{अथैकाशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वृक्षायुर्वेदः
धन्वन्तरिर् उवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।
प्राग्वटो याम्यतस्त्वाम्र आप्ये ऽश्वत्थः कर्मेण तु ॥००१॥
मूलम्

दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।
उद्यानं गृहवासे1 स्यात् तिलान् वाप्यथ पुष्पितान् ॥००२॥

गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥००३॥

नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु2 कारयेत् ॥००४॥

:न्
[[४२]]
विश्वास-प्रस्तुतिः
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥००५॥

सम्पूज्य वरुणं विष्णुं पर्जन्यं तत् समाचरेत् ।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥००६॥

अशोकः कदली जम्बुस् तथा वकुलदाडिमाः ।
सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ॥००७॥

वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥००८॥

स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥००९॥

विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।
फलनाशे कुलथैश् च मासैर् मुद्गैर् यवैस्तिलैः ॥०१०॥

घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।
आविकाजशकृच्चूर्णम् यवचूर्णं तिलानि च ॥०११॥

गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥०१२॥

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।०१३।
सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् ॥०१३॥

{इत्य् आग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमो ऽध्यायः ॥ }
[[४३]]