{अथ सप्ताशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अश्ववाहनसारः
धन्वन्तरिर् उवाच
अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् ।
वाजिनां सङ्ग्रहः कार्यो धर्मकमार्थसिद्धये ॥००१॥
मूलम्

अश्विनी श्रणं हस्तं उत्तरात्रितयन्तथा ।
नक्षत्राणि प्रशस्तानि हयानामादिवाहने ॥००२॥

हेमन्तः शिशिरश् चैव वसन्तश्चाश्ववाहने ।
ग्रीष्मेशरदि वर्षासु निषिद्धं वाहनं हये ॥००३॥

तीव्रैर् न च परैर् दण्डैर् अदेशे न च ताडयेत् ।
कीलास्थिसङ्कुले चैव विषमे कण्टकान्विते ॥००४॥

[[६४]]
विश्वास-प्रस्तुतिः
वालुकापङ्गसञ्च्छन्ने गर्तागर्तप्रदूषिते ।
अचित्तज्ञो विनोपायैर् वाहनं कुरुतेतु हः ॥००५॥

स वाह्यते हयेनैव पृष्ठस्थः कटिकां
विना1
छन्दं विज्ञापयेत् कोपि सकृती धीमतां वरः ॥००६॥

अभ्यासादभियोगाच्च विनाशास्त्रं स्ववाहकः ।
स्नातस्य प्रङ्मुखस्याथ देवान् वपुषि योजयेत् ॥००७॥

प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् ।
ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे ॥००८॥

पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाथ मर्मसु ।
दृगावर्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा ॥००९॥

जठरे ऽग्निः स्वधा स्वेदे वग्जिह्वायां जवे ऽनिलः ।
पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वताः ॥०१०॥

ताराश् च रोमकूपेषु हृदि चान्द्रमसी कला ।
तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः ॥०११॥

ग्रहाश् च हेषिते चैव तथैवोरसि वासुकिः ।
उपोषितो ऽर्चयेत् सादी हयं दक्षश्रुतौ जपेत् ॥०१२॥

हय गन्धर्वराजस्त्वं शृणुष्व वचनं गम ।
गन्धर्वकुलजातस्त्वं माभूस्त्वं कुलदूषकः ॥०१३॥

द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च ।
रुद्रस्य वरुणस्यैव पवनस्य बलेन च ॥०१४॥

हुताशनस्य दीप्त्या च स्मर जातिं तुरङ्गम ।
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ॥०१५॥

:न्
[[६५]]
विश्वास-प्रस्तुतिः
स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं ।
क्षिरोदसागरे चैव मथ्यमाने सुरासुरैः ॥०१६॥

तत्र देवकुले जातः स्ववाक्यं परिपालय ।
कुले जातस्त्वमश्वानां मित्रं मे भव शास्वतम् ॥०१७॥

शृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन ।
विजयं रक्ष माञ्चैव समरे सिद्धिमावह ॥०१८॥

तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।
अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं ॥०१९॥

कर्णजापन्ततः कृत्वा विमुह्य च तथा प्यरीन्1 ।
पर्यानयेद्धयं सादी वहयेद्युद्धतो जयः ॥०२०॥

सञ्जाताः स्वशरीरेण2 दोषाः प्रायेण वाजिनां ।
हन्यन्ते ऽतिप्रयत्नेन गुणाः सादिवरैः पुनः ॥०२१॥

सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः ।
नाशयन्ति गुणानन्ये सादिनः सहजानपि ॥०२२॥
मूलम्
सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः ।
नाशयन्ति गुणानन्ये सादिनः सहजानपि ॥०२२॥
विश्वास-प्रस्तुतिः
गुणानेको विजानाति वेत्ति दोषांस् तथापरः ।
धन्यो धीमान् हयं वेत्ति मन्दधीः ॥०२३॥

अकर्मज्ञो ऽनुपायज्ञो वेगासक्तो ऽतिकोपनः ।
घनदण्डरतिच्छिद्रे यः ममोपि न शस्यते ॥०२४॥

उपायज्ञो ऽथ चित्तज्ञो विशुद्धो दोषनाशनः ।
गुणार्जनपरो नित्यं सर्वकर्मविशारदः ॥०२५॥

प्रग्रहेण गृहीत्वाथ प्रविष्टो वाहभूतलम् ।
सव्यापसव्यभेदेन वाहनीयः स्वसादिना ॥०२६॥

[[६६]]
विश्वास-प्रस्तुतिः
आरुह्य सहसा नैव ताड्नीयो हयोत्तमः ।
ताडनादुभयमाप्नोति भयान्मोहश् च जायते ॥०२७॥

प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् ।
मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ॥०२८॥

प्रोक्तमाश्वसनं सामभेदो ऽश्वेन नियोज्यते ।
कषादिताड्नं दण्डो दानं कालसहिष्णुता ॥०२९॥

पर्वपूर्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् ।
जिह्वातले विनायोगं विदध्याद्वाहने हये ॥०३०॥

गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् ।
विस्मार्य वाहनं कुर्याच्छिथिलानां शनैः शनैः ॥०३१॥

हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् ।
गाटतां मोचयेत्तावद्यावत् स्तोभं न सुञ्चति ॥०३२॥

कुर्याच्छतमुरस्त्राणमविलालञ्च मुञ्चति ।
ऊर्धाननः स्वभाद्यस्तस्योरस्त्राणमश्लथम् ॥०३३॥

विधाय वाहयेद्दृष्ट्या लीलया सादिसत्तमः ।
तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ॥०३४॥

यः कुर्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः ।
क्रमेणानेन यो सेवां कुरुते वामवल्गया ॥०३५॥

पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि ।
अग्रे चेच्चरणे त्यक्ते जायते सुदृढासनं ॥०३६॥

यौ हृतौ दुष्करे चैव मोटके नाटकायनं ।
सव्यहीनं खलीकारो हनेन गुणने तथ ॥०३७॥
मूलम्
यौ हृतौ दुष्करे चैव मोटके नाटकायनं ।
सव्यहीनं खलीकारो हनेन गुणने तथ ॥०३७॥
[[६७]]
विश्वास-प्रस्तुतिः
न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ॥०३८॥

विश्वस्तं हयमालोक्य गाढमापीड्य चासनं ।
रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ॥०३९॥

गाढमापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते ।
तद्वन्धनाद् युग्मपादं1 तद्वद्वक्वनमुच्यते ॥०४०॥

संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् ।
वाह्यपार्ष्णिप्रयोगात्तु2 यत्र तत्ताडनं मतम् ॥०४१॥

प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् ।
मोटनेन चतुर्थेन विधिरेष बिधीयते ॥०४२॥

नाधत्ते ऽधश् च पादं यो ऽश्वो लघुनि मण्डले ।
मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं ॥०४३॥

वटयित्वासने3 गाटं मन्दमादाय यो ब्रजेत् ।
ग्राह्यते सङ्ग्रहाद्यत्र तत्सङ्ग्रहणमुच्यते ॥०४४॥

हत्वा पर्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् ।
वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम्4 ॥०४५॥

उत्थितो यो ऽङ्घ्रणानेन पार्ष्ण्निपादात्तुरङ्गमः ।
गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते ॥०४६॥

गतित्रये पियः पादमादत्ते नैव वाञ्छितः ।
हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् ॥०४७॥

खलीकृत्य चतुष्केण तुरङ्गो वल्गयान्यया ।
उच्छास्य ग्राह्यते ऽन्यत्र तत्स्यादुच्छासनं पुनः ॥०४८॥

[[६८]]
विश्वास-प्रस्तुतिः
स्वभावं बहिरस्यन्तं तस्यां दिशि पदायनं ।
नियोज्य ग्राहयेत्तत्तु मुखव्यापर्तनं मतम् ॥०४९॥

ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् ।
साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु ॥०५०॥

आजनोर्धाननं वाहं शिथिलं वाहयेत् सुधीः ।
अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं ॥०५१॥

मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु ।
यदा ससादिनो वश्यः सङ्गृह्णीयात्तदा हयं ॥०५२॥

न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा ।
तदाकृष्टिर्विधातव्या पाणिभ्यामिह बल्गया ॥०५३॥

तत्रत्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः ।
धरायां पश्चिमौ पादौ अन्तरीक्षे यदाश्रयौ ॥०५४॥

तदा सन्धरणं कुर्याद्गाठवाहञ्च मुष्टिना ।
सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति ॥०५५॥

शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः ।
क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया ॥०५६॥

गोमयं लवणं मूत्रं क्वथितं मृत्समन्वितम् ।
अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः ॥०५७॥

मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना ।
दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः ॥०५८॥

यथा वश्यस् तथा शिक्षा विनश्यन्त्यतिवाहिताः ।
अवाहिता न मिध्यन्ति तुङ्गवक्त्रांश् च वाहयेत् ॥०५९॥

[[६९]]
विश्वास-प्रस्तुतिः
गोमूत्राकुटिला वेणी पद्ममण्डलमालिका ॥०६०॥

पञ्चोलूखलिका कार्या गर्वितास्ते ऽतिकीर्तिताः1 ।
सङ्क्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम्2 ॥०६१॥

वल्गितावल्गितौ चैव षोटा चेत्थमुदाहृतम् ।
वीथीधनुःशतं यावदशीतिर् नवतिस् तथा ॥०६२॥

भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः ।
मृगजङ्घो3 मृगो वाजी सङ्कीर्णस्तत्समन्वियात् ॥०६३॥

शर्करामधुलाजादः सुगन्धो ऽश्वः शुचिर्द्विजः ।
तेजस्वी क्षत्रियश्चाश्बो विनीतो बुद्धिमांश् च यः ॥०६४॥

शूद्रो ऽशुचिश् चलो मन्दो विरूपो विमतिः खलः ।
वल्गया धार्यमाणो ऽश्वो लालकं यश् च दर्शयेत् ॥०६५॥

धारासु योजनीयो ऽसौ प्रग्रहग्रहमोक्षणैः ।
अश्वादिलक्षणम् वक्ष्ये शालिहोत्रो यथावदत् ॥०६६॥

{इत्य् आग्नेये महापुराणे अश्ववाहनसारो नाम सप्ताशीत्यधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[७०]]