{अथ त्रिसप्तत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सोमवंशवर्णनं
अग्निर् उवाच
सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् ।
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः ॥००१॥
मूलम्

सोमश् चक्रे राजसूयं त्रैलोक्यं दक्षिणान्ददौ ।
समाप्ते ऽवभृथे सोमं तद्रूपालोकनेच्छवः ॥००२॥

कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे ।
लक्ष्मीर् नरायणं त्यक्त्वा सिनीवाली च कर्दमम ॥००३॥

द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् ।
प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ॥००४॥

कीर्तिर्जयन्तम्भर्तारं वसुर्मारीचकश्ययम् ।
धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा ॥००५॥

स्वकीया इव सोमो ऽपि कामयामास तास्तदा ।
एवं कृतापचारस्य तासां भर्तृगणस्तदा ॥००६॥

न शशाकापचाराय1 शापैः शस्त्रादिभिः पुनः ।
सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्य् उत ॥००७॥

विवभ्राम मतिस्तस्य विनयादनया हता ।
वृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् ॥००८॥

जहार तरसा सोमो ह्य् अवमन्याङ्गिरःसुतम् ।
ततस्तद्युद्धमभवत् प्रख्यातं तारकामयम् ॥००९॥

:न्
[[१२]]
विश्वास-प्रस्तुतिः
देवानां दानवानाञ्च लोकक्षयकरं महत् ।
ब्रह्मा निवार्योशनसन्तारामङ्गिरसे ददौ ॥०१०॥

तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः ।
गर्भस्त्यक्तः प्रदीप्तो ऽथ प्राहाहं सोमसन्भवः ॥०११॥

एवं सोमाद्बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः ।
स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ॥०१२॥

तया सहाचरद्राजा दशवर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने ॥०१३॥

एको ऽग्निरभवत् पूर्वं तेन त्रेता प्रवर्तिता ।
पुरूरवा योगशीलो गान्धर्वलोकमीयिवान् ॥०१४॥

आयुर्दृ।ढायुरश्वायुर्धनायुर्धृतिमान् वसुः ।
दिविजातः शतायुश् च सुषुवे चोर्वशी नृपान् ॥०१५॥

आयुषो नहुषः पुत्रो वृद्धशर्मा रजिस् तथा ।
दर्भो विपाप्मा पञ्चाग्न्यं1 रजेः पुत्रशतं ह्य् अभूत् ॥०१६॥

राजेया इति विख्याता विष्णुदत्तवरो रजिः ।
देवासुरे रणे दैत्यानबधीत्सुरयाचितः ॥०१७॥

गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः ।
रजेः पुत्रैर् हृतं राज्यं शक्रस्याथ सुदुर्मनाः ॥०१८॥

ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ ।
मोहयित्वा रजिसुतानासंस्ते निजधर्मगाः ॥०१९॥

नहुषस्य सुताः सप्त यतिर्ययातिरुत्तमः ।
उद्भवः पञ्चकश् चैव शर्यातिमेघपालकौ ॥०२०॥

[[१३]]
विश्वास-प्रस्तुतिः
यतिः कुमारभावे ऽपि विष्णुं ध्यात्वा हरिं गतः ।
देवयानी शक्रकन्या ययातेः पत्न्य् अभूत् तदा ॥०२१॥

वृषपर्वजा शर्मिष्ठा ययातेः पञ्च तत्सुताः ।
यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत ॥०२२॥

द्रुह्यञ्चानूञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।
यदुः पूरुश्चाभवतान्तेषां वंशविवर्धनौ ॥०२३॥

{इत्य् आग्नेये महापुराणे सोमवंशवर्णनं नम त्रिसप्तत्यधिकद्विशततमो ऽध्यायः }