{अथैकोनाशीत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सर्वरोगहराण्यौषधानि
धन्वन्तरिर् उवाच
शारीरमानमागन्तुसहजा व्याधयो मताः ।
शारीरा ज्वरकुष्ठाद्या क्रोधाद्या मानसा मताः ॥००१॥
मूलम्

आगन्तवो विघातोत्था सहजाः क्षुज्जरादयः ।
शारीरागन्तुनाशाय सूर्यवारे घृतं गुडम् ॥००२॥

लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् ।
चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते ॥००३॥

तैलं शनैश् चरे दद्यादाश्विने गोरसान्नदः ।
घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः ॥००४॥

[[३४]]
विश्वास-प्रस्तुतिः
गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् ।
यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ॥००५॥

मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् ।
वातपित्तकफा दोषा धातवश् च तथा शृणु ॥००६॥

भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत ।
अंशेनैकेन किट्टद्वं रसताञ्चापरेण च ॥००७॥

किट्टभागो मलस्तत्र विन्मूत्रस्वेददूषिकाः ।
नासामलङ्कर्णमलं तथा देहमलञ्च यत् ॥००८॥

रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् ।
मांसं रक्तत्तितो मेदो मेदसो ऽस्थ्नश् च सम्भवः ॥००९॥

अस्थ्नो मज्जा ततः शुक्रं शुकाद्रागस्तथौजसः ।
देशमार्तिं बलं शक्तिं कालं प्रकृतिमेव च ॥०१०॥

ज्ञात्वा चिकित्सतं कुर्याद्भेषजस्य तथा बलम् ।
तिथिं रिक्तान्त्यजेद् भौमं मन्दभन्दारुणोग्रकम् ॥०११॥

हरिगोद्विजचन्द्रार्कसुरादीन् प्रतिपूज्य च ।
शृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ॥०१२॥

ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।
ऋषयश् चौषधिग्रामा भूतसङ्घाश् च पान्तु ते ॥०१३॥

रसायनमिवर्षीणां देवानाममृतं यथा ।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥०१४॥

वातश्लेष्मातको देशो बहुवृक्षो बहूदकः ।
अनूपड्तिबिख्यातो जाङ्गलस्तद्विवर्जितः ॥०१५॥

[[३५]]
विश्वास-प्रस्तुतिः
जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ॥०१६॥

रूक्ष्मः शीतश् चलो वायुः पित्तमुष्णं कटुत्रयम् ।
स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ॥०१७॥

वृद्धिः समानैर् एतेषां विपरीतैर् विपर्ययः ।
रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥०१८॥

कटुतिक्तकषायाश् च वातलाः श्लेष्मनाशनाः ।
कट्वम्ललवणा ज्ञेयास् तथा पित्तविवर्धनाः ॥०१९॥

तिक्तस्वादुकषायाश् च तथा पित्तविनाशनाः ।
रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते ॥०२०॥

वीर्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः ।
प्रभावतस् तथा कर्म ते कुर्वन्ति च सुश्रुत ॥०२१॥

शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ।
चयप्रकोपप्रशमाः कफस्य तु प्रकीर्तिताः ॥०२२॥

निदाघवर्षारात्रौ च तथा शरदि सुश्रुत ।
चयप्रकोपप्रशमाः पवनस्य प्रकीर्तिताः ॥०२३॥

मेघकाले च शरदि हेमन्ते च यथाक्रमात् ।
चयप्रकोपप्रशमास् तथा पित्तस्य कीर्तिताः ॥०२४॥

वर्षाद्यो विसर्गस्तु हेमन्ताद्यास् तथा त्रयः ।
शिशिराद्यास् तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥०२५॥

सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्तितम् ।
वर्षादींस्त्रीनृतून् सोमश् चरन् पर्यायशो रसान् ॥०२६॥

जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् ।
शिशिरादीनृतूनर्कश् चरन् पर्ययशो रसान् ॥०२७॥

[[३६]]
विश्वास-प्रस्तुतिः
विवर्धयेत्तथा तिक्तकषायकटुकान् क्रमात् ।
यथा रजन्यो वर्धन्ते वलमेकं हि वर्धते ॥०२८॥

क्रमशो ऽथ मनुष्याणां हीयमानासु हीयते ।
रात्रिभुक्तदिनानाञ्च वयसश् च तथैव च ॥०२९॥

आदिमध्यावसानेषु कफपित्तसमीरणाः ।
प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः ॥०३०॥

प्रकोपोत्तरके काले शमस्तेषां प्रकीर्तितः ।
अदिभोजनतो विप्र तथा चाभोजनेन च ॥०३१॥

रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः ।
अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् ॥०३२॥

आश्रयं पवनादीनां तथैकमवशेषयेत् ।
व्याधेर् निदानस्य तथा विपरीतमथौषधम् ॥०३३॥

कर्तव्यमेतदेवात्र मया सारं प्रकीर्तितम् ।
नाभेरूर्ध्वमधश् चैव गुदश्रोण्योस्तथैव च ॥०३४॥

बलाशपित्तवातानां देहे स्थानं प्रकीर्तितं ।
तथापि सर्वगाश् चैते देहे वायुर्विशेषतः ॥०३५॥

देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।
कृशो ऽल्पकेशश् चपलो बहुवाग्विषमानलः ॥०३६॥

व्योमगश् च तथा स्वप्ने वातप्रकृतिरुच्यते ।
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥०३७॥

स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ।
दृढाङ्गः स्थिरचित्तश् च सुप्रभः स्निग्धसूर्धजः ॥०३८॥

[[३७]]
विश्वास-प्रस्तुतिः
तामसा राजसाश् चैव सात्विकाश् च तथा स्मृताः ॥०३९॥

मनुष्या मुनिर्शादूल वातपित्तकफात्मकाः ।
रक्तपित्तं व्यवायाच्च गुरुकर्मप्रवर्तनैः ॥०४०॥

कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ।
विदाहिनां तथोल्कानामुष्णान्नाध्वनिसेविनां[^१] ॥०४१॥

पित्तं प्रकोपमायाति भयेन च तथा द्विज ।
अत्यम्बुपानगुर्वन्नभोजिनां भुक्तशायिनाम् ॥०४२॥

श्लेकेष्माप्रकोपमायाति तथा ये चालसा जनाः ।
वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्षणैः ॥०४३॥

अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा ।
जृम्भणं लोमहर्षश् च वातिकव्याधिलक्षणम् ॥०४४॥

नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे ।
तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् ॥०४५॥

आलस्यञ्च प्रसेकश् च गुरुता मधुरास्यता ।
उष्णाभिलाषिता चेति श्लैष्मिकव्याधिलक्षणम् ॥०४६॥

स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् ।
आज्यं क्षीरं सिताद्यञ्च चन्द्ररश्म्यादि पित्तनुत् ॥०४७॥

सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् ।
सर्वरोगप्रशान्त्यै स्यद्विष्णोर्ध्यानञ्च पूजनम् ॥०४८॥

{इत्य् आग्नेये महापुराणे सर्वरोगहराण्यौषधानि नामोनाशीत्यधिकद्विशततमो ऽध्यायः }
:न्
तथोल्कानामुष्मणामध्वसेविनामिति ख॥
[[३८]]