२७० वेदशाखादयः

{अथ सप्तत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वेदशाखदिकीर्तनं

पुष्कर उवाच
सर्वानुग्राहका मन्त्राश् चतुर्वर्गप्रसाधकाः ।
ऋगथर्व तथा साम यजुः सङ्ख्या तु लक्षकं ॥००१॥

मूलम्

भेदः साङ्ख्यायनश् चैक आश्वलायनो द्वितीयकः ।
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥००२॥

ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।
एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस् तथा ॥००३॥

शतानि दश विप्राणां षडशीतिश् च शाखिकाः ।
काण्वमाध्यन्दिनी सञ्ज्ञा कठी माध्यकठी तथा ॥००४॥

मैत्रायणी च सञ्ज्ञा च तैत्तिरीयाभिधानिका ।
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥००५॥

साम्नः कौथुमसञ्ज्ञैका द्वितीयाथर्वणायनी ।
गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥००६॥

उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।
सचतुःशतकाश् चैव ब्रह्मसङ्घटकाः स्मृताः ॥००७॥

पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।
सुमन्तुर्जाजलिश् चैव श्लोकायनिरथर्वके ॥००८॥

शौनकः पिप्पलादश् च मुञ्जकेशादयो ऽपरे ।
मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥००९॥

व्यासरूपी स भगवान् शाखाभेदद्यकारयत् ।

[[३]]

विश्वास-प्रस्तुतिः

शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥०१०॥

प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः ।
सुमतिश्चाग्निवर्चाश् च मित्रयुःशिंशपायनः ॥०११॥

कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।
शांशपायनादयश् चक्रुः1 पुराणानान्तु संहिताः ॥०१२॥

ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।
महापुराणे ह्य् आग्नेये विद्यारूपो हरिः स्थितः ॥०१३॥

सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।
तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥०१४॥

विष्णुर्जिष्णुर्भविष्णुश् च अग्निसूर्यादिरूपवान् ।
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥०१५॥

वेदेषु सपुराणेषु यज्ञमूर्तिश् च गीयते ।
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥०१६॥

आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥०१७॥

सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्2
सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥०१८॥

विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम्3
राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् ॥०१९॥

स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥०२०॥

:न्

[[४]]

विश्वास-प्रस्तुतिः

कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।
गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥०२१॥

सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।
पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥०२२॥

इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम
सप्तत्यधिकद्विशततमो ऽध्यायः

  1. शिंशपायनादयश् चक्रुरिति ख ॥ ↩︎ ↩︎

  2. परमिति ञ ॥ ↩︎ ↩︎

  3. श्रीबलप्रदमिति ञ ॥ ↩︎ ↩︎