२८५ कल्पसागरः

{अथ पञ्चाशीत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

कल्पसागरः

धन्वन्तरिर् उवाच
कल्पाम्मृत्युञ्चयान्वक्ष्ये ह्य् आयुर्दान्रोगसर्दनान् ।
त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ॥००१॥

मूलम्

पलं पलार्धं कर्षं वा त्रिफलां सकलां तथा ।
बिल्वतैलस्य नस्यञ्च मासं पञ्चशती कविः ॥००२॥

रोगापमृत्युबलिजित् तिलं1 भल्लातकं तथा ।
पञ्चाङ्गं वाकूचीचूणं षण्मासं खदिरोदकैः ॥००३॥

क्वाथैः कुष्ठञ्जयेत् सेव्यं चूर्णं नीलकुरुण्टजम् ।
क्षिरेण मधुना वापि शतायुः खण्डदुग्धभुक् ॥००४॥

मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः समृद्युजित् ।
बलीपलितजिज्जीवेन्माण्डकीचूर्णदुग्धपाः ॥००५॥

उच्चटामधुना कर्षं पयःपा मृत्युजिन्नरः ।
मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ॥००६॥

:न्

[[५८]]

विश्वास-प्रस्तुतिः

पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् ।
दुग्धभोजी पञ्चशती सहस्रायुर्भवेन्नरः ॥००७॥

ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् ।
मधुनाज्यन्ततस्तद्वत् शतावर्या रजः पलं ॥००८॥

क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।
पञ्चाङ्गं निम्बचूर्णस्य खदिरक्वाथभावितं ॥००९॥

कर्षं भृङ्गरसेनापि रोगजिच्चामरो1 भवेत् ।
रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् ॥०१०॥

कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः ।
घृतेन मधुना सेव्य त्रिशतायुश् च रोगजित् ॥०११॥

वाराहिका भृङ्गरसं लोहचूर्णं शतावरी ।
साज्यं कर्षं2 पञ्चशती कर्तचूर्णं शतावरी ॥०१२॥

भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् ।
ताम्रं मृतं3 सृततुल्यं4 गन्धकञ्च कुमारिका ॥०१३॥

रसैर् विमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् ।
अश्वगन्धा पलं तैलं साज्यं खण्डं शताब्दवान् ॥०१४॥

पलम्पुनर् नवाचूर्णं मध्वाज्यपयसा पिवम् ।
अशोकचूर्णस्य पलं मध्वाज्यं पयसार्तिनुत् ॥०१५॥

तिलस्य तैलं समधु नस्यात् कृष्णकचः शती ।
कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ॥०१६॥

[[५९]]

विश्वास-प्रस्तुतिः

अभयं सगुडञ्चग्ध्वा घृतेन मधुरादिभिः ।
दुग्धान्नभुक् कृष्णकेशो ऽरोगी पञ्चशताब्दवान् ॥०१७॥

पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् ।
मासं दुग्धान्नभोजी च सहस्रायुर्विरोगवान् ॥०१८॥

शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृत् ।
कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ॥०१९॥

त्रिफला पिप्पली शुण्ठी सेविता त्रिशताब्दकृत् ।
शतावर्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ॥०२०॥

चित्रकेन तथा पुर्वस् तथा शुण्ठीविडङ्गतः ।
लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ॥०२१॥

खदिरेण च निर्गुण्ड्या कण्टकार्याथ वासकात् ।
वर्षाभुवा तद्रसैर् वा भावितो वटिकाकृतः ॥०२२॥

चूर्णङ्घृतैर् वा मधुना गुडाद्यैर् वारिणा तथा ।
ॐ ह्रूं स इतिमन्त्रेण मन्त्रतो योगराजकः ॥०२३॥

मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् ।
सुरासुरैश् च मुनिभिः सेविताः कल्पसागराः ॥०२४॥

गजायुर्वेदं प्रोवाच पालकाप्ये ऽङ्गराजकं ॥०२४॥

{इत्य् आग्नेये महापुराणे कल्पसागरो नाम पञ्चाशीत्यधिकद्विशततमो ऽध्यायः }

[[६०]]

  1. तैलमिति ञ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. साज्यं सर्वमिति ख॥ ↩︎ ↩︎

  3. ताम्रामृतमिति ख॥ ↩︎ ↩︎

  4. सुरतुस्यमिति ज॥ , ञ॥ च ↩︎ ↩︎