२६६ माहेश्वरस्नानलक्षकोटिहोमादयः

{अथ षट्षष्ठ्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

माहेश्वरस्नानलक्षकोटिहोमादयः

पुष्कर उवाच
स्नानं माहेश्वरं वक्ष्ये राजादेर्जयवर्धनम् ।
दानवेन्द्राय बलये यज्जगादोशनाः पुरा ॥००१॥

मूलम्

भास्करे ऽनुदिते पीठे प्रातः संस्नापयेद् घटैः । ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगात्राय । तद्यथा जय जय सर्वान् शत्रून्मूकस्य कलहविग्रहविवादेषु भञ्जय । ॐ मथ मथ सर्वपथिकान्योसौ युगान्तकाले दिधक्षति इमां पूजां
विश्वास-प्रस्तुतिः

रौद्रमूर्तिः सहस्रांशुः शुक्रः स ते रक्षतु जीवितं ।
सम्बर्तकाग्नितुल्यश् च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि
तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ॥
एवं स्नतस्तु मन्त्रेण जुहुयात्तिलतण्डुलम् ॥००२॥

पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं ।
स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ॥००३॥

स्नानं घृतेन कथितमायुष्यवर्धनं परम् ।
गोमयेन च लक्ष्मीः स्याद्गोमूत्रेणाघमर्दनम् ॥००४॥

क्षीरेण बलबुद्धिः स्याद्दध्ना लक्ष्मीविवर्धनं ।
कुशोदकेन पापान्तः पञ्चगव्येन सर्वभाक् ॥००५॥

शतमूलेन सर्वाप्तिर्गोशृङ्गोदकतो ऽघजित् ।

[[४७२]]

विश्वास-प्रस्तुतिः

पलाशबिल्वकमलकुशस्नानन्तु सर्वदं ॥००६॥

मूलम्

पलाशबिल्वकमलकुशस्नानन्तु सर्वदं ॥००६॥

विश्वास-प्रस्तुतिः

वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं ।
आयुष्यञ्च यशस्यञ्च धर्ममेधाविवर्धनम् ॥००७॥

हैमाद्भिश् चैव माङ्गल्यं रूप्यताम्रोदकैस् तथा ।
रत्नोदकैस्तु विजयः सौभाग्यं सर्वगन्धकैः ॥००८॥

फलाद्भिश् च तथारोग्यं धात्र्यद्भिः परमां श्रियम् ।
तिलसिद्धार्थकैर् लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ॥००९॥

पद्मोत्पलकदम्बैश् च श्रीर्बलं बलाद्रुमोदकैः ।
विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ॥०१०॥

एकाकी एककामायेत्येकोर्कं1 विधिवच्चरेत् ।
अक्रन्दयतिसूक्तेन प्रबध्नीयान्मणिं करे ॥०११॥

कुष्ठपाठा वाचा शुण्ठी शङ्खलोहादिको मणिः ।
सर्वेषामेवकामानामीश्वरो भगवान् हरिः ॥०१२॥

तस्य सम्पूजनादेव सर्वान्कामान्समश्नुते ।
स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ॥०१३॥

पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते ।
पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ॥०१४॥

द्विस्नेहस्नपनात् श्लेष्मरोगहा चातिपूजया ।
घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ॥०१५॥

स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् ।
क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ॥०१६॥

घृतमिशुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये ।

:न्

[[४७३]]

विश्वास-प्रस्तुतिः

अनुलेपस्त्रिशुक्रस्तु कर्पूरोशीरचन्दनैः ॥०१७॥

चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।
पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ॥०१८॥

त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकुङ्कुमैः ।
मृगदर्पं सकर्पूरं मलयं सर्वकामदम् ॥०१९॥

जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् ।
पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ॥०२०॥

कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्दिशेत् ।
उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ॥०२१॥

कुङ्कुमं रक्तपद्मानि त्रिरक्तमुत्पलं ।
धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां ॥०२२॥

चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट शोडश ।
लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः ॥०२३॥

ग्रहानभ्यर्च्य गायत्र्या सर्वशान्तिः क्रमाद्भवेत् ॥२४॥

{इत्य् आग्नेये महापुराणे महेश्वरस्नानलक्षकोटिहोमादयो नाम षट्षष्ट्यधिकद्विशततमो ऽध्यायः ॥ }

  1. यवकामायेत्येकोर्कमिति क॥ , छ॥ च ↩︎ ↩︎