२८२ नानारोगहराण्यौषधानि

{अथ द्व्यशीत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नानारोगहराण्यौषधानि

धन्वन्तरिर् उवाच
सिंही शटी1 निशायुग्मं वत्सकं क्वाथसेवनं ।
शिशोः सर्वातिसारेषु स्तन्यदोषेषु शस्यते ॥००१॥

मूलम्

शृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् ।
एका चातिविशा काशच्छर्दिज्वरहरी शिशोः ॥००२॥

बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् ।
यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत् ॥००३॥

वाग्रूपसम्पद्युक्तायुर्मेधाश्रीर्वर्धते शिशोः ।
वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं ॥००४॥

सयष्टिसैन्धवं बालः प्रातर्मेधाकरं पिवेत् ।
देवदारुमहाशिग्रुफलत्रयपयोमुचां ॥००५॥

क्वाथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् ।
त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः ॥००६॥

मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः ।
नासारक्तहरो नस्याद्दुर्वारस इहोत्तमः ॥००७॥

लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् ।
तैलमार्द्रकजात्यं वा शूलहा2 चौष्ठरोगनुत्3 ॥००८॥

:न्

[[४४]]

विश्वास-प्रस्तुतिः

जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा ।
दुग्धक्वाथे ऽभयाकल्के सिद्धं तैलं द्विजार्तिनुत् ॥००९॥

धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् ।
क्वाथितं कबलं कार्यमधिजिह्वाधिशान्तये ॥०१०॥

साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः ।
गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा ॥०११॥

पल्लवैर् अर्कपूतीकस्नुहीरुग्घातजातिकैः ।
उद्वर्तयेत् सगोमूत्रः सर्वत्वग्दोषनाशनैः ॥०१२॥

वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी ।
पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् ॥०१३॥

पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् ।
तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया ॥०१४॥

फलदार्वीविषाणान्तु क्वाथो धात्रीरसो ऽथवा ।
पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा ॥०१५॥

वासागर्भो व्याधिघातक्वाथ एरण्डतैलयुक् ।
वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी ॥०१६॥

सेव्या जठरिणा कृष्णा स्नुक्षीरवहुभाविता ।
पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक् ॥०१७॥

ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते स्थिता ।
सांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् ॥०१८॥

फलत्रयामृता वासा तिक्तभूनिम्बजस् तथा ।
क्वाथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं ॥०१९॥

रक्तपित्ती पिवेद्वासासुरसं ससितं मधु ।

[[४५]]

विश्वास-प्रस्तुतिः

वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् ॥०२०॥

वरी विदारी पथ्या बलात्रयं सवासकं ।
श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान् ॥०२१॥

पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् ।
समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ॥०२२॥

त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं ।
तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ॥०२३॥

रुग्घातजनीलाक्षाचूर्णाजक्षौद्रसंयुता ।
वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥०२४॥

श्यामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः ।
समरीचैः शृतं तैलं क्षीरे स्याद्ब्रणरोहणं ॥०२५॥

श्रीकार्पासदलैर् भस्मफलोपलवणा निशा ।
तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ॥०२६॥

कुम्भीसारं पयोयुक्तं वह्निदग्धं व्रणे लिपेत् ।
तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ॥०२७॥

विष्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया ।
तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ॥०२८॥

वत्सकातिविषाविश्वविल्लमुस्तशृतं जलं ।
सामे पुराणे ऽतीसारे सामृक्शूले च पाययेत् ॥०२९॥

अङ्गारदग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् ।
शूलवानथ वा तद्धि सिन्धुहिङ्गुकणाभया ॥०३०॥

कटुरोहोत्कणातङ्कलाजचूर्णं[^१] मधुप्लुतं ।

:न्

[[४६]]

विश्वास-प्रस्तुतिः

वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ॥०३१॥

पाठादार्वीजातिदलं द्राक्षामूलफलत्रयैः1
साधितं समधु क्वाथं कवलं मुखपापहृत् ॥०३२॥

कृष्णातिविषतिक्तेन्द्रदारूपाठापयोमुचां ।
क्वाथो मूत्रे शृतः क्षौद्री सर्वकण्ठगदापहः ॥०३३॥

पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां ।
कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति ॥०३४॥

वंशत्वग्वरुणक्वाथः शर्कराश्मविघातनः ।
शाखोटक्वाथसक्षौद्रक्षीराशी श्लीपदी भवेत् ॥०३५॥

मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं ।
पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा ॥०३६॥

शुण्ठीसीवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर् घृतम् ।
रुजं हरेदथ क्वाथो विद्धि बद्धाग्निसाधने ॥०३७॥

सौवर्चलाग्निहिङ्गूनां सदीप्यानां रसैर् युतं ।
विडदीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् ॥०३८॥

धात्रीपटोलमुद्गानां क्वाथः साज्यो विसर्पहा ।
शुण्ठीदारुनवाक्षीरक्वाथो मूत्रान्वितो ऽपरः ॥०३९॥

सव्योषायोरजःक्षारः फलक्वाथश् च शोथहृत् ।
गुडशिग्रुत्रिवृद्धिश् च सैन्धवानां रजोयुतः ॥०४०॥

त्रिवृताफलकक्वाथः सगुडः स्याद्विरेचनः ।
वचाफलकषायोत्थं पयो वमनकृभवेत् ॥०४१॥

मूलम्

त्रिवृताफलकक्वाथः सगुडः स्याद्विरेचनः ।
वचाफलकषायोत्थं पयो वमनकृभवेत् ॥०४१॥

त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् ।

:न्

[[४७]]

विश्वास-प्रस्तुतिः

विडङ्गं लोहचूर्णञ्च दशभागसमन्वितम् ॥०४२॥

शतावरीगुडुच्यग्निपलानां शतविंशतिः1
मध्वाज्यतिलजैर् लिह्याद्बलीपलितवर्जितः ॥०४३॥

शतमब्दं हि जीवेत सर्वरोगविवर्जितः ।
त्रिफला सर्वरोगघ्नी समधुः शर्क्वरान्विता ॥०४४॥

सितामधुघृतैर् युक्ता सकृष्णा त्रिफला तथा ।
पथ्याचित्रकशुण्ठाश् च गुडुचीमुषलीरजः ॥०४५॥

सगुडं भक्षितं रोगहरं त्रिशतवर्षकृत् ।
किञ्चिच्चूर्णं जवापुष्पं पिण्डितं विसृजेज्जले ॥०४६॥

तैलं भवेद् घृताकारं किञ्चिच्चूर्णं जलान्वितं ।
धूपार्थं दृश्यते चित्रं वृषदंशजरायुना ॥०४७॥

पुनर्माक्षिकधूपेन दृश्यते तद्यथा पुरा ।
कर्पूरजलकाभेकतैलं2 पाटलिमूलयुक् ॥०४८॥

मूलम्

पुनर्माक्षिकधूपेन दृश्यते तद्यथा पुरा ।
कर्पूरजलकाभेकतैलं2 पाटलिमूलयुक् ॥०४८॥

विश्वास-प्रस्तुतिः

पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः ।
तृणौत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं ॥०४९॥

विषग्रहरुजध्वंसक्षुद्रनर्म च कामिकं ।
तत्ते षट्कर्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं ॥०५०॥

मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः ।
चतुर्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥०५१॥

{इत्य् आग्नेये महापुराणे नानारोगहराण्यौषधानि नाम द्व्यशीत्यधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[४८]]

  1. सिंही षष्टीति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. शूलहा इत्य् अत्र पुंस्त्वनिर्देश आर्षः ↩︎ ↩︎ ↩︎ ↩︎

  3. मूत्रहा शोषरोगनुदिति ञ॥ ↩︎ ↩︎