{अथ त्र्यशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मन्त्ररूपौषधकथनं
धन्वन्तरिर् उवाच
आयुरारोग्यकर्तर ओङ्कारद्याश् च नाकदाः ।
ओङ्कारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ॥००१॥
मूलम्

गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।
ॐ नमो नारायणाय मन्त्रः सर्वार्थसाधकः ॥००२॥

ॐ नमो भगवते वासुदेवाय सर्वदः ।
ॐ हूं नमो विष्णवे मन्त्रोयञ्चौषधं परं ॥००३॥

अनेन देवा ह्य् असुराः सश्रियो निरुजो ऽभवत् ।
भूतानामुपकारश् च तथा धर्मो महौषधम् ॥००४॥

धर्मः सद्धर्मकृद्धर्मी एतैर् धर्मैश् च निर्मलः ।
श्रीदः श्रीषः श्रीनिवासः श्रीधरः
श्रीनिकेतनः ॥००५॥

श्रियः पतिः श्रीपरम एतैः श्रियमवाप्नुयात् ।
कामी कामप्रदः कामः कामपालस् तथा हरिः ॥००६॥

आनन्दो माधवश् चैव नाम कामाय वै हरेः ।
रामः परशुरामश् च नृसिंहो विष्णुरेव च ॥००७॥

त्रिविक्रमश् च नामानि जप्तव्यानि जिगीषुभिः ।
विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ॥००८॥

दामोदरो बन्धहरः पुष्कराक्षो ऽक्षिरोगनुत् ।
हृषीकेशो भयहरो जपेदौषधकर्मणि ॥००९॥

[[४९]]
विश्वास-प्रस्तुतिः
अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।
जलतारे नारसिंहं पूर्वादौ क्षेमकामवान् ॥०१०॥

चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् ।
नारायणं सर्वकाले नृसिंहो ऽखिलभीतिनुत् ॥०११॥

गरुडध्वजश् च विषहृत् वासुदेवं सदाजपेत् ।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् ॥०१२॥

नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।
हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये ।०१३।
बलभद्रं शौरकार्ये[^१] एकं नामार्थसाधकम्[^२] ॥०१३॥

{इत्य् आग्नेये महापुराणे मन्त्ररूपौषधकथनं नाम त्र्यशीत्यधिकद्विशततमो ऽध्यायः }