{अथ सप्तसप्रत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पुरुवंशवर्णनं
अग्निर् उवाच
पुरोर्जनमेजयो ऽभूत्प्राचीन्नन्तस्तु तत्सुतः ।
प्राचीन्नन्तान्मनस्त्युस्तु तस्माद्वीतमयो नृपः ॥००१॥
मूलम्

शुन्धुर्वीतमयाच्चाभूच्छुन्धोर्बहुविधः1 सुतः ।
बहुविधाच्च संयातिरहोवादी च तत्सुतः ॥००२॥

तस्य पुत्रो ऽथ भद्राशोअ भद्राश्वस्य दशात्मजाः ।
ऋचेयुश् च कृषेयुश् च सन्नतेयुस् तथात्मजः ॥००३॥

घृतेयुश् च चितेयुश् च स्थण्डिलेयुश् च सत्तमः ।
धर्मेयुः सन्नतेयुश् च कृचेयुर्मतिनारकः ॥००४॥

तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः ।
आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् ॥००५॥

तंसुरोघाच्च चत्वारो दुष्मन्तो ऽथ प्रवीरकः ।
सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतो ऽभवत् ॥००६॥

शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः ।
सुतेषु मातृकोपेन नष्टेषु भरतस्य च ॥००७॥

ततो मरुद्भिरानीय पुत्रः स तु वृहस्पतेः ।
सङ्क्रामितो भरद्वाजः क्रतुभिर्वितथो ऽभवत् ॥००८॥

:न्
[[२४]]
विश्वास-प्रस्तुतिः
सुहोत्रञ्च सुहोतारङ्गयङ्गर्भन्तथैव च ॥००९॥

कपिलश् च महात्मानं सुकेतुञ्च सुतद्वयम् ।
कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः ॥०१०॥

ब्रह्माणाः क्षत्रिया वैश्याः काशे दीर्घतमाः1
सुताः ।
ततो धन्वन्तरिश्चासीत्तत्सुतो ऽभूच्च केतुमान् ॥०११॥

केतुमतो हेमरथो दिवोदास इतिश्रुतः ।
प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् ॥०१२॥

वत्सादनर्क आसीच्च अनर्कात् क्षेमको ऽभवत् ।
क्षेमकद्वर्षकेतुश् च वर्षकेतोर्विभुः स्मृतः2 ॥०१३॥

विभोरानर्तः पुत्रो ऽभूद्विभोश् च सुकुमारकः ।
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ॥०१४॥

सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान् ॥०१५॥

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्3 ।
जह्नोरभूदजकाश्वो बलाकाश्वस्तदात्मजः ॥०१६॥

वलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः ।
गाधेः सत्यवती कन्या विश्वामित्रः सूतोत्तमः ॥०१७॥

देवरातः कतिमुखा विश्वामित्रस्य ते सुताः ।
शुनःशेफो ऽष्टकश्चान्यो ह्य् अजमीढात् सुतो ऽभवत् ॥०१८॥

[[२५]]
विश्वास-प्रस्तुतिः
पुरुजातेस्तु वाह्याश्वो वाह्याश्च्वात् पञ्च पार्थिवाः ॥०१९॥

मुकुलः सृञ्जयश् चैव राजा वृहदिषुस् तथा ।
यवीनरश् च1 कृमिलः पाञ्चाला इति विश्रुताः ॥०२०॥

मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः ।
चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्य् अभुत् ॥०२१॥

दिवोदासो ह्य् अहल्या च अहल्यायां शरद्वतात् ।
शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः ॥०२२॥

कृपः कृपी किवोदासान्मैत्रेयः सोमपस्ततः ।
सृञ्जयात् पञ्चधनुषः सोमदत्तश् च तत्सुतः ॥०२३॥

सहदेवः सोमदत्तात् सहदेवात्तु सोमकः ।
आसीच्च सोमकाज्जन्तुर्जन्तोश् च पृषतः सुतः ॥०२४॥

पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नो ऽथ तत्सुतः ।
धृष्ठकेतुश् च धूमिन्यामृक्षो ऽभूदजमीढतः ॥०२५॥

ऋक्षात्सम्वरणो जज्ञे कुरुः सम्वरणात्ततः ।
यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह ॥०२६॥

कुरोः सुधन्वा सुधनुः परिक्षिच्चारिमेजयः ।
सुधन्वनः सुहोत्रो ऽभूत् सुहोत्राच्च्यवनो ह्य् अभूत् ॥०२७॥

वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः ।
वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः ॥०२८॥

मत्स्यकाली कुशाग्रो ऽतो ह्य् आसीद्राज्ञो वृहद्रथात् ।
कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः ॥०२९॥

[[२६]]
विश्वास-प्रस्तुतिः
सम्भवाच्च जरासन्धः सहदेवश् च तत्सुतः ॥०३०॥

सहदेवादुदापिश् च उदापेः श्रुतकर्मकः ।
परिक्षितस्य दायादो धार्मिको जनमेजयः ॥०३१॥

जनमेजयात्त्रसदस्युर्जह्नोस्तु सुरथः सुतः ।
श्रुतसेनोग्रसेनौ च भीमसेनश् च नामतः ॥०३२॥

जनमेजयस्य पुत्रौ तु सुरथो महिमांस् तथा ।
सुरथाद्विदूरथो ऽभूदृक्ष आसीद्विदूरथात् ॥०३३॥

ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत्सुतः ।
प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ॥०३४॥

देवापिर्वाह्लिकश् चैव सोमदत्तस्तु शान्तनोः ।
वाह्लिकात्सोमदत्तो ऽभुद्भूरिर्भूरिस्रवाः शलः ॥०३५॥

गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्यकः ।
कृष्णद्वैपायनश् चैव क्षेत्रे वैचित्रवीर्यके ॥०३६॥

धृतरष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ।
पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश् चैवार्जुनस्त्रयः ॥०३७॥

नकुलः सहदेवश् च पाण्डोर्माद्य्राञ्च दैवतः ।
अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः ॥०३८॥

द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् ।
प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्तिर्धनञ्जयात्1 ॥०३९॥

सहदेवाच्छ्रुतकर्मा शतानीकस्तु नाकुलिः ।
भीमसेनाद्धिडिम्बायामन्य आसीद् घटीत्कचः ॥०४०॥

[[२७]]
विश्वास-प्रस्तुतिः
गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज ॥०४१॥

होममग्नौसमुद्दिश्य कुरु सर्वप्रदं यतः ॥०४१॥

{इत्य् आग्नेये महापुराणे पुरुवंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमो ऽध्यायः ॥ }