्रयुतो हितः ।
तिलैर् यष्ट्या रजन्या च निम्बपत्रैश् च योजिता ॥०२६॥

क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी ।
अभिघातेन खञ्जन्ति ये ह्य् अश्चास्तीव्रवेदनाः ॥०२७॥

परिषेकक्रिया तेषां तैलेनाशु रुजापहा ।
दोषकोपाभिघाताभ्यां पक्वभिन्ने व्रणक्रमः ॥०२८॥

अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥२९॥
मूलम्
अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥२९॥
विश्वास-प्रस्तुतिः
प्रभूतसलिलः क्वाथः सुखोष्णः व्रणशोधनः ।
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥०३०॥

देवदारुवचायुग्मरजनीरक्तचन्दनैः ।
तैलसिद्धं कषायेण गुडूच्याः पयसा सह ॥०३१॥

[[७३]]
विश्वास-प्रस्तुतिः
म्रक्षेण वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने ।
रक्तस्रावो जलौकाभिर् नेत्रान्ते नेत्ररोगितः ॥०३२॥

खादितोडुम्बराश्वत्थकषायेण च साधनम् ।
धात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः समैः ॥०३३॥

गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने ।
उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ॥०३४॥

क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते1 ।
गोशकृन्मञ्जिकाकुष्ठरजनीतिलमर्षपैः ॥०३५॥

गवां मूत्रेण पिष्टैश् च मर्दनं कण्डुनाशनम् ।
शीतो मधुयुतः क्वाथो नाशिकायां सशर्करः ॥०३६॥

रक्तपित्तहरः पानादश्वकर्णैस्तथैव च ।
सप्तमे सप्तमे देयमश्वानां लवणं दिने ॥०३७॥

तथा भुक्तवतान्देया अतिपाने तु वारुणी ।
जीवनीयैः समधुरैर् मृद्वीकाशर्करायुतैः ॥०३८॥

सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः ।
विडङ्गापिप्पलीधान्यशताह्वालोध्रसैन्धवैः ॥०३९॥

मचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।
लोध्रप्रियङ्गुकामुस्तापिप्पलीविश्वभेषजैः ॥०४०॥

सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ।
प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ॥०४१॥

वेधनमिस्यत इति ज॥ , ञ॥ च
[[७४]]
विश्वास-प्रस्तुतिः
लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ॥०४२॥

भवेत्तैलयुतैर् एभिः प्रतिपानं घनागमे ।
निदाघोद्वृतपित्तार्ताः शरत्सु पुष्टशोणिताः ॥०४३॥

प्रावृड्भिन्नपुरीषाश् च पिवेयुर्वाजिनो घृतम् ।
पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ॥०४४॥

स्नेहव्यापद्भवो येषां कार्यं तेषां विरूक्षणम् ।
त्र्यहं यवागूरूक्षा स्याद् भोजनं तक्रसंयुतम् ॥०४५॥

शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ।
वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ॥०४६॥

गुर्वभिष्यन्दिभक्तानि व्यायामं स्नाजमातपम् ।
वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ॥०४७॥

स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे ।
अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते ॥०४८॥

युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् ।
ग्रीष्मे त्रिस्नानपानं स्यच्चिरं तस्यायगाहनम् ॥०४९॥

निस्तूषाणां प्रदातव्या यवानां चतुराटकी ।
चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ॥०५०॥

अहोरात्रेण चार्धस्य यवसस्य तुला दश ।
अष्टौ शुष्कस्य दातव्याश् चतस्रो ऽथ वुषस्य वा ॥०५१॥

दूर्वा पित्तं यवः कासं वुषश् च श्लोष्मसञ्चयम् ।
नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ॥०५२॥

वातिकाः पैत्तिकाश् चैव श्लेष्मजाः सान्निपातिकाः ।
न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ॥०५३॥

[[७५]]
विश्वास-प्रस्तुतिः
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ।
पश्चाद्धनुश् च कर्तर्व्यो दूरकीलव्यपाश्रयः ॥०५४॥

वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः ।
यत्रोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः ।०५५।
कृकवाक्वजकपयो धार्यश्चाश्वगृहे मृगाः ॥०५५॥

{इत्य् आग्नेये महापुराणे अश्वायुर्वेदो नामाष्टाशीत्यधिकद्विशततमो ऽध्यायः }