{अथैकसप्तत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दानादिमाहत्म्यं
पुष्कर उवाच
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ।
लक्षार्धाद्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदापयेत् ॥००१॥
मूलम्

वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् ।
पाद्मं द्वादशसाहस्रं द्यैष्ठे दद्याच्च धेनुमत् ॥००२॥

वराहकल्पवृत्तान्तमधिकृत्य पराशरः ।
त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ॥००३॥

जलधेनुमदाषाढ्यां विष्णोः पदमवाप्नुयात् ।
चतुर्दशसहस्राणि वायवीयं हरिप्रियं ॥००४॥

श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ।
दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुडधेनुमत् ॥००५॥

[[५]]
विश्वास-प्रस्तुतिः
वृत्रासुरबधोपेतं तद्भागवतमुच्यते ॥००६॥
मूलम्
वृत्रासुरबधोपेतं तद्भागवतमुच्यते ॥००६॥
विश्वास-प्रस्तुतिः
सारस्वतस्त कल्पस्य प्रोष्ठपद्यान्तु तद्ददेत् ।
अष्टादशसहस्राणि हेमसिंहसमन्वितं ॥००७॥

यत्राह नारदो धर्मान् वृहत्कल्पाश्रितानिहं ।
पञ्चविंशसहस्राणि नारदीयं तदुच्यते ॥००८॥

सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् ।
यत्राधिकृत्य शत्रूनान्धर्माधर्मविचारणा ॥००९॥

कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् ।
अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् ॥०१०॥

लिखित्वा पुस्तकं दद्यान्मार्गशीर्ष्यां स सर्वदः ।
द्वादशैव सहस्राणि सर्वविद्यावबोधनं1 ॥०११॥

चतुर्दशसहस्राणि भविष्यं सूर्यसम्भवं ।
भवस्तु मनवे प्राह दद्यात् पौष्यां गुडादिमत् ॥०१२॥

सावर्णिना नारदाय ब्रह्मवैवर्तमीरितं ।
रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ॥०१३॥

माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मलोकभाक् ।
यत्रग्निलिङ्गमध्यस्थो धर्मान्प्राह महेश्वरः ॥०१४॥

आग्नेयकल्पे तल्लिङ्गमेकादशसहस्रकम् ।
तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् ॥०१५॥

चतुर्दशसहस्राणि वाराहं विष्णुणेरितम् ।
भूमौ वराहचरितं मानवस्य प्रवृत्तितः ॥०१६॥

:न्
[[६]]
विश्वास-प्रस्तुतिः
चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ॥०१७॥

अधिकृत्य सधर्मांश् च कल्पे तत्पुरुषे ऽर्पयेत् ।
वामनं दशसाहस्रं धौमकल्पे हरेः कथां ॥०१८॥

दद्यात् शरदि विषुवे धर्मार्थादिनिबोधनम् ।
कूर्मञ्चाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ॥०१९॥

इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् ।
त्रयोदशसहस्राणि मात्स्यं कल्पादितो ऽब्रवीत् ॥०२०॥

मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् ।
गारुडञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ॥०२१॥

विश्वाण्डाद्गरुडोत्पत्तिं तद्दद्याद्धेमहंसवत् ।
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रबीत्तु यत् ॥०२२॥

तच्च द्वादशसाहस्रं ब्रह्माण्डं तद्द्विजे ऽर्पयेत् ।
भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः ॥०२३॥

वाचकं पूजयेदादौ भोजयेत् पायसैर् द्विजान् ।
गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ॥०२४॥

समाप्ते भारते विप्रं संहितापुस्तकान्यजेत् ।
शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ॥०२५॥

नरनारयणौ पूज्यौ पुस्तकाः कुसुमादिभिः ।
गो ऽन्नभूहेम दद्वाथ भोजयित्वा क्षमापयेत् ॥०२६॥

महादानानि देयानि रत्नानि विविधानि च ।
मासकौ द्वौ त्रयश् चैव मासे मासे प्रदापयेत् ॥०२७॥

अयनादौ श्राबकस्य दानमादौ विधीयते ।
श्रोतृभिः सकलैः कार्यं श्रावके पूजनं द्विज ॥०२८॥

[[७]]
विश्वास-प्रस्तुतिः
इतिहासपुराणानां पुस्तकानि प्रयच्छति ।
पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् ॥०२९॥

इत्यग्नेये महपुरणे दानादिमाहत्म्यं नामैक
सप्तत्यधिकद्विशततमो ऽध्यायः