{अथ चतुरशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मृतसञ्जीवनीकरसिद्धयोगः
धन्वन्तरिर् उवाच
सिद्धयोगान् पुनर्वक्षे मृतसञ्जीवनीकरान्।
आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान्1 ॥००१॥
मूलम्

आत्रेय उवाच
विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ।
पावनं पिप्पलीमूलं गुडूची विष्वजो ऽथ वा ॥००२॥

:न्
[[५०]]
विश्वास-प्रस्तुतिः
आमलक्यभया कृष्ण वह्निः सर्वज्वरान्तकः ।
विल्वाग्निमन्थश्योनाककाश्मर्यः पार्ला स्थिरा ॥००३॥

त्रिकण्टकं पृश्नपर्णी वृहती कण्टकारिकाः ।
ज्वराविपाकपार्श्वार्तिकाशनुत् कुशमूलकम् ॥००४॥

गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् ।
वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् ॥००५॥

त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः ।
स्ंस्कारो भेदनक्वाथः पेयः सर्वज्वरापहः ॥००६॥

देवदारुबलावासात्रिफलाव्योपपद्मकैः2 ।
सविडङ्गैः सितातुल्यं तच्चुर्णं पञ्चकाशजित् ॥००७॥

दशमूलीशटीरास्नापिप्पलीबिल्वपौष्करैः ।
शृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ॥००८॥

यवाग्रं विधिना सिद्धं कशायं वा पिवेन्नरः ।
काशहृद्ग्रहणीपार्श्वहिक्वाश्वासप्रशान्तये ॥००९॥

मधुकं मधुना युक्तं विप्पलीं शर्करान्वितां ।
नागरं गुडसंयुक्तं हिक्वाघ्नं लावणत्रयम् ॥०१०॥

कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाडिमम् ।
सौवर्चलं गुडं क्षौद्रं सर्वारोचननाशनम् ॥०११॥

शृङ्गवेररसञ्चैव मधुना सह पाययेत् ।
अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ॥०१२॥

वटं शृङ्गी शिलालोध्रदाडिमं मधुकं मधु ।
पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ॥०१३॥

[[५१]]
विश्वास-प्रस्तुतिः
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् ।
कफान्वितञ्जयेद्रक्तं तृष्णाकासज्वरापहम् ॥०१४॥

वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः ।
शिरीषपुष्पसुरसभावितं मरिचं हितं ॥०१५॥
मूलम्
वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः ।
शिरीषपुष्पसुरसभावितं मरिचं हितं ॥०१५॥
विश्वास-प्रस्तुतिः
सर्वार्तिनुन्मसूरो ऽथ पित्तमुक् तण्ड्लीयकं ।
निर्गुण्डी शारिवा शेलु रङ्गोलश् च2 विषापहः ॥०१६॥

महौषधं मृतां क्षुद्रां पुष्करं3
ग्रन्थिकोद्भवं1 ।
पिवेत् कणायुतं क्वाथं मूर्छायाञ्च मदेषु च ॥०१७॥

हिङ्गुसौर्चलव्योषैर्द्विप्लांशैर्घृताढकं(?) ।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं ॥०१८॥

शङ्खपुष्पीवत्ताकुष्ठैः सिद्धं ब्राह्मीरसैर् युतं ।
पुराणं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं ॥०१९॥

पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभयायुतं ।
पटोलत्रिफलानिम्बगुडुचीधावणीवृषैः ॥०२०॥

सकरञ्जैर् घृतं सिद्धं कुष्ठनुद्वज्रकं स्मृतं ।
निम्बं पटोलं व्याघ्री च गुडूची वासकं तथा ॥०२१॥

कुर्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् ।
जलद्रोणे विपक्तव्यं यावत्पादावशेषितं ॥०२२॥

घृतप्रस्थम्पचेत्तेन त्रिफलागर्भसंयुतं4 ।
पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं ॥०२३॥

[[५२]]
विश्वास-प्रस्तुतिः
विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् ॥०२४॥

हन्त्यन्यान् योगरजो ऽयं यथार्कस्तिमिरं खलु ।
त्रिफलायाः कषायेन भृङ्नराजरसेन च ॥०२५॥

व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये ।
पटीलदलचूर्णेन दाडिमत्वग्रजो ऽथ वा ॥०२६॥
मूलम्
व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये ।
पटीलदलचूर्णेन दाडिमत्वग्रजो ऽथ वा ॥०२६॥
विश्वास-प्रस्तुतिः
गुण्डयेच्च गजेनापि2 त्रिफलाचूर्णकेन च ।
त्रिफलायोरजोयष्ठिमार्कवोत्पलमारिचैः ॥०२७॥

समैन्धवैः पचेत्तैलमभ्यङ्गाच्छर्दिकापहं ।
सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ॥०२८॥

पचेत्तु तैलकुडवं तन्नस्यं पलितापहं ।
निम्बम्पटोलं त्रिफला गुडूची स्वदिरं वृषं ॥०२९॥

भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं ।
योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ॥०३०॥

पटोलामृतभूनिम्बवासारिष्टकपर्पटैः ।
खदिरान्तयुतैः क्वाथो विस्फोटज्वरशान्तिकृत् ॥०३१॥

दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा ।
ज्वरविद्रधिशोथेषु शिग्रुविश्वजिता हिताः ॥०३२॥

मधूकं निम्बपत्राणि लेपः स्यद्व्रणशोधनः ।
त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ॥०३३॥

निम्बमूलकपत्राणां कषायाः शोधने हिताः ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रमीन् ॥०३४॥

[[५३]]
विश्वास-प्रस्तुतिः
धातकिचन्दनबलासमङ्गामधुकोत्पलैः ।
दार्वीमेदोन्वितैर् लेपः समर्पिर्व्रणरोपणः ॥०३५॥

गुग्गुलुत्रिफलाव्योषसमांर्शैर् घृतयोगतः ।
नाडी दुष्टव्रणं शूलम्भगन्दरमुखं हरेत् ॥०३६॥

हरितकीं मूत्रसिद्धां सतैललवणान्वितां ।
प्रातः प्रातश् च सेवेत कफवातामयापहां2 ॥०३७॥

त्रिकटुत्रिफलाक्वाथं3 सक्षारलवणं पिवेत् ।
कफवातात्मकेष्वेव विरेकः कफवृद्धिनुत् ॥०३८॥

पप्पलीपिप्पलीमूलवचाचित्रकनागरैः ।
क्वाथितं वा पिवेत्पेयमामवातविनाशनं ॥०३९॥

रास्नां गुडुचीमेरण्डदेवदारुमहौषधं ।
पिवेत् सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे ॥०४०॥

दशमूलकशायं वा पिवेद्धा नागराम्भसा ।
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातिर् निषेवितः ॥०४१॥

सामवातकटीशूलपाचनो रुक्प्रणाशनः ।
समूलपत्रशाखायाः प्रसारण्याश् च तैलकं ॥०४२॥

गुडुच्याः सुरसः कल्कः चूर्णं वा क्वाथमेव च ।
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ॥०४३॥

पिप्पली वर्धमानं वा सेव्यं पथ्या गुडेन वा ।
पटोलत्रिफलातीव्रकटुकासृतसाधितं1 ॥०४४॥

[[५४]]
विश्वास-प्रस्तुतिः
गुग्गुलं कोष्णशीते2 तु गुडुची त्रिफलाम्भसा ॥०४५॥

बलापुनर् नवैर् अण्डवृहतीद्वयगोक्षुरैः ।
सहिङ्गु लवनैः पीतं सद्यो वातरुजापहं ॥०४६॥

कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च ।
पिप्पली चित्रकं शुण्ठी त्रिफला त्रिवृता वचा ॥०४७॥

द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका ।
कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां ॥०४८॥

शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके ।
क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् ॥०४९॥

सेकस् तथार्कवर्षाभूनिम्बक्वाथेन शोथजित् ।
व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ॥०५०॥

साधितं पिवतः सर्पिः पतत्यर्शो न संशयः ।
विश्वक्सेनावनिर्गुण्डीसाधितं चापि लावणं ॥०५१॥

विडङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः ।
तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा ॥०५२॥

गण्डमालापहं तैलमभ्यङ्गात् गलगण्डनुत् ।
शटीकुनागबलयक्वाथः क्षीररसे युतम् ॥०५३॥
मूलम्
गण्डमालापहं तैलमभ्यङ्गात् गलगण्डनुत् ।
शटीकुनागबलयक्वाथः क्षीररसे युतम् ॥०५३॥
विश्वास-प्रस्तुतिः
पयस्यापिप्पलीवासाकल्कं सिद्धं क्षये हितम् ।
वचाविडभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् ॥०५४॥

द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् ।
चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् ॥०५५॥

[[५५]]
विश्वास-प्रस्तुतिः
मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्दनी ॥०५६॥

वासानिम्बपटीलानि त्रिफला वातपित्तनुत्2 ।
लिह्यात् क्षौद्रेण विडङ्गं चूर्णं कृमिविनाशनम् ॥०५७॥

विडङ्गसैन्धवक्षारमूत्रेनापि हरीतकी ।
शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः ॥०५८॥

पीताः क्षीरेण मध्वक्ताः पृथक्शीणितवारणाः ।
विल्वाम्रघातकीपाठाशुण्ठीमोचरसाः समाः ॥०५९॥

पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम् ।
चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् ॥०६०॥

घृतयुक्क्वाथितं पेयं गुदम्भ्रसे रुजापहम् ।
विडङ्गातिविषामुस्तं दारुपाथाकलिङ्गकम् ॥०६१॥

मरीचेन समायुक्तं शोथातीसारनाशनम् ।
शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुडेन वा ॥०६२॥

द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी ।
त्रिफला पिप्पलीयुक्ता सन्ध्वाज्या तथैव सा ॥०६३॥

चूर्नमामलकं तेन सुरसेन तु भवितम् ।
मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत् ॥०६४॥

मासपिप्पलिशालीनां यवगोधूमयोस् तथा ।
चूर्णभागैः समांशैश् च पचेत् पिप्पलीकां शुभां ॥०६५॥

तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः ।
नवश् चटकवज्जम्भेद् दशवारान् स्त्रियं ध्रुवम् ॥०६६॥

[[५६]]
विश्वास-प्रस्तुतिः
एतत् क्षीरेन दातव्यं स्त्रीणां प्रदरनशनं ॥०६७॥

वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं ।
पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् ॥०६८॥

द्रवमाणेषु गर्भेषु गर्भस्यापनमुत्तमं ।
देवदारु नभः कुष्ठं2 नलदं विश्वभेषजं ॥०६९॥

लेपः काञ्चिकमम्पष्टस्तैलयुक्तः शिरोर्तिनुत् ।
वस्त्रपूतं क्षिपेत् कोष्णं मिन्धूत्यं कर्णशूलनुत् ॥०७०॥

लशुनार्द्रकशिग्रूणां कदल्या वा रसःपृथक् ।
बलाशतावरीरास्नामृताः मैरीयकेः पिवेत् ॥०७१॥

त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं ।
त्रिफलाव्योषसिन्धूप्त्यैर् घृतं सिद्धं पिवेन्नरः ॥०७२॥

चाक्षुष्यम्भेदनं हृद्यं3 दीपनं क्रफरोगनुत् ।
नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं ॥०७३॥

गुटिकाञ्जनमेतत् स्यात् दिनरात्र्यन्धयोर्हितं ।
यष्टीमधुवचाकृष्णावीजानां कुटजस्य च ॥०७४॥

कल्केनालोड्य निम्बस्य कषायो वमनाय सः ।
स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् ॥०७५॥

अन्यथा योजितं कुर्यात् मन्दाग्निं गौरवारुचिं ।
पथ्यासैन्धवकृष्णानां1 चूर्णमुष्णाम्बुना पिवेत् ॥०७६॥

[[५७]]
विश्वास-प्रस्तुतिः
सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।०७७।
सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ॥०७७॥

{इत्य् आग्नेये महापुराणे मृतसञ्जीवनीकरसिद्धयोगो नाम चतुरशीत्यधिकद्विशततमो ऽध्यायः }