{अथाष्टषष्ट्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
छत्रादिमन्त्रादयः
पुष्कर उवाच
छत्रादिमन्त्रान्वक्ष्यामि यैस्तत् पूज्य जयादिकम् ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥००१॥
मूलम्

सूर्यस्य च प्रभावेन वर्धस्व त्वं महामते ।
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ॥००२॥

यथाम्बुदश्छादयते शिवायैनां वसुन्धरां ।
तथाच्छादय राजानं विजयारोग्यवृद्धये ॥००३॥

गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥००४॥

प्रभावाच्च हुताशस्य वर्धस्व त्वं तुरङ्गम ।
तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥००५॥

रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।
स्मर त्वं राजपुत्रो ऽसि कौस्तुभन्तु मणिं स्मर ॥००६॥

यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा ।
भूम्यर्थे ऽनृतवादी च क्षत्रियश् च पराङ्मुखः ॥००७॥

व्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव ।
विकृतिं मापगच्छेस्त्वं युद्धे ऽध्वनि तुरङ्गम ॥००८॥

रिपून् विनिघ्नन्समरे सह भर्त्रा सुखी भव ।
शक्रकेतो महावीर्यः सुवर्णस्त्वामुपाश्रितः ॥००९॥

[[४७८]]
विश्वास-प्रस्तुतिः
काश्यपेयो ऽमृताहर्ता नागारिर्विष्णुवाहनः ॥०१०॥

अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।
महाबलो मावेगो महाकायो ऽमृताशनः ॥०११॥
मूलम्
अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।
महाबलो मावेगो महाकायो ऽमृताशनः ॥०११॥
विश्वास-प्रस्तुतिः
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्य् असि ॥०१२॥

जयाय भव मे नित्यं वृद्धये ऽथ बलस्य च ।
साश्ववर्मायुधान्योधान्रक्षास्माकं रिपून्दह ॥०१३॥

कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः ।
सुप्रतीको ऽञ्जनो नील एते ऽष्टौ देवयोनयः ॥०१४॥

तेषां पुत्राश् च पौत्राश् च बलान्यष्टौ समाश्रिताः ।
भद्रो मन्दो मृगश् चैव गजः सङ्कीर्ण एव च ॥०१५॥

वने वने प्रसूतास्ते स्मरयोनिं महागजाः ।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥०१६॥

भर्तारं रक्ष नागेन्द्र समयः परिपाल्यतां ।
ऐरावताधिरूढस्तु वज्रहस्तः शतक्रतुः ॥०१७॥

पृष्ठतो ऽनुगतस्त्वेष रक्षतु त्वां स देवराट् ।
अवाप्नुहि जयं युद्धे सुस्थश् चैव सदा व्रज ॥०१८॥

अवाप्नुहि बलञ्चैव ऐरावतसमं युधि ।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवो ऽनिलात् ॥०१९॥

स्थैर्यं गिरेर्जयं रुद्राद्यशो देवात् पुरन्दरात् ।
युद्धे रक्षन्तु नागास्त्वां दिशश् च सह दैवतैः ॥०२०॥

अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः ।
मन्वो वसवो रुद्रा वायुः सोमो महर्षयः ॥०२१॥

[[४७९]]
विश्वास-प्रस्तुतिः
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः ।
प्रमथास्तु सहादित्यैर् भूतेशो मातृभिः सह ॥०२२॥

शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ॥०२३॥

यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः ।
पतन्तु तव शत्रूणां हतानि तव तेजसा ॥०२४॥

कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने ।
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ॥०२५॥

शोभितासि तथैवाद्य शोभस्व समयं स्मर ।
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ॥०२६॥

व्याधिभिर्विविधैर् घोरैः शस्त्रैश् च युधि निर्जिताः ।
पूतना रेवती लेखा कालरात्रीति पठ्यते ॥०२७॥

दहन्त्वाशु रिपून् सर्वान्पताके त्वामुपाश्रिताः ।
सर्वमेधे महायज्ञे देवदेवेन शूलिना ॥०२८॥

शर्वेण जगतश् चैव सारेण त्वं विनिर्मितः ।
नन्दकस्यापरां मूर्तिं स्मर शत्रुनिवर्हण ॥०२९॥

नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन ।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥०३०॥

औगर्भो विजयश् चैव धर्मपालस्तथैव च ।
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ॥०३१॥

नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ॥०३२॥

[[४८०]]
विश्वास-प्रस्तुतिः
पिता पितामहो देवः स त्वं पालय सर्वदा ॥०३३॥

शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशो ऽद्य मे ।
रक्ष मां रक्षणीयो ऽहन्तवानघ नमो ऽस्तु ते ॥०३४॥

दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।
भव भूमिसैन्यानां यथा विजयवर्धनः ॥०३५॥

यथा जीमूतघोषेण हृष्यन्ति वरवारणाः ।
तथास्तु तव शब्देन हर्षो ऽस्माकं मुदावह ॥०३६॥

यथा जीमूतशब्देन स्त्रीणां त्रासो ऽभिजायते ।
तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ॥०३७॥

मन्त्रैः सदार्चनीयास्ते योजनीया जयादिषु ।
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ॥०३८॥

राज्ञो ऽभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥३९॥

{इत्य् आग्नेये महापुराणे छत्रादिमन्त्रादयः नामाष्टषष्ठ्यधिकद्विशततमो ऽध्यायः ॥ }
[[४८१]]
अग्निपुराणम्
महर्षिश्रीमद्वेदव्यासेन प्रणीतम्
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम्
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च
संवत् १९३३
अग्निपुराणम्