२७८ सिद्धौषधानि

{अथाष्टसप्तत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सिद्धौषधानि

अग्निर् उवाच
आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् ।
देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ॥००१॥

मूलम्

सुश्रुत उवाच
आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् ।
सिद्धयोगान्सिद्धमन्त्रान्मृतसञ्जीवनीकरान् ॥००२॥

धन्वन्तरिर् उवाच
रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् ।
सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं शृतं जलम् ॥००३॥

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
षडहे च व्यतिक्रान्ते तित्तकं पाययेद्ध्रुवं ॥००४॥

स्नेहयेत्तक्तदोषन्तु1 ततस्तञ्च विरेचयेत् ।
जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ॥००५॥

तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस् तथा ।
मुद्गा मसूराश् च णकाः कुलत्थाश् च सकुष्ठकाः ॥००६॥

:न्

[[२८]]

विश्वास-प्रस्तुतिः

आटक्यो नारकाद्याश् च कर्कोटककतोल्वकम् ।
पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ॥००७॥

अधोगे वमनं शस्तमूर्ध्वगे च विरेचनम् ।
रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्जितम् ॥००८॥

शक्तुगोधूमलाजाश् च यवशालिमसूरकाः ।
सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ॥००९॥

साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु ।
अतीसारे पुराणानां शालीनां भक्षणं हितं ॥०१०॥

अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् ।
मारुतं वर्जयेद् यत्नः कार्यो गुल्मेषु सर्वथा ॥०११॥

वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं ।
गोधूमशालयस्तिक्ता हिता जठरिणामथ ॥०१२॥

गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरो ऽभया ।
पञ्चकोलञ्जाङ्गलाश् च निम्बधात्र्यः पटोलकाः ॥०१३॥

मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः ।
कुष्ठिनाञ्च तथा शस्तं पानार्थे खदिरोदकं ॥०१४॥

मसूरसुद्गौ पेयार्थे भोज्या जिर्णाश् च शालयः ।
निम्बपर्पटकैः शाकैर् जाङ्गलानां तथा रसः ॥०१५॥

विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्चिका ।
मनःशिला च वालेयः कुष्ठहा मूत्रपेषितः ॥०१६॥

अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः ।
यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ॥०१७॥

तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च ।

[[२९]]

विश्वास-प्रस्तुतिः

तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ॥०१८॥

मुद्गाः सयवगोधूमा धान्यं वर्षस्थतञ्च यत् ।
जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ॥०१९॥

कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः ।
पूपैर् वा विस्करैः सिद्धैर् दधिदाडिमसाधितैः ॥०२०॥

मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।
यवगोधूमशाल्यन्नैर् भोजयेच्छ्वासकासिनं ॥०२१॥

दषमूलवलारास्नाकुलत्थैर् उपसाधिताः ।
पेयाः पूपरसाः क्वाथाः श्वासहिक्कानिवारणाः ॥०२२॥

शुष्कमूलककौलत्थमूलजाङ्गलजैरसैः(?) ।
यवगोधूमशाल्यन्नं जीर्णम् सोशीरमाचरेत् ॥०२३॥

सोथवान् सगुडां पथ्यां खादेद्वा गुडनागरम् ।
तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ॥०२४॥

पुराणयवगोधूमशालयो जङ्गलो रसः ।
मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥०२५॥

मूलम्

पुराणयवगोधूमशालयो जङ्गलो रसः ।
मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥०२५॥

विश्वास-प्रस्तुतिः

मधु सर्पिः पयः शक्रं निम्बपर्पटकौ वृषम् ।
तक्रारिष्टाश् च1 शस्यन्ते सततं वातरोगिणाम् ॥०२६॥

हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः ।
तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ॥०२७॥

मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये2
सक्षौद्रपयसा लाक्षां पिवेच्च क्षतवान्नरः ॥०२८॥

[[३०]]

विश्वास-प्रस्तुतिः

क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।
शालयो भोजने रक्ता नीवारकलमादयः ॥०२९॥

यवान्नविकृतिर्मासं शाकं सौवर्चलं शटी ।
पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा1 ॥०३०॥

मुस्ताभ्यासस् तथा लेपश्चित्रकेण हरिद्रया ।
यवान्नविकृतिः शालिर्वास्तूकं ससुवर्चलम् ॥०३१॥

त्रपुषर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।
मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥०३२॥

लाजाः शक्तुस् तथा क्षौद्रं शून्यं मांसं परूषकम् ।
वार्ताकुलावशिखिनश्छर्दिघ्नाः पानकानि च ॥०३३॥

शाल्यन्नन्तोयपयसी केवलोष्णे शृते ऽपि वा ।
तृष्णाघ्ने मुस्तगुडयोर्गुटिका वा मुखे धृता ॥०३४॥

यवान्नविकृतिः पूपं2 शुष्कमूलकजन्तथा ।
शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ॥०३५॥

मुद्गाढकमसूराणां सतिलैर् जाङ्गलैरसैः(?) ।
ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ॥०३६॥

यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।
विसर्पी ससिताक्षौद्रमृद्वीकादाडिमोदकम् ॥०३७॥

रक्तयष्टिकगोधूमयवमुद्गादिकं लघु ।
काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्चला ॥०३८॥

वातशोणितनाशाय तोयं शस्तं सितं मधु ।

:न्

[[३१]]

विश्वास-प्रस्तुतिः

नाशारोगेशु च हितं घृतं दुर्वाप्रसाधितम् ॥०३९॥

भृङ्गराजरसे सिद्धं तैलं धात्रीरसे ऽपि वा ।
नश्यं सर्वामयेष्विष्टं मूर्धजन्तूद्भवेषु च ॥०४०॥

शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् ।
द्विजदार्ढ्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ॥०४१॥

गण्डूषं तिलतैलेन द्विजदार्ढ्यकरं परं ।
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशने ॥०४२॥

धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् ।
शिरोरोगविनाशाय स्निग्धमुष्णञ्च भोजनम् ॥०४३॥

तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् ।
कर्णशूलविनाशाय सर्वशुक्तानि1 वा द्विज ॥०४४॥

गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा ।
संयोज्या या कृता वर्तिः क्षतशुक्रहरी तु सा ॥०४५॥

व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् ।
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनं ॥०४६॥

आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जिकसैन्धवैः ।
आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ॥०४७॥

गिरिमृच्चन्दनैर् लेपो वहिर्नेत्रस्य शस्यते ।
नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा ॥०४८॥

रात्रौ तु मधुसर्पिर्भ्यां दीर्घमायुर्जिजीविषुः ।
शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥०४९॥

कलम्बिकानि माषाश् च वृष्यौ क्षीरघृतौ तथा ।

:न्

[[३२]]

विश्वास-प्रस्तुतिः

आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ॥०५०॥

मधुकादिरसोपेता बलीपलितनाशिनी ।
वचासिद्धघृतं विप्र भूतदोषविनाशनम् ॥०५१॥

मूलम्

मधुकादिरसोपेता बलीपलितनाशिनी ।
वचासिद्धघृतं विप्र भूतदोषविनाशनम् ॥०५१॥

विश्वास-प्रस्तुतिः

कव्यं बुद्धिप्रदञ्चैव1 तथा सर्वार्थसाधनम् ।
वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ॥०५२॥

रास्नासहचरैर् वापि तैलं वातविकारिणाम् ।
अनभिष्यन्दि यच्चान्नं तद्ब्रणेषु प्रशस्यते ॥०५३॥

शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते ।
पक्वस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ॥०५४॥

तथा शूच्युपचारश् च2 बलिकर्म विशेषतः ।
सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ॥०५५॥

भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।
तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवाघृतम् ॥०५६॥

धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा ।
अर्कक्षीरेण सम्पिष्टं लोपा वीजं पलाशजं ॥०५७॥

वृश्चिकार्तस्य कृष्णा वा शिवा च फलसंयुता3
अर्कक्षीरं तिलं तैलं पललञ्च गुडं समम् ॥०५८॥

पानाज्जयति दुर्वारं श्वविषं शीघ्रमेव तु ।
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ॥०५९॥

सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।
चन्दनं पद्मकङ्कुष्ठं लताम्बूशीरपाटलाः ॥०६०॥

[[३३]]

विश्वास-प्रस्तुतिः

निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः ।
शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥०६१॥

स्नेहपाने तथा वस्तौ तैलं धृतमनुत्तमम् ।
स्वेदनीयः परो वह्निः शीताम्भःस्तम्भनं परम् ॥०६२॥

त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।
वस्तिर्विरेको वमनं तैलं सर्पिस् तथा मधु ।०६३।
वातपित्तबलाशानां क्रमेण परमौषधं ॥०६३॥

{इत्य् आग्नेये महापुराणे सिद्धौषधानि नामाष्ट्सप्तत्यधिकद्विशततमो ऽध्यायः }

  1. पक्वदोषन्त्विति ञ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. सदामये इति ञ॥ । दमात्यये इति ट॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. कलसंयुतेति क॥ ↩︎ ↩︎