{अथ द्विसप्तत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सूर्यवंशकीर्तनं
अग्निर् उवाच
सूर्यवंशं सोमवंशं रज्ञां वंशं वदमि ते ।
हरेर्ब्रह्मा पद्मगो ऽभून्मरीचिर्ब्रह्मणः सुतः ॥००१॥
मूलम्

मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि ।
सञ्ज्ञा राज्ञी1 प्रभा तिस्रो राज्ञी रैवतपुत्रिका ॥००२॥

रेवन्तं सुषुवे पुत्रं प्रभातञ्च प्रभा रवेः ।
त्वाष्ट्री सञ्ज्ञा मनुं पुत्रं यमलौ यमुनां यमम् ॥००३॥

छाया सञ्ज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् ।
शनिञ्च तपतीं विष्टिं सञ्ज्ञायाञ्चाश्विनौ पुनः ॥००४॥

मनोर्वैवस्वतस्यासन् पुत्रा वै न च तत्समाः ।
इक्ष्वाकुश् चैव नाभागो धृष्टःशर्यातिरेव च ॥००५॥

नरिष्यन्तस् तथा प्रांशुर्नाभागादिष्टसत्तमाः ।
करुषश् च पृषध्रश् च अयोध्यायां महाबलाः ॥००६॥

कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः ।
पुरूरवसमुच्पाद्य सेला सुद्युम्नताङ्गता ॥००७॥

:न्
[[८]]
विश्वास-प्रस्तुतिः
सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः ।
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमा ॥००८॥

दिक् सर्वा राजवर्यस्य गयस्य तु गयापुरी ।
वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह ॥००९॥

तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु ।
नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ॥०१०॥

अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् ।
सुकल्पानर्तौ शर्यार्तेर्वैरोह्यानर्ततो नृपः ॥०११॥

आनर्तविषयश्चासीत् पुरी चासीत् कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥०१२॥

ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके ॥०१३॥

मुहूर्तभूतं देवस्य मर्त्ये बहुयुगं गतम् ।
आजगाम जवेनाथ स्वां पुरीं यादवैर् वृताम् ॥०१४॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर् गुप्तां(?) वासुदेवपुरोगमैः ॥०१५॥

रेवतीं बलदेवाय ददौ ज्ञात्वा ह्य् अनिन्दिताम् ।
तपः सुमेरुशिखरे तप्त्वा विष्ण्वालयं गतः ॥०१६॥

नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥०१७॥

शूद्रत्वञ्च पृषध्रो ऽगाद्धिंसयित्वा गुरोश् च गाम् ।
मनुपुत्रादथेक्षाकोर्विकुक्षिर्देवराडभूत् ॥०१८॥

[[९]]
विश्वास-प्रस्तुतिः
तस्य पुत्रः पृथुर् नाम विश्वगश्वः पृथोः सुतः ॥०१९॥

आयुस्तस्य च पुत्रो ऽभूद्युवनाश्वस् तथा सुतः ।
युवनाश्वाच्च श्रावन्तः पूर्वे श्रावन्तिका पुरी ॥०२०॥

श्रावन्ताद् वृहदश्वो ऽभूत् कुबलाश्वस्ततो नृपः ।
धुन्धुमारत्वमगमद्धुन्धोर् नाम्ना च वै पुरा ॥०२१॥

धुन्धुमारास्त्रयो भूपा दृढाश्वो दण्ड एव च ।
कपिलो ऽथ दृढाश्वात्तु हर्यश्वश् च प्रमोदकः ॥०२२॥

हर्यश्वाच्च निकुम्भो ऽभूत् संहताश्वो निकुम्भतः ।
अकृशाश्वो रणाश्वश् च संहताश्वसुतावुभौ ॥०२३॥

युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः ।
मान्धातुः पुरुकुत्सो ऽभून्मुचुकुन्दो द्वितीयकः ॥०२४॥

पुरुकुत्सादसस्युश् च सम्भूतो नर्मदाभवः ।
सम्भूतस्य सुधन्वाभूत्त्रिधन्वाथ सुधन्वनः ॥०२५॥

त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः ।
सत्यव्रतात्सत्यरथो हरिश् चन्द्रश् च तत्सुतः ॥०२६॥

हरिश् चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृको ऽभवत् ।
वृकाद्वाहुश् च वाहोश् च सगरस्तस्य च प्रिया ॥०२७॥

प्रभा षष्टिसहस्राणां सुतानां जननी ह्य् अभूत् ।
तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् ॥०२८॥

खनन्तः पृथिवीं दग्धा विष्णुना1 बहुसागराः ।
असमञ्जसो ऽंश्रुमांश् च दिलीपो ऽंशुमतो ऽभवत् ॥०२९॥

[[१०]]
विश्वास-प्रस्तुतिः
भगीरथात्तु नाभागो नाभागादम्बरीषकः ॥०३०॥
मूलम्
भगीरथात्तु नाभागो नाभागादम्बरीषकः ॥०३०॥
विश्वास-प्रस्तुतिः
सिन्धुद्वीपो ऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः ।
श्रुतायोरृतपर्णो ऽभूत्तस्य कल्माषपादकः ॥०३१॥

कल्माषाङ्घ्रेः सर्वकर्मा1 ह्य् अनरण्यस्ततो ऽभवत् ।
अनरण्यात्तु निघ्नो ऽथ अनमित्रस्ततो रघुः ॥०३२॥

रघोरभुद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः ।
दीर्घवाहुरजात् कालस्त्वजापालस्ततो ऽभवत् ॥०३३॥

तथ दशरथो जातस्तस्य पुत्रचतुष्टयम् ।
नारायणात्मकाः सर्वे रामस्तस्याग्रजो ऽभवत् ॥०३४॥

रावणान्तकरो राजा ह्य् अयोध्यायां रघूत्तमः ।
वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ॥०३५॥

रामपुत्रौ कुशलवौ सीतायां कुलवर्धनौ ।
अतिथिश् च कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥०३६॥

निषधात्तु नलो जज्ञे नभो ऽजायत वै नलात् ।
नभसः पुण्डरीको ऽभूत् सुधन्वा च ततो ऽभवत् ॥०३७॥

सुधन्वनो देवानीको ह्य् अहीनाश्वश् च तत्सुतः ।
अहीनाश्वात् सहस्राश्वश् चन्द्रालोकस्ततो ऽभवत् ॥०३८॥

चन्द्रावलोकतस्तारापीडो ऽस्माच्चन्द्रपर्वतः ।
चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः ।०३९।
इक्ष्वाकुवंशप्रभवाः सूर्यवंशधराः स्मृताः ॥०३९॥

{इत्य् आग्नेये महापुराणे सुर्यवंशकीर्तनं नाम द्विसप्तत्यधिकद्विशततमो ऽध्यायः }
:न्
[[११]]