२६९ विष्णुपञ्जरं

{अथोनसप्तत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

विष्णुपञ्जरं

पुष्कर उवच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।
शङ्करस्य द्विजश्रेष्थ रक्षणाय निरूपितं ॥००१॥

मूलम्

वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥००२॥

विष्णुः प्राच्यां स्थितश् चक्री हरिर्दक्षिनणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥००३॥

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नरसिंहो ऽम्बरे मम ॥००४॥

क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं ।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥००५॥

गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला ।
रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी ॥००६॥

शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ॥००७॥

[[१]]

विश्वास-प्रस्तुतिः

खड्गधारोज्ज्वलज्जो ऽत्स्नानिर्धूता ये समाहिताः ।
ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः ॥००८॥

ये कुष्माण्डास्था यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥००९॥

सिंहादयश् च पशवो दन्दशूकाश् च पन्नगाः ।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥०१०॥

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसञ्च हर्तारश्छायाविभ्रंशकाश् च ये ॥०११॥

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥०१२॥

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥०१३॥

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो
हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥०१४॥

यथा परं ब्रह्म हरिस् तथा परः जगत्स्वरूपश् च स एव केशवः ।
सत्येन तेनाच्युतनामकीर्तनात् प्रणाशयेत्तु त्रिविधं
ममाशुभं ॥०१५॥

{इत्य् आग्नेये महापुराणे विष्णुपञ्जरं नामोनसप्रत्यधिकद्विशततमो ऽध्यायः }

[[२]]