अथ चतुःसप्तत्यधिकद्विशततमो ऽध्यायः
विश्वास-प्रस्तुतिः
यदुवंशवर्णनं
अग्निर् उवाच
यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् ।
नीलाञ्जको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ॥००१॥
मूलम्

शतजिद्धैहयो रेणुहयो हय इति त्रयः ।
धर्मनेत्रो हैहयस्य धर्मनेत्रस्य संहनः ॥००२॥

महिमा संहनस्यासीन्महिम्नओ भद्रसेनकः ।
भद्रसेनाद् दुर्गमो ऽभूद्दुर्गमात्कनको ऽभवत् ॥००३॥

कनकात् कृतवीर्यस्तु कृताग्निः करवीरकः ।
कृतौजाश् च चतुर्थो ऽभूत् कृतवीर्यात्तु सो ऽर्जुनः ॥००४॥

दत्तो ऽर्जुनाय तपते सप्तद्वीपमहीशताम् ।
ददौ बाहुसहस्रञ्च अजेयत्वं रणे ऽरिणा ॥००५॥

[[१४]]
विश्वास-प्रस्तुतिः
अधर्मे वर्तमानस्य विष्णुहस्तान्मृतिर्ध्रुवा ।
दश यज्ञसहस्राणि सो ऽर्जुनः कृतवान्नृपाः ॥००६॥

अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् ।
न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति वै नृपः ॥००७॥

यज्ञैर् दानैस्तपोभिश् च विक्रमेण श्रुतेन च ।
कर्तवीर्यस्य च शतं पुत्राणां पञ्च वै पराः ॥००८॥

सूरसेनश् च सूरश् च धृष्टोक्तः कृष्ण एव च ।
जयध्वजश् च नामासीदावन्त्यो नृपतिर्महान् ॥००९॥

जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः ।
हैहयानां कुलाः पञ्च भोजाश्चावन्तयस् तथा ॥०१०॥

वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च ।
वीतिहोत्रादनन्तो ऽभुदनन्ताद्दुर्जयो नृपः ॥०११॥

क्रोष्टोर्वंशं प्रवक्ष्यामि यत्र जातो हरिः स्वयम् ।
क्रोष्टोस्तु वृजिनीवांश् च स्वाहाभूद्वृजिनीवतः ॥०१२॥

स्वाहापुत्रओ रुषद्गुश् च1 तस्य चित्ररथः सुतः ।
शशविन्दुश्चित्ररथाच्चक्रवर्ती हरौ रतः ॥०१३॥

शशविन्दोश् च पुत्त्राणां शतानामभवच्छतम् ।
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् ॥०१४॥

पृथुश्रवाः प्रधानो ऽभूत्तस्य पुत्रः सुयज्ञकः ।
सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनःसुतः ॥०१५॥

तितिक्षोस्तु मरुत्तो ऽभूत्तस्मात्कम्बलवर्हिषः ।
पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः ॥०१६॥

:न्
[[१५]]
विश्वास-प्रस्तुतिः
हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितो ऽभवत् ।
सेव्यायां ज्यामघादासीद्विदर्भस्तस्य कौशिकः ॥०१७॥

लोमपादः क्रथः श्रेष्ठात् कृतिः1 स्याल्लोमपदतः ।
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ॥०१८॥

क्रथाद्विदर्भपुत्राश् च कुन्तिः कुन्तेस्तु धृष्टकः ।
धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः ॥०१९॥

दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते ।
जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः ॥०२०॥

भीमरथान्नवरथस्ततो दृढरथो ऽभवत् ।
शकुन्तिश् च दृढरथात् शकुन्तेश् च करम्भकः ॥०२१॥

करम्भाद्देवलातो ऽभूत्2 देवक्षेत्रश् च तत्सुतः ।
देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसो ऽभवत् ॥०२२॥

द्रवरसात् पुरुहूतो ऽभूज्जन्तुरासीत्तु तत्सुतः ।
गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः ॥०२३॥

सात्त्वताद्भजमानस्तु वृष्णिरन्धक एव च ।
देवावृधश् च चत्वारस्तेषां वंशास्तु विश्रुताः3 ॥०२४॥

भजमानस्य वाह्यो ऽभूद्वृष्टिः कृमिर्निमिस् तथा ।
देवावृधाद्वभ्रुरासीत्तस्य श्लोको ऽत्र गीयते ॥०२५॥

यथैव शृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् ।
वभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः
समः ॥०२६॥

[[१६]]
विश्वास-प्रस्तुतिः
कुहुरो भजमानस्तु1 शिनिः कम्बलवर्हिषः ॥०२७॥

कुहुरस्य2 सुतो धृष्णुधृष्णोस्तु तनयो धृतिः ।
धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः ॥०२८॥

तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः ।
पुनर्वसुस्तस्य पुत्र आहुकश्चाहुकीसुतः ॥०२९॥

आहुकाद्देवको जज्ञे उग्रसेनस्ततो ऽभवत् ।
देववानुपदेवश् च देवकस्य सुताः स्मृताः ॥०३०॥

तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।
देवकी श्रुतदेवी च मित्रदेवी यथोधरा ॥०३१॥

श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी ।
नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः ॥०३२॥

न्यग्रोधश् च सुनामा च कङ्कः शङ्कुश् च भूमिपः ।
सुतनूराष्ट्रपालश् च युद्धमुष्टिः सुमुष्टिकः ॥०३३॥

भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरश् च विदूरथसुतो ऽभवत् ॥०३४॥

राजाधिदेवपुत्रौ द्वौ शोणाश् चः श्वेतवाहनः ।
शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादयः3 ॥०३५॥

शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः ।
भोजस्य हृदिकः पुत्रो ह्य् अदिकस्य दशात्मजाः ॥०३६॥

[[१७]]
विश्वास-प्रस्तुतिः
देवार्हात् कम्बलवर्हिरसमौजास्ततो ऽभवत् ॥०३७॥

सुदंष्ट्रश् च सुवासश् च धृष्टो ऽभूदसमौजसः ।
गान्धारी चैव माद्री च धृष्टभार्ये बभूवतुः ॥०३८॥

सुमित्रो ऽभूच्च गान्धार्यां माद्री जज्ञे युधाजितम्1 ।
अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः ॥०३९॥

अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः ।
सत्राजितः प्रसेनो ऽथ मणिं सूर्यात्स्यमन्तकम् ॥०४०॥

प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाग्रहीन्मणिं ।
हतो जाम्बवता सिंहो जाम्बवान् हरिणा जितः ॥०४१॥

तस्मान्मणिं जाम्बवतीं प्राप्यागाद्दारकां पुरीम् ।
सत्राजिताय प्रददौ शतधन्वा जघान तम् ॥०४२॥

हत्वा शतधनुं कृष्णो मणिमादाय कीर्तिभाक् ।
बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् ॥०४३॥

मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् ।
सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया ॥०४४॥

अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः ।
सत्यकात्सात्यकिर्जज्ञे युयुधानाद्धुनिर्ह्यभूत् ॥०४५॥

धुनेर्युगन्धरः पुत्रः स्वाह्यो ऽभुत्2 स युधाजितः ।
ऋषभक्षेत्रकौ तस्य ह्य् ऋषभाच्च स्वफल्ककः ॥०४६॥

स्वफल्कपुत्रो ह्य् अक्रूरो अकूराच्च सुधन्वकः ।
शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाभवत् ॥०४७॥

[[१८]]
विश्वास-प्रस्तुतिः
धर्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः ।
इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः ॥०४८॥

वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ ।
वसुदेवाच्च देवक्यामादौ जातः सुसेनकः ॥०४९॥

कीर्तिमान् भद्रसेनश् च जारुख्यो विष्णुदासकः ।
भद्रदेहः कम्श एतान् षड्गर्भान्निजघान ह ॥०५०॥

ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी ।
चारुदेष्णश् च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः ॥०५१॥

{इत्य् आग्नेये महापुराणे यदुवंशवर्णनं नाम चतुःसप्तत्यधिकद्विशततमो ऽध्यायः }