{अथ षट्सप्तत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजवंशवर्णनं
अग्निर् उवाच
तुर्वसोश् च सुतो वर्गो गोभानुस्तस्य चात्मजः1 ।
गोभानोरासीत्2 त्रैशानिस्त्रैशानेस्तु करन्धमः ॥००१॥
मूलम्

करन्धमान्मरुत्तोभूद् दुष्मन्तस्तस्य चात्मजः ।
दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः ॥००२॥

गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला3 महाबलाः ॥००३॥

द्रुह्यस्तु वभ्रुसेतुश् च बभ्रुसेतोः पुरोवसुः ।
ततो गान्धारा गान्धारैर् धर्मो धर्माद् घृतो ऽभवत् ॥००४॥

घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।
आनद्रश् च सभानरश्चाक्षुषः परमेषुकः ॥००५॥

सभानरात् कालानलः कालानलजस्रृञ्जयः ।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥००६॥

तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभुन्महामनाः ।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः ॥००७॥

:न्
[[२२]]
विश्वास-प्रस्तुतिः
दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस् तथा ॥००८॥

शिवे पुत्रास्तु चत्वारः पृथुदर्भश् च वीरकः ।
कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः ॥००९॥

तितिक्षुरुशीनरजस्तितिक्षोश् च रुषद्रथः ।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥०१०॥

महायोगि बलिस्तस्मादङ्गो वङ्गश् च मुख्यकः ।
पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः ॥०११॥

अङ्गाद्दधिवाहनो ऽभूत्1 तस्माद्दिविरथो नृपः ।
दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः ॥०१२॥

चित्ररथात्सत्यरथो लोमपदश् च तत्सुतः ।
लोमपादाच्चतुरङ्गः पृथुलाक्षश् च तत्सुतः ॥०१३॥

पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्यङ्गको ऽभवत् ।
हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः ॥०१४॥

तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।
तस्माज्जयद्रथो ह्य् आसीज्जयद्रथाद्वृहद्रथः ॥०१५॥

वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।०१६।
एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे ॥०१६॥

{इत्य् आग्नेये महापुराणे राजवंशवर्णनं नाम षट्सप्तत्यधिकद्विशततमो ऽध्यायः }
:न्
[[२३]]