{अथ पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
द्वादशसङ्ग्रामाः
अग्निर् उवाच
कश्यपो वसुदेवो ऽभूद्देवकी चादितिर्वरा ।
देवक्यां वसुदेवात्तु कृष्णो ऽभूत्तपसान्वितः ॥००१॥
मूलम्

धर्मसंरक्षणार्थाय ह्य् अधर्महरणाय च ।
सुरादेः पालनार्थञ्च दैत्यादेर्मथनाय च ॥००२॥

रुक्मणी सत्यभामा च सत्या नग्नजिती प्रिया ।
सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा ॥००३॥

मित्रविन्दा1 च कालिन्दी देवी जाम्बवती तथा ।
सुशीला च तथा माद्री कौशल्या विजया जया ॥००४॥

:न्
[[१९]]
विश्वास-प्रस्तुतिः
एवमादीनि देवीनां सहस्राणि तु षोडश ।
प्रद्युम्नाद्याश् च रुक्मिण्यां भीमाद्याः सत्यभामया ॥००५॥

जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस् तथापरे ।
शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥००६॥

अशीतिश् च सहस्राणि यादवाः कृष्णरक्षिताः ।
प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ॥००७॥

अनिरुद्धस्य वज्राद्या यादवाः सुमहाबलाः ।
तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ॥००८॥

मनुष्ये बाधका ये तु तन्नाशाय बभूव सः ।
कर्तुं कर्मव्यवस्थानं मनुष्यो जायते हरिः ॥००९॥

देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् ।
प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ॥०१०॥

सङ्ग्रामस्त्वथ वाराहश् चतुर्थो ऽमृतमन्थनः ।
तारकामयसङ्ग्रामः षष्ठो ह्य् आजीवको रणः ॥०११॥

त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः ।
जितो हालाहलश्चाथ घोरः कोलाहलो रणः ॥०१२॥
मूलम्
त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः ।
जितो हालाहलश्चाथ घोरः कोलाहलो रणः ॥०१२॥
विश्वास-प्रस्तुतिः
हिरण्यकशिपोश्चोरो विदार्य च नखैः पुरा ।
नारसिंहो देवपालः प्रह्नादं कृतवान् नृपम् ॥०१३॥

देवासुरे वामनश् च छलित्वा बलिमूर्जितम् ।
महेन्द्राय ददौ राज्यं काश्यपो ऽदितिसम्भवः ॥०१४॥

वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् ।
उज्जहार भुवं देवदेवैर् अभिष्टुतः ॥०१५॥

[[२०]]
विश्वास-प्रस्तुतिः
सुरासुरैश् च मथितं1 देवेभ्यश्चामृतं ददौ ॥०१६॥

तारकामयसङ्ग्रामे तदा देवाश् च पालिताः ।
निवार्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृतम् ॥०१७॥

विश्वामित्रवशिष्ठात्रिकवयश् च रणे सुरान् ।
अपालयन्ते निर्वार्य रागद्वेषादिदानवान् ॥०१८॥

पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।
ददाह त्रिपुरं देवपालको दैत्यमर्दनः ॥०१९॥

गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः ।
अनुरक्तश् च रेवत्यां चक्रेचान्धासुरार्दनम् ॥०२०॥

अपां फेनमयो भूत्वा देवासुररणे हरन्2 ।
वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् ॥०२१॥

शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः ।
अपालयत् सुरादींश् च दुष्टक्षत्रं निहत्य च ॥०२२॥

हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् ।
भयं निर्णाशयामास देवानां मधुसूदनः ॥०२३॥

देवासुरे रणे यश् च दैत्यः कोलाहलो जितः ।
पालिताश् च सुराः सर्वे विष्णुना धर्मपालनात् ॥०२४॥

राजानो राजपुत्राश् च मुनयो देवता हरिः ।
यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे ॥०२५॥

{इत्य् आग्नेये महापुराणे द्वादशसङ्ग्रामा नाम पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः }
:न्
[[२१]]