{अथाशीत्यधिकद्विशततमो ऽध्यायः ॥}
विश्वास-प्रस्तुतिः
रसादिलक्षणं
धन्वन्तरिर् उवाच
रसादिलक्षणं वक्ष्ये भेषजानां गुणं शृणु ।
रसवीर्यविपाकज्ञो नृपादीन्रक्षयेन्नरः ॥००१॥
मूलम्

रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्तिताः ।
कटुतिक्तकषायानि तथाग्नेया महाभुज ॥००२॥

त्रिधा विपाको द्रव्यस्य कट्वम्ललवणात्मकः ।
द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च ॥००३॥

अनिर्देश्यप्रभावश् च ओषधीनां द्विजोत्तम ।
मधुरश् च कषायश् च तिक्तश् चैव तथा रसः ॥००४॥

शीतवीर्याः समुद्दिष्टाः शेषास्तूष्णाः
प्रकीर्तिताः ।
गुडुची तत्र तिक्तपि भवत्युष्णातिवीर्यतः ॥००५॥

उष्णा कषायापि तथा पथ्या भवति मानद ।
मधुरोपि तथा माम्स उष्ण एव प्रकीर्तितः ॥००६॥

लवणो मध्रश् चैव विपाकमधुरौ स्मृतौ ।
अम्लोष्णश् च तथा प्रोक्तः शेषाः कटुविपाकिनः ॥००७॥

वीर्यपाके विपर्यस्ते प्रभावात्तत्र निश् चयः ।
मधुरो ऽपि कटुः पाके यच्च क्षौद्रं1 प्रकीर्तितं ॥००८॥

:न्
[[३९]]
विश्वास-प्रस्तुतिः
कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ॥००९॥

कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं1 ।
द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः ॥०१०॥

तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् ।
तोयवर्जन्तु यद्द्रव्यं स्नेहद्रव्यं तथा भवेत् ॥०११॥

संवर्तितौषधः पाकः स्नेहानां परिकीर्तितः ।
तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत2 ॥०१२॥

स्वच्छमल्पौषधं क्वाथं कषायञ्चोक्तवद्भवेत् ।
अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं ॥०१३॥

मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना ।
वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ॥०१४॥

समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् ।
सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्धनाः ॥०१५॥

मधुरास्तु विशेषेण विज्ञेया धातुवर्धनाः ।
दोषाणाञ्चैव धातूनां द्रव्यं समगुणन्तु यत् ॥०१६॥

तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् ।
उपस्तम्भत्रयं प्रोक्तं देहे ऽस्मिन्मनुजोत्तम ॥०१७॥

आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् ।
असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् ॥०१८॥

क्षयस्य बृंहणं कार्यं स्थुलदेहस्य कर्षणम् ।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥०१९॥

[[४०]]
विश्वास-प्रस्तुतिः
उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं ।
हिताशी च मिताशी च जीर्णाशी च तथा भवेत् ॥०२०॥

ओषधीनां पञ्चविधा तथा भवति कल्पना ।
रसः कल्कः शृतः शीतः फाण्डश् च मनुजोत्तम ॥०२१॥

रसश् च पीडको ज्ञेयः कल्क आलोडिताद् भवेत् ।
क्वथितश् च शृतो ज्ञेयः शीतः पर्युषितो निशां ॥०२२॥

सद्योभिशृतपूतं यत् तत् फाण्टमभिधीयते ।
करणानां शतञ्चैव षष्टिश् चैवाधिका स्मृता ॥०२३॥

यो वेत्ति स ह्य् अजेयः स्थात्सम्बन्धे वाहुशौण्डिकः ।
आहारशुद्धिरग्न्यर्थमग्निमूलं बलं नृणां ॥०२४॥

ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां ।
जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां ॥०२५॥

रसाधिकं समं कुर्यान्नरो वाताधिको ऽपि वा ।
निदाघे मर्दनं प्रोक्तं शिशिरे च समं बहु ॥०२६॥

वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं ।
त्वचन्तु प्रथमं मर्द्यमङ्गञ्च तदनन्तरं ॥०२७॥

स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं ।
स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी ॥०२८॥

अरिवन्मर्दयेत् प्रज्ञो जत्रु वक्षश् च पूर्ववत् ।
अङ्गसन्धिषु सर्वेषु निष्पीड्य बहुलं तथा ॥०२९॥

प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् ।
नीजीर्णे तु श्रमं कुर्यान्न भुक्त्वा पीतवान्नरः ॥०३०॥

[[४१]]
विश्वास-प्रस्तुतिः
व्यायामं नैव कर्तव्यं स्नायाच्छीताम्बुना सकृत् ॥०३१॥

वार्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् ।
व्यायामश् च कफं हन्याद्वातं हन्याच्च मर्दनं ॥०३२॥

स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः ।
आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः ॥०३३॥

{इत्य् आग्नेये महापुराणे रसादिलक्षणं नामाशीत्यधिकद्विसततमो ऽध्यायः ॥ }