{अथ षडशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गजचिकित्सा
पालकाप्य उवाच1
गजलक्ष्म चिकित्साञ्च लोमपाद यदामि ते ।
दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः ॥००१॥
मूलम्
गजचिकित्सा
पालकाप्य उवाच1
गजलक्ष्म चिकित्साञ्च लोमपाद यदामि ते ।
दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः ॥००१॥
विश्वास-प्रस्तुतिः
विंशत्यष्टादशनखाः शीतकालमदाश् च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥००२॥
मूलम्
विंशत्यष्टादशनखाः शीतकालमदाश् च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥००२॥
विश्वास-प्रस्तुतिः
कर्णौर् च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्या न तथा धार्या वामना ये च सङ्कुशाः2 ॥००३॥
मूलम्
कर्णौर् च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्या न तथा धार्या वामना ये च सङ्कुशाः2 ॥००३॥
विश्वास-प्रस्तुतिः
हस्तिन्यः पार्श्वगर्भिण्यो च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥००४॥
मूलम्
हस्तिन्यः पार्श्वगर्भिण्यो च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥००४॥
विश्वास-प्रस्तुतिः
सप्तस्थितो गजश्चेदृक् सङ्ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥००५॥
मूलम्
सप्तस्थितो गजश्चेदृक् सङ्ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥००५॥
विश्वास-प्रस्तुतिः
आयत्तं कुञ्जरैश् चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्तव्यमनुवासनं ॥००६॥
मूलम्
आयत्तं कुञ्जरैश् चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्तव्यमनुवासनं ॥००६॥
विश्वास-प्रस्तुतिः
घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कर्या तथा पालकवन्नृपाः ॥००७॥
मूलम्
घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कर्या तथा पालकवन्नृपाः ॥००७॥
विश्वास-प्रस्तुतिः
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥००८॥
मूलम्
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥००८॥
:न्
[[६१]]
विश्वास-प्रस्तुतिः
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥००९॥
मूलम्
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥००९॥
विश्वास-प्रस्तुतिः
मूर्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अग्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ॥०१०॥
मूलम्
मूर्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अग्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ॥०१०॥
विश्वास-प्रस्तुतिः
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ॥०११॥
मूलम्
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ॥०११॥
विश्वास-प्रस्तुतिः
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते ॥०१२॥
मूलम्
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते ॥०१२॥
विश्वास-प्रस्तुतिः
बालबिल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥०१३॥
मूलम्
बालबिल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥०१३॥
विश्वास-प्रस्तुतिः
नस्यं करग्रहे देयं घृतं लयणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥०१४॥
मूलम्
नस्यं करग्रहे देयं घृतं लयणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥०१४॥
विश्वास-प्रस्तुतिः
उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥०१५॥
मूलम्
उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥०१५॥
विश्वास-प्रस्तुतिः
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम् ॥०१६॥
मूलम्
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम् ॥०१६॥
विश्वास-प्रस्तुतिः
मूत्रभङ्गे ऽथ वा वीजं क्वथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः ॥०१७॥
मूलम्
मूत्रभङ्गे ऽथ वा वीजं क्वथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः ॥०१७॥
विश्वास-प्रस्तुतिः
गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते ।
शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥०१८॥
मूलम्
गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते ।
शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥०१८॥
विश्वास-प्रस्तुतिः
क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥०१९॥
मूलम्
क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥०१९॥
विश्वास-प्रस्तुतिः
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली ।
एतैर् गुल्महरः स्नेहः कृतश् चैव तथापरः ॥०२०॥
मूलम्
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली ।
एतैर् गुल्महरः स्नेहः कृतश् चैव तथापरः ॥०२०॥
[[६२]]
विश्वास-प्रस्तुतिः
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नन् विद्रवान् समुपाहरेत् ॥०२१॥
मूलम्
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नन् विद्रवान् समुपाहरेत् ॥०२१॥
विश्वास-प्रस्तुतिः
यष्टिकं मुद्गसूपेन1 शारदेन तथा पिवेत् ।
बालबिल्वैस् तथा लेपः फटुरोगेषु शस्यते ॥०२२॥
मूलम्
यष्टिकं मुद्गसूपेन1 शारदेन तथा पिवेत् ।
बालबिल्वैस् तथा लेपः फटुरोगेषु शस्यते ॥०२२॥
विश्वास-प्रस्तुतिः
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपशान्तये ॥०२३॥
मूलम्
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपशान्तये ॥०२३॥
विश्वास-प्रस्तुतिः
प्रधानभोजने तेषां यष्टिकव्रीहिशालयः ।
मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥०२४॥
मूलम्
प्रधानभोजने तेषां यष्टिकव्रीहिशालयः ।
मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥०२४॥
विश्वास-प्रस्तुतिः
यवश् चैव तथैवेक्षुर्नागानां बलवर्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥०२५॥
मूलम्
यवश् चैव तथैवेक्षुर्नागानां बलवर्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥०२५॥
विश्वास-प्रस्तुतिः
मदक्षिणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस् तथा द्रव्यैः शृतो मांसरसः शुभः ॥०२६॥
मूलम्
मदक्षिणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस् तथा द्रव्यैः शृतो मांसरसः शुभः ॥०२६॥
विश्वास-प्रस्तुतिः
वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि2 ॥०२७॥
मूलम्
वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि2 ॥०२७॥
विश्वास-प्रस्तुतिः
कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः ।
हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः ॥०२८॥
मूलम्
कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः ।
हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः ॥०२८॥
विश्वास-प्रस्तुतिः
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥०२९॥
मूलम्
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥०२९॥
विश्वास-प्रस्तुतिः
पूरीषञ्चटकायाश् च तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश् च3 प्रसन्नयेष्टमञ्जनं ॥०३०॥
मूलम्
पूरीषञ्चटकायाश् च तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश् च3 प्रसन्नयेष्टमञ्जनं ॥०३०॥
:न्
[[६३]]
विश्वास-प्रस्तुतिः
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ।
उत्पलानि च नीलानि सुस्तन्तगरमेव च ॥०३१॥
मूलम्
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ।
उत्पलानि च नीलानि सुस्तन्तगरमेव च ॥०३१॥
विश्वास-प्रस्तुतिः
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश् च मास्यपि ॥०३२॥
मूलम्
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश् च मास्यपि ॥०३२॥
विश्वास-प्रस्तुतिः
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस् तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥०३३॥
मूलम्
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस् तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥०३३॥
{इत्य् आग्नेये महापुराणे गजचिकित्सा नाम षडशीत्यधिकद्विशततमो ऽध्यायः }