२६७ नारीजनाविधिः

{अथ सप्तषष्ट्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नीराजनविधिः

पुष्कर उवाच
कर्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
मासि मासि च सङ्क्रान्तौ सूर्यसोमादिदेवताः ॥००१॥

मूलम्

[[४७४]]

विश्वास-प्रस्तुतिः

अगस्त्यस्योदये ऽगस्त्यञ्चातुर्मास्यं हरिं यजेत् ।
शयनोत्थापने पञ्चदिनं कुर्यात्समुत्सवम् ॥००२॥

प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ॥००३॥

तत्र शक्रध्वजं स्थाप्य शची शक्रञ्च पूजयेत् ।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ॥००४॥

एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
यजेद्वस्त्रादिसंवीतं घटस्थं1 सुरपं शचीं ॥००५॥

वर्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ॥००६॥

त्वं प्रभुः शाश्वतश् चैव सर्वभूतहिते रतः ।
अनन्ततेजा वै राजो यशोजयविवर्धनः ॥००७॥

तेजस्ते वर्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् ।
ब्रह्मविष्णुमहेशाश् च कार्त्तिकेयो विनायकः ॥००८॥

आदित्या वसवो रुद्राः साध्याश् च भृगवो दिशः ।
मरुद्गुणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ॥००९॥

समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
प्रवर्तयन्तु ते तेजो जय शक्र शचीपते ॥०१०॥

तव चापि जयान्नित्यं मम सम्पठ्यतां शुभं ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥०११॥

भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशं ॥०१२॥

:न्

[[४७५]]

विश्वास-प्रस्तुतिः

मन्त्रेणेन्द्रं समभ्यर्च्य जितभूः स्वर्गमाप्नुयात् ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ॥०१३॥

शुक्लपक्षे तथाष्टम्यामायुधं कार्मुकं ध्वजम् ।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ॥०१४॥

जाग्रन्निशि बलिन्दद्याद्द्वितीये ऽह्नि पुनर्यजेत् ।
भद्रकालि महाकालि दुर्गे दुर्गार्तिहारिणि ॥०१५॥

त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
नीराजनविधिं वक्ष्ये ऐशान्यान्मन्दिरं चरेत् ॥०१६॥

तोरणत्रितयं तत्र गृहे देवान्यजेत् सदा ।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥०१७॥

ततः प्रभृति कर्तव्यं यावत् स्वातौ रविः स्थितः ।
ब्रह्मा विष्णुश् च शम्भुश् च शक्रश् चैवानलानिलौ ॥०१८॥

विनायकः कुमारश् च वरुणो धनदो यमः ।
विश्वेदेवा वैश्रवसो गजाश्चाष्टौ च तान्यजेत् ॥०१९॥

कुमुदैरावणौ पद्मः पुष्पदन्तश् च वामनः ।
सुप्रतीको ऽञ्जनो नीलः पूजा कार्या गृहादिके ॥०२०॥

पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
कुम्भा अष्टौ पूजिताश् च तैः स्नाप्याश्वगजोत्तमाः ॥०२१॥

अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
निष्क्रामयेत्तोरणैस्तु गोपुरादि1 न लङ्घयेत् ॥०२२॥

विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।

:न्

[[४७६]]

विश्वास-प्रस्तुतिः

वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ॥०२३॥

विशाखायां1 गते सूर्ये आश्रमे निवसेन्नृपः ।
अलङ्कुर्याद्दिने तस्मिन् वाहनन्तु विशेषतः ॥०२४॥

पूजिता राजलिङ्गाश् च कर्तव्या नरहस्तगाः ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ॥०२५॥

ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ।
अभिमन्त्र्य ततः सर्वान् कुर्यात् कुञ्जरधूर्गतान् ॥०२६॥

कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
मन्त्रितांश् च समारुह्य तोरणेन विनिर्गमेत् ॥०२७॥

निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ॥०२८॥

उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
राजा प्रदक्षिणं कुर्यात्त्रीन् वारान् सुसमाहितः ॥०२९॥

चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ॥०३०॥

शान्तिर् नीराजनाख्येयं वृद्धये रिपुमर्दनी ॥३१॥

{इत्य् आग्नेये महापुराणे नीराजनाविधिर्नाम सप्तषष्ट्यधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[४७७]]

  1. पटस्थमिति क॥ , ग॥ , छ॥ , ज॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎